सुवेलारोहणम्

युद्धकाण्डः / सुवेलारोहणम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे सुवेलारोहणम् नाम अष्टात्रिंशः सर्गः ॥६-३८॥
स तु कृत्वा सुवेलस्य मतिमारोहणं प्रति । लक्ष्मणानुगतो रामः सुग्रीवमिदमब्रवीत् ॥६-३८-१॥
विभीषणं च धर्मज्ञमनुरक्तं निशाचरम् । मन्त्रज्ञं च विधिज्ञं च श्लक्ष्णया परया गिरा ॥६-३८-२॥
सुवेलं साधु शैलेन्द्रमिमं धातुशतैश्चितम् । अध्यारोहामहे सर्वे वत्स्यामोऽत्र निशामिमाम् ॥६-३८-३॥
लङ्कां चालोकयिष्यामो निलयं तस्य रक्षसः । येन मे मरणान्ताय हृता भार्या दुरात्मना ॥६-३८-४॥
येन धर्मो न विज्ञातो न वृत्तं न कुलं तथा । राक्षस्या नीचया बुद्ध्या येन तद् गर्हितं कृतम् ॥६-३८-५॥
तस्मिन् मे वर्तते रोषः कीर्तिते राक्षसाधमे । यस्यापराधान्नीचस्य वधं द्रक्ष्यामि रक्षसाम् ॥६-३८-६॥
एको हि कुरुते पापं कालपाशवशं गतः । नीचेनात्मापचारेण कुलं तेन विनश्यति ॥६-३८-७॥
एवं सम्मन्त्रयन् नेव सक्रोधो रावणं प्रति । रामः सुवेलं वासाय चित्रसानुमुपारुहत् ॥६-३८-८॥
पृष्ठतो लक्ष्मणश्चैनमन्वगच्छत् समाहितः । सशरं चापमुद्यम्य सुमहद्विक्रमे रतः ॥६-३८-९॥
तमन्वारोहत् सुग्रीवः सामात्यः सविभीषणः । हनुमानङ्गदो नीलो मैन्दो द्विविद एव च ॥६-३८-१०॥
गजो गवाक्षो गवयः शरभो गन्धमादनः । पनसः कुमुदश्चैव हरो रम्भश्च यूथपः ॥६-३८-११॥
जाम्बवांश्च सुषेणश्च ऋषभश्च महामतिः । दुर्मुखश्च महातेजास्तथा शतवलिः कपिः ॥६-३८-१२॥
एते चान्ये च बहवो वानराः शीघ्रगामिनः । ते वायुवेगप्रवणास्तं गिरिं गिरिचारिणः ॥६-३८-१३॥
अध्यारोहन्त शतशः सुवेलं यत्र राघवः । ते त्वदीर्घेण कालेन गिरिमारुह्य सर्वतः ॥६-३८-१४॥
ददृशुः शिखरे तस्य विषक्तामिव खे पुरीम् । तां शुभां प्रवरद्वारां प्राकारवरशोभिताम् ॥६-३८-१५॥
लङ्कां राक्षससम्पूर्णां ददृशुर्हरियूथपाः । प्राकारवरसंस्थैश्च तथा नीलैश्च राक्षसैः ॥६-३८-१६॥
ददृशुस्ते हरिश्रेष्ठाः प्राकारमपरं कृतम् ॥६-३८-१७॥
ते दृष्ट्वा वानराः सर्वे राक्षसान् युद्धकाङ्क्षिणः । मुमुचुर्विविधान् नादांस्तस्य रामस्य पश्यतः ॥६-३८-१८॥
ततोऽस्तमगमत् सूर्यः संध्यया प्रतिरञ्जितः । पूर्णचन्द्रप्रदीप्ता च क्षपा समतिवर्तत ॥६-३८-१९॥
ततः स रामो हरिवाहिनीपतिर्विभीषणेन प्रतिनन्द्य सत्कृतः । सलक्ष्मणो यूथपयूथसंयुतः सुवेलपृष्ठे न्यवसद् यथासुखम् ॥६-३८-२०॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सुवेलारोहणम् नाम अष्टात्रिंशः सर्गः ॥६-३८॥