लङ्कादुर्गादिकथनम्

युद्धकाण्डः / लङ्कादुर्गादिकथनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे लङ्कादुर्गादिकथनम् नाम तृतीयः सर्गः ॥६-३॥
सुग्रीवस्य वचः श्रुत्वा हेतुमत् परमार्थवत् । प्रतिजग्राह काकुत्स्थो हनूमन्तमथाब्रवीत् ॥६-३-१॥
तपसा सेतुबन्धेन सागरोच्छोषणेन च । सर्वथापि समर्थोऽस्मि सागरस्यास्य लङ्घने ॥६-३-२॥
कति दुर्गाणि दुर्गाया लङ्कायास्तद् ब्रवीष्व मे । ज्ञातुमिच्छामि तत् सर्वं दर्शनादिव वानर ॥६-३-३॥
बलस्य परिमाणं च द्वारदुर्गक्रियामपि । गुप्तिकर्म च लङ्काया रक्षसां सदनानि च ॥६-३-४॥
यथासुखं यथावच्च लङ्कायामसि दृष्टवान् । सर्वमाचक्ष्व तत्त्वेन सर्वथा कुशलो ह्यसि ॥६-३-५॥
श्रुत्वा रामस्य वचनं हनूमान् मारुतात्मजः । वाक्यं वाक्यविदां श्रेष्ठो रामं पुनरथाब्रवीत् ॥६-३-६॥
श्रूयतां सर्वमाख्यास्ये दुर्गकर्म विधानतः । गुप्ता पुरी यथा लङ्का रक्षिता च यथा बलैः ॥६-३-७॥
राक्षसाश्च यथा स्निग्धा रावणस्य च तेजसा । परां समृद्धिं लङ्कायाः सागरस्य च भीमताम् ॥६-३-८॥
विभागं च बलौघस्य निर्देशं वाहनस्य च । एवमुक्त्वा कपिश्रेष्ठः कथयामास तत्त्वतः ॥६-३-९॥
हृष्टप्रमुदिता लङ्का मत्तद्विपसमाकुला । महती रथसम्पूर्णा रक्षोगणनिषेविता ॥६-३-१०॥
दृढबद्धकपाटानि महापरिघवन्ति च । चत्वारि विपुलान्यस्या द्वाराणि सुमहान्ति च ॥६-३-११॥
तत्रेषूपलयन्त्राणि बलवन्ति महान्ति च । आगतं प्रतिसैन्यं तैस्तत्र प्रतिनिवार्यते ॥६-३-१२॥
द्वारेषु संस्कृता भीमाः कालायसमयाः शिताः । शतशो रचिता वीरैः शतघ्न्यो रक्षसां गणैः ॥६-३-१३॥
सौवर्णस्तु महांस्तस्याः प्राकारो दुष्प्रधर्षणः । मणिविद्रुमवैदूर्यमुक्ताविरचितान्तरः ॥६-३-१४॥
सर्वतश्च महाभीमाः शीततोया महाशुभाः । अगाधा ग्राहवत्यश्च परिखा मीनसेविताः ॥६-३-१५॥
द्वारेषु तासां चत्वारः संक्रमाः परमायताः । यन्त्रैरुपेता बहुभिर्महद्भिर्गृहपङ्क्तिभिः ॥६-३-१६॥
त्रायन्ते संक्रमास्तत्र परसैन्यागते सति । यन्त्रैस्तैरवकीर्यन्ते परिखासु समन्ततः ॥६-३-१७॥
एकस्त्वकम्प्यो बलवान् संक्रमः सुमहादृढः । काञ्चनैर्बहुभिः स्तम्भैर्वेदिकाभिश्च शोभितः ॥६-३-१८॥
स्वयं प्रकृतिमापन्नो युयुत्सू राम रावणः । उत्थितश्चाप्रमत्तश्च बलानामनुदर्शने ॥६-३-१९॥
लङ्का पुनर्निरालम्बा देवदुर्गा भयावहा । नादेयं पार्वतं वान्यं कृत्रिमं च चतुर्विधम् ॥६-३-२०॥
स्थिता पारे समुद्रस्य दूरपारस्य राघव । नौपथश्चापि नास्त्यत्र निरुद्देशश्च सर्वतः ॥६-३-२१॥
शैलाग्रे रचिता दुर्गा सा पूर्देवपुरोपमा । वाजिवारणसम्पूर्णा लङ्का परमदुर्जया ॥६-३-२२॥
परिखाश्च शतघ्न्यश्च यन्त्राणि विविधानि च । शोभयन्ति पुरीं लङ्कां रावणस्य दुरात्मनः ॥६-३-२३॥
अयुतं रक्षसामत्र पूर्वद्वारं समाश्रितम् । शूलहस्ता दुराधर्षाः सर्वे खड्गाग्रयोधिनः ॥६-३-२४॥
नियुतं रक्षसामत्र दक्षिणद्वारमाश्रितम् । चतुरङ्गेण सैन्येन योधास्तत्राप्यनुत्तमाः ॥६-३-२५॥
प्रयुतं रक्षसामत्र पश्चिमद्वारमाश्रितम् । चर्मखड्गधराः सर्वे तथा सर्वास्त्रकोविदाः ॥६-३-२६॥
न्यर्बुदं रक्षसामत्र उत्तरद्वारमाश्रितम् । रथिनश्चाश्ववाहाश्च कुलपुत्राः सुपूजिताः ॥६-३-२७॥
शतशोऽथ सहस्राणि मध्यमं स्कन्धमाश्रिताः । यातुधाना दुराधर्षाः साग्रकोटिश्च रक्षसाम् ॥६-३-२८॥
ते मया संक्रमा भग्नाः परिखाश्चावपूरिताः । दग्धा च नगरी लङ्का प्राकाराश्चावसादिताः । बलैकदेशः क्षपितो राक्षसानां महात्मनाम् ॥६-३-२९॥
येन केन तु मार्गेण तराम वरुणालयम् । हतेति नगरी लङ्का वानरैरुपधार्यताम् ॥६-३-३०॥
अङ्गदो द्विविदो मैन्दो जाम्बवान् पनसो नलः । नीलः सेनापतिश्चैव बलशेषेण किं तव ॥६-३-३१॥
प्लवमाना हि गत्वा त्वां रावणस्य महापुरीम् । सपर्वतवनां भित्त्वा सखातां च सतोरणाम् । सप्राकारां सभवनामानयिष्यन्ति राघव ॥६-३-३२॥
एवमाज्ञापय क्षिप्रं बलानां सर्वसंग्रहम् । मुहूर्तेन तु युक्तेन प्रस्थानमभिरोचय ॥६-३-३३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे लङ्कादुर्गादिकथनम् नाम तृतीयः सर्गः ॥६-३॥