रामाभिषेणनम्
युद्धकाण्डः / रामाभिषेणनम्
Script
Translation
Previous
लङ्कादुर्गादिकथनम्
Next
रामविप्रलम्भः
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे रामाभिषेणनम् नाम चतुर्थः सर्गः ॥६-४॥
श्रुत्वा हनूमतो वाक्यं यथावदनुपूर्वशः ।
ततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः ॥६-४-१॥
यन्निवेदयसे लङ्कां पुरीं भीमस्य रक्षसः ।
क्षिप्रमेनां वधिष्यामि सत्यमेतद् ब्रवीमि ते ॥६-४-२॥
अस्मिन् मुहूर्ते सुग्रीव प्रयाणमभिरोचय ।
युक्तो मुहूर्ते विजये प्राप्तो मध्यं दिवाकरः ॥६-४-३॥
सीतां हृत्वा तु तद् यातु क्वासौ यास्यति जीवितः ।
सीता श्रुत्वाभियानं मे आशामेष्यति जीविते ।
जीवितान्तेऽमृतं स्पृष्ट्वा पीत्वामृतमिवातुरः ॥६-४-४॥
उत्तराफाल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते ।
अभिप्रयाम सुग्रीव सर्वानीकसमावृताः ॥६-४-५॥
निमित्तानि च पश्यामि यानि प्रादुर्भवन्ति वै ।
निहत्य रावणं सीतामानयिष्यामि जानकीम् ॥६-४-६॥
उपरिष्टाद्धि नयनं स्फुरमाणमिमं मम ।
विजयं समनुप्राप्तं शंसतीव मनोरथम् ॥६-४-७॥
ततो वानरराजेन लक्ष्मणेन सुपूजितः ।
उवाच रामो धर्मात्मा पुनरप्यर्थकोविदः ॥६-४-८॥
अग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम् ।
वृतः शतसहस्रेण वानराणां तरस्विनाम् ॥६-४-९॥
फलमूलवता नील शीतकाननवारिणा ।
पथा मधुमता चाशु सेनां सेनापते नय ॥६-४-१०॥
दूषयेयुर्दुरात्मानः पथि मूलफलोदकम् ।
राक्षसाः पथि रक्षेथास्तेभ्यस्त्वं नित्यमुद्यतः ॥६-४-११॥
निम्नेषु वनदुर्गेषु वनेषु च वनौकसः ।
अभिप्लुत्याभिपश्येयुः परेषां निहितं बलम् ॥६-४-१२॥
यत्तु फल्गु बलं किंचित् तदत्रैवोपपद्यताम् ।
एतद्धि कृत्यं घोरं नो विक्रमेण प्रयुज्यताम् ॥६-४-१३॥
सागरौघनिभं भीममग्रानीकं महाबलाः ।
कपिसिंहाः प्रकर्षन्तु शतशोऽथ सहस्रशः ॥६-४-१४॥
गजश्च गिरिसंकाशो गवयश्च महाबलः ।
गवाक्षश्चाग्रतो यातु गवां दृप्त इवर्षभः ॥६-४-१५॥
यातु वानरवाहिन्या वानरः प्लवतां पतिः ।
पालयन् दक्षिणं पार्श्वमृषभो वानरर्षभः ॥६-४-१६॥
गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः ।
यातु वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः ॥६-४-१७॥
यास्यामि बलमध्येऽहं बलौघमभिहर्षयन् ।
अधिरुह्य हनूमन्तमैरावतमिवेश्वरः ॥६-४-१८॥
अङ्गदेनैष संयातु लक्ष्मणश्चान्तकोपमः ।
सार्वभौमेन भूतेशो द्रविणाधिपतिर्यथा ॥६-४-१९॥
जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः ।
ऋक्षराजो महाबाहुः कुक्षिं रक्षन्तु ते त्रयः ॥६-४-२०॥
राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः ।
व्यादिदेश महावीर्यो वानरान् वानरर्षभः ॥६-४-२१॥
ते वानरगणाः सर्वे समुत्पत्य महौजसः ।
गुहाभ्यः शिखरेभ्यश्च आशु पुप्लुविरे तदा ॥६-४-२२॥
ततो वानरराजेन लक्ष्मणेन च पूजितः ।
जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् ॥६-४-२३॥
शतैः शतसहस्रैश्च कोटिभिश्चायुतैरपि ।
वारणाभैश्च हरिभिर्ययौ परिवृतस्तदा ॥६-४-२४॥
तं यान्तमनुयान्ती सा महती हरिवाहिनी ।
हृष्टाः प्रमुदिताः सर्वे सुग्रीवेणापि पालिताः ॥६-४-२५॥
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः ।
क्ष्वेलन्तो निनदन्तश्च जग्मुर्वै दक्षिणां दिशम् ॥६-४-२६॥
भक्षयन्तः सुगन्धीनि मधूनि च फलानि च ।
उद्वहन्तो महावृक्षान् मञ्जरीपुञ्जधारिणः ॥६-४-२७॥
अन्योन्यं सहसा दृप्ता निर्वहन्ति क्षिपन्ति च ।
पतन्तश्चोत्पतन्त्यन्ये पातयन्त्यपरे परान् ॥६-४-२८॥
रावणो नो निहन्तव्यः सर्वे च रजनीचराः ।
इति गर्जन्ति हरयो राघवस्य समीपतः ॥६-४-२९॥
पुरस्तादृषभो नीलो वीरः कुमुद एव च ।
पन्थानं शोधयन्ति स्म वानरैर्बहुभिः सह ॥६-४-३०॥
मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च ।
बलिभिर्बहुभिर्भीमैर्वृतः शत्रुनिबर्हणः ॥६-४-३१॥
हरिः शतबलिर्वीरः कोटिभिर्दशभिर्वृतः ।
सर्वामेको ह्यवष्टभ्य ररक्ष हरिवाहिनीम् ॥६-४-३२॥
कोटीशतपरीवारः केसरी पनसो गजः ।
अर्कश्च बहुभिः पार्श्वमेकं तस्याभिरक्षति ॥६-४-३३॥
सुषेणो जाम्बवांश्चैव ऋक्षैर्बहुभिरावृतौ ।
सुग्रीवं पुरतः कृत्वा जघनं संररक्षतुः ॥६-४-३४॥
तेषां सेनापतिर्वीरो नीलो वानरपुंगवः ।
सम्पतन् प्लवतां श्रेष्ठस्तद् बलं पर्यवारयत् ॥६-४-३५॥
दरीमुखः प्रजङ्घश्च जम्भोऽथ रभसः कपिः ।
सर्वतश्च ययुर्वीरास्त्वरयन्तः प्लवंगमान् ॥६-४-३६॥
एवं ते हरिशार्दूला गच्छन्ति बलदर्पिताः ।
अपश्यन्त गिरिश्रेष्ठं सह्यं गिरिशतायुतम् ॥६-४-३७॥
सरांसि च सुफुल्लानि तटाकानि वराणि च ।
रामस्य शासनं ज्ञात्वा भीमकोपस्य भीतवत् ॥६-४-३८॥
वर्जयन् नागराभ्याशांस्तथा जनपदानपि ।
सागरौघनिभं भीमं तद् वानरबलं महत् ॥६-४-३९॥
निःससर्प महाघोरं भीमघोषमिवार्णवम् ।
तस्य दाशरथेः पार्श्वे शूरास्ते कपिकुञ्जराः ॥६-४-४०॥
तूर्णमापुप्लुवुः सर्वे सदश्वा इव चोदिताः ।
कपिभ्यामुह्यमानौ तौ शुशुभाते नरर्षभौ ॥६-४-४१॥
महद्भ्यामिव संस्पृष्टौ ग्रहाभ्यां चन्द्रभास्करौ ।
ततो वानरराजेन लक्ष्मणेन सुपूजितः ॥६-४-४२॥
जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् ।
तमङ्गदगतो रामं लक्ष्मणः शुभया गिरा ॥६-४-४३॥
उवाच परिपूर्णार्थं पूर्णार्थप्रतिभानवान् ।
हृतामवाप्य वैदेहीं क्षिप्रं हत्वा च रावणम् ॥६-४-४४॥
समृद्धार्थः समृद्धार्थामयोध्यां प्रतियास्यसि ।
महान्ति च निमित्तानि दिवि भूमौ च राघव ॥६-४-४५॥
शुभानि तव पश्यामि सर्वाण्येवार्थसिद्धये ।
अनुवाति शिवो वायुः सेनां मृदुहितः सुखः ॥६-४-४६॥
पूर्णवल्गुस्वराश्चेमे प्रवदन्ति मृगद्विजाः ।
प्रसन्नाश्च दिशः सर्वा विमलश्च दिवाकरः ॥६-४-४७॥
उशना च प्रसन्नार्चिरनु त्वां भार्गवो गतः ।
ब्रह्मराशिर्विशुद्धश्च शुद्धाश्च परमर्षयः ।
अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम् ॥६-४-४८॥
त्रिशङ्कुर्विमलो भाति राजर्षिः सपुरोहितः ।
पितामहः पुरोऽस्माकमिक्ष्वाकूणां महात्मनाम् ॥६-४-४९॥
विमले च प्रकाशेते विशाखे निरुपद्रवे ।
नक्षत्रं परमस्माकमिक्ष्वाकूणां महात्मनाम् ॥६-४-५०॥
नैर्ऋतं नैर्ऋतानां च नक्षत्रमतिपीड्यते ।
मूलो मूलवता स्पृष्टो धूप्यते धूमकेतुना ॥६-४-५१॥
सर्वं चैतद् विनाशाय राक्षसानामुपस्थितम् ।
काले कालगृहीतानां नक्षत्रं ग्रहपीडितम् ॥६-४-५२॥
प्रसन्नाः सुरसाश्चापो वनानि फलवन्ति च ।
प्रवान्ति नाधिका गन्धा यथर्तुकुसुमा द्रुमाः ॥६-४-५३॥
व्यूढानि कपिसैन्यानि प्रकाशन्तेऽधिकं प्रभो ।
देवानामिव सैन्यानि संग्रामे तारकामये ।
एवमार्य समीक्ष्यैतत् प्रीतो भवितुमर्हसि ॥६-४-५४॥
इति भ्रातरमाश्वास्य हृष्टः सौमित्रिरब्रवीत् ।
अथावृत्य महीं कृत्स्नां जगाम हरिवाहिनी ॥६-४-५५॥
ऋक्षवानरशार्दूलैर्नखद्रंष्ट्रायुधैरपि ।
कराग्रैश्चरणाग्रैश्च वानरैरुद्धतं रजः ॥६-४-५६॥
भीममन्तर्दधे लोकं निवार्य सवितुः प्रभाम् ।
सपर्वतवनाकाशं दक्षिणां हरिवाहिनी ॥६-४-५७॥
छादयन्ती ययौ भीमा द्यामिवाम्बुदसंततिः ।
उत्तरन्त्याश्च सेनायाः सततं बहुयोजनम् ॥६-४-५८॥
नदीस्रोतांसि सर्वाणि सस्यन्दुर्विपरीतवत् ।
सरांसि विमलाम्भांसि द्रुमाकीर्णांश्च पर्वतान् ॥६-४-५९॥
समान् भूमिप्रदेशांश्च वनानि फलवन्ति च ।
मध्येन च समन्ताच्च तिर्यक् चाधश्च साविशत् ॥६-४-६०॥
समावृत्य महीं कृत्स्नां जगाम महती चमूः ।
ते हृष्टवदनाः सर्वे जग्मुर्मारुतरंहसः ॥६-४-६१॥
हरयो राघवस्यार्थे समारोपितविक्रमाः ।
हर्षं वीर्यं बलोद्रेकान् दर्शयन्तः परस्परम् ॥६-४-६२॥
यौवनोत्सेकजाद् दर्पाद् विविधांश्चक्रुरध्वनि ।
तत्र केचिद् द्रुतं जग्मुरुत्पेतुश्च तथापरे ॥६-४-६३॥
केचित् किलकिलां चक्रुर्वानरा वनगोचराः ।
प्रास्फोटयंश्च पुच्छानि संनिजघ्नुः पदान्यपि ॥६-४-६४॥
भुजान् विक्षिप्य शैलांश्च द्रुमानन्ये बभञ्जिरे ।
आरोहन्तश्च शृङ्गाणि गिरीणां गिरिगोचराः ॥६-४-६५॥
महानादान् प्रमुञ्चन्ति क्ष्वेडामन्ये प्रचक्रिरे ।
ऊरुवेगैश्च ममृदुर्लताजालान्यनेकशः ॥६-४-६६॥
जृम्भमाणाश्च विक्रान्ता विचिक्रीडुः शिलाद्रुमैः ।
ततः शतसहस्रैश्च कोटिभिश्च सहस्रशः ॥६-४-६७॥
वानराणां सुघोराणां श्रीमत्परिवृता मही ।
सा स्म याति दिवारात्रं महती हरिवाहिनी ॥६-४-६८॥
प्रहृष्टमुदिताः सर्वे सुग्रीवेणाभिपालिताः ।
वानरास्त्वरिता यान्ति सर्वे युद्धाभिनन्दिनः ।
प्रमोक्षयिषवः सीतां मुहूर्तं क्वापि नावसन् ॥६-४-६९॥
ततः पादपसम्बाधं नानावनसमायुतम् ।
सह्यपर्वतमासाद्य वानरास्ते समारुहन् ॥६-४-७०॥
काननानि विचित्राणि नदीप्रस्रवणानि च ।
पश्यन्नपि ययौ रामः सह्यस्य मलयस्य च ॥६-४-७१॥
चम्पकांस्तिलकांश्चूतानशोकान् सिन्दुवारकान् ।
तिनिशान् करवीरांश्च भञ्जन्ति स्म प्लवंगमाः ॥६-४-७२॥
अङ्कोलांश्च करञ्जांश्च प्लक्षन्यग्रोधपादपान् ।
जम्बूकामलकान् नीपान् भञ्जन्ति स्म प्लवंगमाः ॥६-४-७३॥
प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः ।
वायुवेगप्रचलिताः पुष्पैरवकिरन्ति तान् ॥६-४-७४॥
मारुतः सुखसंस्पर्शो वाति चन्दनशीतलः ।
षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु ॥६-४-७५॥
अधिकं शैलराजस्तु धातुभिस्तु विभूषितः ।
धातुभ्यः प्रसृतो रेणुर्वायुवेगेन घट्टितः ॥६-४-७६॥
सुमहद्वानरानीकं छादयामास सर्वतः ।
गिरिप्रस्थेषु रम्येषु सर्वतः सम्प्रपुष्पिताः ॥६-४-७७॥
केतक्यः सिन्दुवाराश्च वासन्त्यश्च मनोरमाः ।
माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च पुष्पिताः ॥६-४-७८॥
चिरिबिल्वा मधूकाश्च वञ्जुला बकुलास्तथा ।
रञ्जकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः ॥६-४-७९॥
चूताः पाटलिकाश्चैव कोविदाराश्च पुष्पिताः ।
मुचुलिन्दार्जुनाश्चैव शिंशपाः कुटजास्तथा ॥६-४-८०॥
हिन्तालास्तिनिशाश्चैव चूर्णका नीपकास्तथा ।
नीलाशोकाश्च सरला अङ्कोलाः पद्मकास्तथा ॥६-४-८१॥
प्रीयमाणैः प्लवंगैस्तु सर्वे पर्याकुलीकृताः ।
वाप्यस्तस्मिन् गिरौ रम्याः पल्वलानि तथैव च ॥६-४-८२॥
चक्रवाकानुचरिताः कारण्डवनिषेविताः ।
प्लवैः क्रौञ्चैश्च संकीर्णा वराहमृगसेविताः ॥६-४-८३॥
ऋक्षैस्तरक्षुभिः सिंहैः शार्दूलैश्च भयावहैः ।
व्यालैश्च बहुभिर्भीमैः सेव्यमानाः समन्ततः ॥६-४-८४॥
पद्मैः सौगन्धिकैः फुल्लैः कुमुदैश्चोत्पलैस्तथा ।
वारिजैर्विविधैः पुष्पै रम्यास्तत्र जलाशयाः ॥६-४-८५॥
तस्य सानुषु कूजन्ति नानाद्विजगणास्तथा ।
स्नात्वा पीत्वोदकान्यत्र जले क्रीडन्ति वानराः ॥६-४-८६॥
अन्योन्यं प्लावयन्ति स्म शैलमारुह्य वानराः ।
फलान्यमृतगन्धीनि मूलानि कुसुमानि च ॥६-४-८७॥
बभञ्जुर्वानरास्तत्र पादपानां मदोत्कटाः ।
द्रोणमात्रप्रमाणानि लम्बमानानि वानराः ॥६-४-८८॥
ययुः पिबन्तः स्वस्थास्ते मधूनि मधुपिङ्गलाः ।
पादपानवभञ्जन्तो विकर्षन्तस्तथा लताः ॥६-४-८९॥
विधमन्तो गिरिवरान् प्रययुः प्लवगर्षभाः ।
वृक्षेभ्योऽन्ये तु कपयो नदन्तो मधु दर्पिताः ॥६-४-९०॥
अन्ये वृक्षान् प्रपद्यन्ते प्रपिबन्त्यपि चापरे ।
बभूव वसुधा तैस्तु सम्पूर्णा हरिपुङ्गवैः ।
यथा कमलकेदारैः पक्वैरिव वसुंधरा ॥६-४-९१॥
महेन्द्रमथ सम्प्राप्य रामो राजीवलोचनः ।
आरुरोह महाबाहुः शिखरं द्रुमभूषितम् ॥६-४-९२॥
ततः शिखरमारुह्य रामो दशरथात्मजः ।
कूर्ममीनसमाकीर्णमपश्यत् सलिलाशयम् ॥६-४-९३॥
ते सह्यं समतिक्रम्य मलयं च महागिरिम् ।
आसेदुरानुपूर्व्येण समुद्रं भीमनिःस्वनम् ॥६-४-९४॥
अवरुह्य जगामाशु वेलावनमनुत्तमम् ।
रामो रमयतां श्रेष्ठः ससुग्रीवः सलक्ष्मणः ॥६-४-९५॥
अथ धौतोपलतलां तोयौघैः सहसोत्थितैः ।
वेलामासाद्य विपुलां रामो वचनमब्रवीत् ॥६-४-९६॥
एते वयमनुप्राप्ताः सुग्रीव वरुणालयम् ।
इहेदानीं विचिन्ता सा या नः पूर्वमुपस्थिता ॥६-४-९७॥
अतः परमतीरोऽयं सागरः सरितां पतिः ।
न चायमनुपायेन शक्यस्तरितुमर्णवः ॥६-४-९८॥
तदिहैव निवेशोऽस्तु मन्त्रः प्रस्तूयतामिह ।
यथेदं वानरबलं परं पारमवाप्नुयात् ॥६-४-९९॥
इतीव स महाबाहुः सीताहरणकर्शितः ।
रामः सागरमासाद्य वासमाज्ञापयत् तदा ॥६-४-१००॥
सर्वाः सेना निवेश्यन्तां वेलायां हरिपुङ्गव ।
सम्प्राप्तो मन्त्रकालो नः सागरस्येह लङ्घने ॥६-४-१०१॥
स्वां स्वां सेनां समुत्सृज्य मा च कश्चित् कुतो व्रजेत् ।
गच्छन्तु वानराः शूरा ज्ञेयं छन्नं भयं च नः ॥६-४-१०२॥
रामस्य वचनं श्रुत्वा सुग्रीवः सहलक्ष्मणः ।
सेनां निवेशयत् तीरे सागरस्य द्रुमायुते ॥६-४-१०३॥
विरराज समीपस्थं सागरस्य च तद् बलम् ।
मधुपाण्डुजलः श्रीमान् द्वितीय इव सागरः ॥६-४-१०४॥
वेलावनमुपागम्य ततस्ते हरिपुङ्गवाः ।
निविष्टाश्च परं पारं काङ्क्षमाणा महोदधेः ॥६-४-१०५॥
तेषां निविशमानानां सैन्यसंनाहनिःस्वनः ।
अन्तर्धाय महानादमर्णवस्य प्रशुश्रुवे ॥६-४-१०६॥
सा वानराणां ध्वजिनी सुग्रीवेणाभिपालिता ।
त्रिधा निविष्टा महती रामस्यार्थपराभवत् ॥६-४-१०७॥
सा महार्णवमासाद्य हृष्टा वानरवाहिनी ।
वायुवेगसमाधूतं पश्यमाना महार्णवम् ॥६-४-१०८॥
दूरपारमसम्बाधं रक्षोगणनिषेवितम् ।
पश्यन्तो वरुणावासं निषेदुर्हरियूथपाः ॥६-४-१०९॥
चण्डनक्रग्राहघोरं क्षपादौ दिवसक्षये ।
हसन्तमिव फेनौघैर्नृत्यन्तमिव चोर्मिभिः ॥६-४-११०॥
चन्द्रोदये समुद्भूतं प्रतिचन्द्रसमाकुलम् ।
चण्डानिलमहाग्राहैः कीर्णं तिमितिमिंगिलैः ॥६-४-१११॥
दीप्तभोगैरिवाकीर्णं भुजङ्गैर्वरुणालयम् ।
अवगाढं महासत्त्वैर्नानाशैलसमाकुलम् ॥६-४-११२॥
सुदुर्गं दुर्गमार्गं तमगाधमसुरालयम् ।
मकरैर्नागभोगैश्च विगाढा वातलोलिताः ।
उत्पेतुश्च निपेतुश्च प्रहृष्टा जलराशयः ॥६-४-११३॥
अग्निचूर्णमिवाविद्धं भास्वराम्बुमहोरगम् ।
सुरारिनिलयं घोरं पातालविषयं सदा ॥६-४-११४॥
सागरं चाम्बरप्रख्यमम्बरं सागरोपमम् ।
सागरं चाम्बरं चेति निर्विशेषमदृश्यत ॥६-४-११५॥
सम्पृक्तं नभसाप्यम्भः सम्पृक्तं च नभोऽम्भसा ।
तादृग्रूपे स्म दृश्येते तारारत्नसमाकुले ॥६-४-११६॥
समुत्पतितमेघस्य वीचिमालाकुलस्य च ।
विशेषो न द्वयोरासीत् सागरस्याम्बरस्य च ॥६-४-११७॥
अन्योन्यैरहताः सक्ताः सस्वनुर्भीमनिःस्वनाः ।
ऊर्मयः सिन्धुराजस्य महाभेर्य इवाम्बरे ॥६-४-११८॥
रत्नौघजलसंनादं विषक्तमिव वायुना ।
उत्पतन्तमिव क्रुद्धं यादोगणसमाकुलम् ॥६-४-११९॥
ददृशुस्ते महात्मानो वाताहतजलाशयम् ।
अनिलोद्धूतमाकाशे प्रवलान्तमिवोर्मिभिः ॥६-४-१२०॥
ततो विस्मयमापन्ना हरयो ददृशुः स्थिताः ।
भ्रान्तोर्मिजालसंनादं प्रलोलमिव सागरम् ॥६-४-१२१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे रामाभिषेणनम् नाम चतुर्थः सर्गः ॥६-४॥
Previous
लङ्कादुर्गादिकथनम्
Next
रामविप्रलम्भः