रामविप्रलम्भः

युद्धकाण्डः / रामविप्रलम्भः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे रामविप्रलम्भः नाम पञ्चमः सर्गः ॥६-५॥
सा तु नीलेन विधिवत्स्वारक्षा सुसमाहिता । सागरस्योत्तरे तीरे साधु सा विनिवेशिता ॥६-५-१॥
मैन्दश्च द्विविदश्चोभौ तत्र वानरपुङ्गवौ । विचेरतुश्च तां सेनां रक्षार्थं सर्वतोदिशम् ॥६-५-२॥
निविष्टायां तु सेनायां तीरे नदनदीपतेः । पार्श्वस्थं लक्ष्मणं दृष्ट्वा रामो वचनमब्रवीत् ॥६-५-३॥
शोकश्च किल कालेन गच्छता ह्यपगच्छति । मम चापश्यतः कान्तामहन्यहनि वर्धते ॥६-५-४॥
न मे दुःखं प्रिया दूरे न मे दुःखं हृतेति च । एतदेवानुशोचामि वयोऽस्या ह्यतिवर्तते ॥६-५-५॥
वाहि वात यतः कान्ता तां स्पृष्ट्वा मामपि स्पृश । त्वयि मे गात्रसंस्पर्शश्चन्द्रे दृष्टिसमागमः ॥६-५-६॥
तन्मे दहति गात्राणि विषं पीतमिवाशये । हा नाथेति प्रिया सा मां ह्रियमाणा यदब्रवीत् ॥६-५-७॥
तद्वियोगेन्धनवता तच्चिन्ताविमलार्चिषा । रात्रिंदिवं शरीरं मे दह्यते मदनाग्निना ॥६-५-८॥
अवगाह्यार्णवं स्वप्स्ये सौमित्रे भवता विना । एवं च प्रज्वलन् कामो न मा सुप्तं जले दहेत् ॥६-५-९॥
बह्वेतत् कामयानस्य शक्यमेतेन जीवितुम् । यदहं सा च वामोरुरेकां धरणिमाश्रितौ ॥६-५-१०॥
केदारस्येवाकेदारः सोदकस्य निरूदकः । उपस्नेहेन जीवामि जीवन्तीं यच्छृणोमि ताम् ॥६-५-११॥
कदा नु खलु सुश्रोणीं शतपत्रायतेक्षणाम् । विजित्य शत्रून् द्रक्ष्यामि सीतां स्फीतामिव श्रियम् ॥६-५-१२॥
कदा सुचारुदन्तोष्ठं तस्याः पद्ममिवाननम् । ईषदुन्नाम्य पास्यामि रसायनमिवातुरः ॥६-५-१३॥
तौ तस्याः सहितौ पीनौ स्तनौ तालफलोपमौ । कदा न खलु सोत्कम्पौ श्लिष्यन्त्या मां भजिष्यतः ॥६-५-१४॥
सा नूनमसितापाङ्गी रक्षोमध्यगता सती । मन्नाथा नाथहीनेव त्रातारं नाधिगच्छति ॥६-५-१५॥
कथं जनकराजस्य दुहिता मम च प्रिया । राक्षसीमध्यगा शेते स्नुषा दशरथस्य च ॥६-५-१६॥
अविक्षोभ्याणि रक्षांसि सा विधूयोत्पतिष्यति । विधूय जलदान् नीलान् शशिलेखा शरत्स्विव ॥६-५-१७॥
स्वभावतनुका नूनं शोकेनानशनेन च । भूयस्तनुतरा सीता देशकालविपर्ययात् ॥६-५-१८॥
कदा नु राक्षसेन्द्रस्य निधायोरसि सायकान् । शोकं प्रत्याहरिष्यामि शोकमुत्सृज्य मानसम् ॥६-५-१९॥
कदा नु खलु मे साध्वी सीतामरसुतोपमा । सोत्कण्ठा कण्ठमालम्ब्य मोक्ष्यत्यानन्दजं जलम् ॥६-५-२०॥
कदा शोकमिमं घोरं मैथिलीविप्रयोगजम् । सहसा विप्रमोक्ष्यामि वासः शुक्लेतरं यथा ॥६-५-२१॥
एवं विलपतस्तस्य तत्र रामस्य धीमतः । दिनक्षयान्मन्दवपुर्भास्करोऽस्तमुपागमत् ॥६-५-२२॥
आश्वासितो लक्ष्मणेन रामः संध्यामुपासत । स्मरन् कमलपत्राक्षीं सीतां शोकाकुलीकृतः ॥६-५-२३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे रामविप्रलम्भः नाम पञ्चमः सर्गः ॥६-५॥