लङ्कादर्शनम्
युद्धकाण्डः / लङ्कादर्शनम्
Script
Translation
Previous
सुवेलारोहणम्
Next
रावणसुग्रीवनियुद्धम्
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे लङ्कादर्शनम् नाम एकोनचत्वारिंशः सर्गः ॥६-३९॥
तां रात्रिमुषितास्तत्र सुवेले हरियूथपाः ।
लङ्कायां ददृशुर्वीरा वनान्युपवनानि च ॥६-३९-१॥
समसौम्यानि रम्याणि विशालान्यायतानि च ।
दृष्टिरम्याणि ते दृष्ट्वा बभूवुर्जातविस्मयाः ॥६-३९-२॥
चम्पकाशोकबकुलशालतालसमाकुला ।
तमालवनसंछन्ना नागमालासमावृता ॥६-३९-३॥
हिन्तालैरर्जुनैर्नीपैः सप्तपर्णैः सुपुष्पितैः ।
तिलकैः कर्णिकारैश्च पाटलैश्च समन्ततः ॥६-३९-४॥
शुशुभे पुष्पिताग्रैश्च लतापरिगतैर्द्रुमैः ।
लङ्का बहुविधैर्दिव्यैर्यथेन्द्रस्यामरावती ॥६-३९-५॥
विचित्रकुसुमोपेतै रक्तकोमलपल्लवैः ।
शाद्वलैश्च तथा नीलैश्चित्राभिर्वनराजिभिः ॥६-३९-६॥
गन्धाढ्यान्यतिरम्याणि पुष्पाणि च फलानि च ।
धारयन्त्यगमास्तत्र भूषणानीव मानवाः ॥६-३९-७॥
तच्चैत्ररथसंकाशं मनोज्ञं नन्दनोपमम् ।
वनं सर्वर्तुकं रम्यं शुशुभे षट्पदायुतम् ॥६-३९-८॥
दात्यूहकोयष्टिबकैर्नृत्यमानैश्च बर्हिणैः ।
रुतं परभृतानां च शुश्रुवे वननिर्झरे ॥६-३९-९॥
नित्यमत्तविहंगानि भ्रमराचरितानि च ।
कोकिलाकुलखण्डानि विहंगाभिरुतानि च ॥६-३९-१०॥
भृङ्गराजाधिगीतानि कुररस्वनितानि च ।
कोणालकविघुष्टानि सारसाभिरुतानि च ।
विविशुस्ते ततस्तानि वनान्युपवनानि च ॥६-३९-११॥
हृष्टाः प्रमुदिता वीरा हरयः कामरूपिणः ।
तेषां प्रविशतां तत्र वानराणां महौजसाम् ॥६-३९-१२॥
पुष्पसंसर्गसुरभिर्ववौ घ्राणसुखोऽनिलः ।
अन्ये तु हरिवीराणां यूथान्निष्क्रम्य यूथपाः ।
सुग्रीवेणाभ्यनुज्ञाता लङ्कां जग्मुः पताकिनीम् ॥६-३९-१३॥
वित्रासयन्तो विहगान् ग्लापयन्तो मृगद्विपान् ।
कम्पयन्तश्च तां लङ्कां नादैः स्वैर्नदतां वराः ॥६-३९-१४॥
कुर्वन्तस्ते महावेगा महीं चरणपीडिताम् ।
रजश्च सहसैवोर्ध्वं जगाम चरणोत्थितम् ॥६-३९-१५॥
ऋक्षाः सिंहाश्च महिषा वारणाश्च मृगाः खगाः ।
तेन शब्देन वित्रस्ता जग्मुर्भीता दिशो दश ॥६-३९-१६॥
शिखरं तु त्रिकूटस्य प्रांशु चैकं दिविस्पृशम् ।
समन्तात् पुष्पसंछन्नं महारजतसंनिभम् ॥६-३९-१७॥
शतयोजनविस्तीर्णं विमलं चारुदर्शनम् ।
श्लक्ष्णं श्रीमन्महच्चैव दुष्प्रापं शकुनैरपि ॥६-३९-१८॥
मनसापि दुरारोहं किं पुनः कर्मणा जनैः ।
निविष्टा तस्य शिखरे लङ्का रावणपालिता ॥६-३९-१९॥
दशयोजनविस्तीर्णा विंशद्योजनमायता ।
सा पुरी गोपुरैरुच्चैः पाण्डुराम्बुदसंनिभैः ।
काञ्चनेन च शालेन राजतेन च शोभते ॥६-३९-२०॥
प्रासादैश्च विमानैश्च लङ्का परमभूषिता ।
घनैरिवातपापाये मध्यमं वैष्णवं पदम् ॥६-३९-२१॥
यस्यां स्तम्भसहस्रेण प्रासादः समलंकृतः ।
कैलासशिखराकारो दृश्यते खमिवोल्लिखन् ॥६-३९-२२॥
चैत्यः स राक्षसेन्द्रस्य बभूव पुरभूषणम् ।
शतेन रक्षसां नित्यं यः समग्रेण रक्ष्यते ॥६-३९-२३॥
मनोज्ञां काञ्चनवतीं पर्वतैरुपशोभिताम् ।
नानाधातुविचित्रैश्च उद्यानैरुपशोभिताम् ॥६-३९-२४॥
नानाविहगसंघुष्टां नानामृगनिषेविताम् ।
नानाकुसुमसम्पन्नां नानाराक्षससेविताम् ॥६-३९-२५॥
तां समृद्धां समृद्धार्थां लक्ष्मीवाँल्लक्ष्मणाग्रजः ।
रावणस्य पुरीं रामो ददर्श सह वानरैः ॥६-३९-२६॥
तां महागृहसम्बाधां दृष्ट्वा लक्ष्मणपूर्वजः ।
नगरीं त्रिदिवप्रख्यां विस्मयं प्राप वीर्यवान् ॥६-३९-२७॥
तां रत्नपूर्णां बहुसंविधानां प्रासादमालाभिरलंकृतां च ।
पुरीं महायन्त्रकवाटमुख्यां ददर्श रामो महता बलेन ॥६-३९-२८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे लङ्कादर्शनम् नाम एकोनचत्वारिंशः सर्गः ॥६-३९॥
Previous
सुवेलारोहणम्
Next
रावणसुग्रीवनियुद्धम्