रामगुल्मविभागः

युद्धकाण्डः / रामगुल्मविभागः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे रामगुल्मविभागः नाम सप्तत्रिंशः सर्गः ॥६-३७॥
नरवानरराजानौ स तु वायुसुतः कपिः । जाम्बवानृक्षराजश्च राक्षसश्च विभीषणः ॥६-३७-१॥
अङ्गदो वालिपुत्रश्च सौमित्रिः शरभः कपिः । सुषेणः सहदायादो मैन्दो द्विविद एव च ॥६-३७-२॥
गजो गवाक्षः कुमुदो नलोऽथ पनसस्तथा । अमित्रविषयं प्राप्ताः समवेताः समर्थयन् ॥६-३७-३॥
इयं सा लक्ष्यते लङ्का पुरी रावणपालिता । सासुरोरगगन्धर्वैरमरैरपि दुर्जया ॥६-३७-४॥
कार्यसिद्धिं पुरस्कृत्य मन्त्रयध्वं विनिर्णये । नित्यं संनिहितो यत्र रावणो राक्षसाधिपः ॥६-३७-५॥
अथ तेषु ब्रुवाणेषु रावणावरजोऽब्रवीत् । वाक्यमग्राम्यपदवत् पुष्कलार्थं विभीषणः ॥६-३७-६॥
अनलः पनसश्चैव सम्पातिः प्रमतिस्तथा । गत्वा लङ्कां ममामात्याः पुरीं पुनरिहागताः ॥६-३७-७॥
भूत्वा शकुनयः सर्वे प्रविष्टाश्च रिपोर्बलम् । विधानं विहितं यच्च तद् दृष्ट्वा समुपस्थिताः ॥६-३७-८॥
संविधानं यथाहुस्ते रावणस्य दुरात्मनः । राम तद् ब्रुवतः सर्वं याथातथ्येन मे शृणु ॥६-३७-९॥
पूर्वं प्रहस्तः सबलो द्वारमासाद्य तिष्ठति । दक्षिणं च महावीर्यौ महापार्श्वमहोदरौ ॥६-३७-१०॥
इन्द्रजित् पश्चिमं द्वारं राक्षसैर्बहुभिर्वृतः । पट्टिशासिधनुष्मद्भिः शूलमुद्गरपाणिभिः ॥६-३७-११॥
नानाप्रहरणैः शूरैरावृतो रावणात्मजः । राक्षसानां सहस्रैस्तु बहुभिः शस्त्रपाणिभिः ॥६-३७-१२॥
युक्तः परमसंविग्नो राक्षसैः सह मन्त्रवित् । उत्तरं नगरद्वारं रावणः स्वयमास्थितः ॥६-३७-१३॥
विरूपाक्षस्तु महता शूलखड्गधनुष्मता । बलेन राक्षसैः सार्धं मध्यमं गुल्ममाश्रितः ॥६-३७-१४॥
एतानेवं विधान् गुल्माँल्लङ्कायां समुदीक्ष्य ते । मामका मन्त्रिणः सर्वे शीघ्रं पुनरिहागताः ॥६-३७-१५॥
गजानां दशसाहस्रं रथानामयुतं तथा । हयानामयुते द्वे च साग्रकोटिश्च रक्षसाम् ॥६-३७-१६॥
विक्रान्ता बलवन्तश्च संयुगेष्वाततायिनः । इष्टा राक्षसराजस्य नित्यमेते निशाचराः ॥६-३७-१७॥
एकैकस्यात्र युद्धार्थे राक्षसस्य विशाम्पते । परीवारः सहस्राणां सहस्रमुपतिष्ठते ॥६-३७-१८॥
एतां प्रवृत्तिं लङ्कायां मन्त्रिप्रोक्तां विभीषणः । एवमुक्त्वा महाबाहू राक्षसांस्तानदर्शयत् ॥६-३७-१९॥
लङ्कायां सचिवैः सर्वं रामाय प्रत्यवेदयत् । रामं कमलपत्राक्षमिदमुत्तरमब्रवीत् ॥६-३७-२०॥
रावणावरजः श्रीमान् रामप्रियचिकीर्षया । कुबेरं तु यदा राम रावणः प्रतियुद्ध्यति ॥६-३७-२१॥
षष्टिः शतसहस्राणि तदा निर्यान्ति राक्षसाः । पराक्रमेण वीर्येण तेजसा सत्त्वगौरवात् । सदृशा ह्यत्र दर्पेण रावणस्य दुरात्मनः ॥६-३७-२२॥
अत्र मन्युर्न कर्तव्यः कोपये त्वां न भीषये । समर्थो ह्यसि वीर्येण सुराणामपि निग्रहे ॥६-३७-२३॥
तद्भवांश्चतुरङ्गेण बलेन महता वृतम् । व्यूह्येदं वानरानीकं निर्मथिष्यसि रावणम् ॥६-३७-२४॥
रावणावरजे वाक्यमेवं ब्रुवति राघवः । शत्रूणां प्रतिघातार्थमिदं वचनमब्रवीत् ॥६-३७-२५॥
पूर्वद्वारं तु लङ्काया नीलो वानरपुङ्गवः । प्रहस्तं प्रतियोद्धा स्याद् वानरैर्बहुभिर्वृतः ॥६-३७-२६॥
अङ्गदो वालिपुत्रस्तु बलेन महता वृतः । दक्षिणे बाधतां द्वारे महापार्श्वमहोदरौ ॥६-३७-२७॥
हनूमान् पश्चिमद्वारं निष्पीड्य पवनात्मजः । प्रविशत्वप्रमेयात्मा बहुभिः कपिभिर्वृतः ॥६-३७-२८॥
दैत्यदानवसङ्घानामृषीणां च महात्मनाम् । विप्रकारप्रियः क्षुद्रो वरदानबलान्वितः ॥६-३७-२९॥
परिक्रमति यः सर्वान् लोकान् संतापयन् प्रजाः । तस्याहं राक्षसेन्द्रस्य स्वयमेव वधे धृतः ॥६-३७-३०॥
उत्तरं नगरद्वारमहं सौमित्रिणा सह । निपीड्याभिप्रवेक्ष्यामि सबलो यत्र रावणः ॥६-३७-३१॥
वानरेन्द्रश्च बलवानृक्षराजश्च वीर्यवान् । राक्षसेन्द्रानुजश्चैव गुल्मे भवतु मध्यमे ॥६-३७-३२॥
न चैव मानुषं रूपं कार्यं हरिभिराहवे । एषा भवतु नः संज्ञा युद्धेऽस्मिन् वानरे बले ॥६-३७-३३॥
वानरा एव नश्चिह्नं स्वजनेऽस्मिन् भविष्यति । वयं तु मानुषेणैव सप्त योत्स्यामहे परान् ॥६-३७-३४॥
अहमेव सह भ्रात्रा लक्ष्मणेन महौजसा । आत्मना पञ्चमश्चायं सखा मम विभीषणः ॥६-३७-३५॥
स रामः कृत्यसिद्ध्यर्थमेवमुक्त्वा विभीषणम् । सुवेलारोहणे बुद्धिं चकार मतिमान् प्रभुः । रमणीयतरं दृष्ट्वा सुवेलस्य गिरेस्तटम् ॥६-३७-३६॥
ततस्तु रामो महता बलेन प्रच्छाद्य सर्वां पृथिवीं महात्मा । प्रहृष्टरूपोऽभिजगाम लङ्कां कृत्वा मतिं सोऽरिवधे महात्मा ॥६-३७-३७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे रामगुल्मविभागः नाम सप्तत्रिंशः सर्गः ॥६-३७॥