रावणनिश्चयकथनम्
युद्धकाण्डः / रावणनिश्चयकथनम्
Script
Translation
Previous
सरमासमाश्वासनम्
Next
माल्यवदुपदेशः
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे रावणनिश्चयकथनम् नाम चतुस्त्रिंशः सर्गः ॥६-३४॥
अथ तां जातसंतापां तेन वाक्येन मोहिताम् ।
सरमा ह्लादयामास महीं दग्धामिवाम्भसा ॥६-३४-१॥
ततस्तस्या हितं सख्याश्चिकीर्षन्ती सखी वचः ।
उवाच काले कालज्ञा स्मितपूर्वाभिभाषिणी ॥६-३४-२॥
उत्सहेयमहं गत्वा त्वद्वाक्यमसितेक्षणे ।
निवेद्य कुशलं रामे प्रतिच्छन्ना निवर्तितुम् ॥६-३४-३॥
नहि मे क्रममाणाया निरालम्बे विहायसि ।
समर्थो गतिमन्वेतुं पवनो गरुडोऽपि वा ॥६-३४-४॥
एवं ब्रुवाणां तां सीता सरमामिदमब्रवीत् ।
मधुरं श्लक्ष्णया वाचा पूर्वशोकाभिपन्नया ॥६-३४-५॥
समर्था गगनं गन्तुमपि च त्वं रसातलम् ।
अवगच्छाद्य कर्तव्यं कर्तव्यं ते मदन्तरे ॥६-३४-६॥
मत्प्रियं यदि कर्तव्यं यदि बुद्धिः स्थिरा तव ।
ज्ञातुमिच्छामि तं गत्वा किं करोतीति रावणः ॥६-३४-७॥
स हि मायाबलः क्रूरो रावणः शत्रुरावणः ।
मां मोहयति दुष्टात्मा पीतमात्रेव वारुणी ॥६-३४-८॥
तर्जापयति मां नित्यं भर्त्सापयति चासकृत् ।
राक्षसीभिः सुघोराभिर्यो मां रक्षति नित्यशः ॥६-३४-९॥
उद्विग्ना शङ्किता चास्मि न स्वस्थं च मनो मम ।
तद्भयाच्चाहमुद्विग्ना अशोकवनिकां गता ॥६-३४-१०॥
यदि नाम कथा तस्य निश्चितं वापि यद्भवेत् ।
निवेदयेथाः सर्वं तद् वरो मे स्यादनुग्रहः ॥६-३४-११॥
साप्येवं ब्रुवतीं सीतां सरमा मृदुभाषिणी ।
उवाच वदनं तस्याः स्पृशन्ती बाष्पविक्लवम् ॥६-३४-१२॥
एष ते यद्यभिप्रायस्तस्माद् गच्छामि जानकि ।
गृह्य शत्रोरभिप्रायमुपावर्तामि मैथिलि ॥६-३४-१३॥
एवमुक्त्वा ततो गत्वा समीपं तस्य रक्षसः ।
शुश्राव कथितं तस्य रावणस्य समन्त्रिणः ॥६-३४-१४॥
सा श्रुत्वा निश्चयं तस्य निश्चयज्ञा दुरात्मनः ।
पुनरेवागमत् क्षिप्रमशोकवनिकां शुभाम् ॥६-३४-१५॥
सा प्रविष्टा ततस्तत्र ददर्श जनकात्मजाम् ।
प्रतीक्षमाणां स्वामेव भ्रष्टपद्मामिव श्रियम् ॥६-३४-१६॥
तां तु सीता पुनः प्राप्तां सरमां प्रियभाषिणीम् ।
परिष्वज्य च सुस्निग्धं ददौ च स्वयमासनम् ॥६-३४-१७॥
इहासीना सुखं सर्वमाख्याहि मम तत्त्वतः ।
क्रूरस्य निश्चयं तस्य रावणस्य दुरात्मनः ॥६-३४-१८॥
एवमुक्ता तु सरमा सीतया वेपमानया ।
कथितं सर्वमाचष्ट रावणस्य समन्त्रिणः ॥६-३४-१९॥
जनन्या राक्षसेन्द्रो वै त्वन्मोक्षार्थं बृहद्वचः ।
अतिस्निग्धेन वैदेहि मन्त्रिवृद्धेन चोदितः ॥६-३४-२०॥
दीयतामभिसत्कृत्य मनुजेन्द्राय मैथिली ।
निदर्शनं ते पर्याप्तं जनस्थाने यदद्भुतम् ॥६-३४-२१॥
लङ्घनं च समुद्रस्य दर्शनं च हनूमतः ।
वधं च रक्षसां युद्धे कः कुर्यान्मानुषो युधि ॥६-३४-२२॥
एवं स मन्त्रवृद्धैश्च मात्रा च बहुबोधितः ।
न त्वामुत्सहते मोक्तुमर्थमर्थपरो यथा ॥६-३४-२३॥
नोत्सहत्यमृतो मोक्तुं युद्धे त्वामिति मैथिलि ।
सामात्यस्य नृशंसस्य निश्चयो ह्येष वर्तते ॥६-३४-२४॥
तदेषा सुस्थिरा बुद्धिर्मृत्युलोभादुपस्थिता ।
भयान्न शक्तस्त्वां मोक्तुमनिरस्तः स संयुगे ॥६-३४-२५॥
राक्षसानां च सर्वेषामात्मनश्च वधेन हि ।
निहत्य रावणं संख्ये सर्वथा निशितैः शरैः ।
प्रतिनेष्यति रामस्त्वामयोध्यामसितेक्षणे ॥६-३४-२६॥
एतस्मिन्नन्तरे शब्दो भेरीशङ्खसमाकुलः ।
श्रुतो वै सर्वसैन्यानां कम्पयन् धरणीतलम् ॥६-३४-२७॥
श्रुत्वा तु तं वानरसैन्यनादं लङ्कागता राक्षसराजभृत्याः ।
हतौजसो दैन्यपरीतचेष्टाः श्रेयो न पश्यन्ति नृपस्य दोषात् ॥६-३४-२८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे रावणनिश्चयकथनम् नाम चतुस्त्रिंशः सर्गः ॥६-३४॥
Previous
सरमासमाश्वासनम्
Next
माल्यवदुपदेशः