रावणसुग्रीवनियुद्धम्

युद्धकाण्डः / रावणसुग्रीवनियुद्धम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे रावणसुग्रीवनियुद्धम् नाम चत्वारिंशः सर्गः ॥६-४०॥
ततो रामः सुवेलाग्रं योजनद्वयमण्डलम् । उपारोहत् ससुग्रीवो हरियूथैः समन्वितः ॥६-४०-१॥
स्थित्वा मुहूर्तं तत्रैव दिशो दश विलोकयन् । त्रिकूटशिखरे रम्ये निर्मितां विश्वकर्मणा ॥६-४०-२॥
ददर्श लङ्कां सुन्यस्तां रम्यकाननशोभिताम् । तस्य गोपुरशृङ्गस्थं राक्षसेन्द्रं दुरासदम् ॥६-४०-३॥
श्वेतचामरपर्यन्तं विजयच्छत्रशोभितम् । रक्तचन्दनसंलिप्तं रत्नाभरणभूषितम् ॥६-४०-४॥
नीलजीमूतसंकाशं हेमसंछादिताम्बरम् । ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसम् ॥६-४०-५॥
शशलोहितरागेण संवीतं रक्तवाससा । संध्यातपेन संछन्नं मेघराशिमिवाम्बरे ॥६-४०-६॥
पश्यतां वानरेन्द्राणां राघवस्यापि पश्यतः । दर्शनाद् राक्षसेन्द्रस्य सुग्रीवः सहसोत्थितः ॥६-४०-७॥
क्रोधवेगेन संयुक्तः सत्त्वेन च बलेन च । अचलाग्रादथोत्थाय पुप्लुवे गोपुरस्थले ॥६-४०-८॥
स्थित्वा मुहूर्तं सम्प्रेक्ष्य निर्भयेनान्तरात्मना । तृणीकृत्य च तद् रक्षः सोऽब्रवीत् परुषं वचः ॥६-४०-९॥
लोकनाथस्य रामस्य सखा दासोऽस्मि राक्षस । न मया मोक्ष्यसेऽद्य त्वं पार्थिवेन्द्रस्य तेजसा ॥६-४०-१०॥
इत्युक्त्वा सहसोत्पत्य पुप्लुवे तस्य चोपरि । आकृष्य मुकुटं चित्रं पातयामास तद् भुवि ॥६-४०-११॥
समीक्ष्य तूर्णमायान्तं बभाषे तं निशाचरः । सुग्रीवस्त्वं परोक्षं मे हीनग्रीवो भविष्यसि ॥६-४०-१२॥
इत्युक्त्वोत्थाय तं क्षिप्रं बाहुभ्यामाक्षिपत् तले । कन्दुवत् स समुत्थाय बाहुभ्यामाक्षिपद्धरिः ॥६-४०-१३॥
परस्परं स्वेदविदिग्धगात्रौ परस्परं शोणितरक्तदेहौ । परस्परं श्लिष्टनिरुद्धचेष्टौ परस्परं शाल्मलिकिंशुकाविव ॥६-४०-१४॥
मुष्टिप्रहारैश्च तलप्रहारैररत्निघातैश्च कराग्रघातैः । तौ चक्रतुर्युद्धमसह्यरूपं महाबलौ राक्षसवानरेन्द्रौ ॥६-४०-१५॥
कृत्वा नियुद्धं भृशमुग्रवेगौ कालं चिरं गोपुरवेदिमध्ये । उत्क्षिप्य चोत्क्षिप्य विनम्य देहौ पादक्रमाद् गोपुरवेदिलग्नौ ॥६-४०-१६॥
अन्योन्यमापीड्य विलग्नदेहौ तौ पेततुः सालनिखातमध्ये । उत्पेततुर्भूमितलं स्पृशन्तौ स्थित्वा मुहूर्तं त्वभिनिःश्वसन्तौ ॥६-४०-१७॥
आलिङ्ग्य चालिङ्ग्य च बाहुयोक्त्रैः संयोजयामासतुराहवे तौ । संरम्भशिक्षाबलसम्प्रयुक्तौ सुचेरतुः सम्प्रति युद्धमार्गैः ॥६-४०-१८॥
शार्दूलसिंहाविव जातदंष्ट्रौ गजेन्द्रपोताविव सम्प्रयुक्तौ । संहत्य संवेद्य च तौ कराभ्यां तौ पेततुर्वै युगपद् धरायाम् ॥६-४०-१९॥
उद्यम्य चान्योन्यमधिक्षिपन्तौ संचक्रमाते बहु युद्धमार्गे । व्यायामशिक्षाबलसम्प्रयुक्तौ क्लमं न तौ जग्मतुराशु वीरौ ॥६-४०-२०॥
बाहूत्तमैर्वारणवारणाभैर्निवारयन्तौ परवारणाभौ । चिरेण कालेन भृशं प्रयुद्धौ संचेरतुर्मण्डलमार्गमाशु ॥६-४०-२१॥
तौ परस्परमासाद्य यत्तावन्योन्यसूदने । मार्जाराविव भक्षार्थेऽवतस्थाते मुहुर्मुहुः ॥६-४०-२२॥
मण्डलानि विचित्राणि स्थानानि विविधानि च । गोमूत्रकाणि चित्राणि गतप्रत्यागतानि च ॥६-४०-२३॥
तिरश्चीनगतान्येव तथा वक्रगतानि च । परिमोक्षं प्रहाराणां वर्जनं परिधावनम् ॥६-४०-२४॥
अभिद्रवणमाप्लावमवस्थानं सविग्रहम् । परावृत्तमपावृत्तमपद्रुतमवप्लुतम् ॥६-४०-२५॥
उपन्यस्तमपन्यस्तं युद्धमार्गविशारदौ । तौ विचेरतुरन्योन्यं वानरेन्द्रश्च रावणः ॥६-४०-२६॥
एतस्मिन्नन्तरे रक्षो मायाबलमथात्मनः । आरब्धुमुपसम्पेदे ज्ञात्वा तं वानराधिपः ॥६-४०-२७॥
उत्पपात तदाऽऽकाशं जितकाशी जितक्लमः । रावणः स्थित एवात्र हरिराजेन वञ्चितः ॥६-४०-२८॥
अथ हरिवरनाथः प्राप्तसंग्रामकीर्तिर्निशिचरपतिमाजौ योजयित्वा श्रमेण । गगनमतिविशालं लङ्घयित्वार्कसूनुर्हरिगणबलमध्ये रामपार्श्वं जगाम ॥६-४०-२९॥
इति स सवितृसूनुस्तत्र तत् कर्म कृत्वा पवनगतिरनीकं प्राविशत् सम्प्रहृष्टः । रघुवरनृपसूनोर्वर्धयन् युद्धहर्षं तरुमृगगणमुख्यैः पूज्यमानो हरीन्द्रः ॥६-४०-३०॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे रावणसुग्रीवनियुद्धम् नाम चत्वारिंशः सर्गः ॥६-४०॥