सरमासमाश्वासनम्
युद्धकाण्डः / सरमासमाश्वासनम्
Script
Translation
Previous
सीताविलापः
Next
रावणनिश्चयकथनम्
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे सरमासमाश्वासनम् नाम त्रयस्त्रिंशः सर्गः ॥६-३३॥
सीतां तु मोहितां दृष्ट्वा सरमा नाम राक्षसी ।
आससादाथ वैदेहीं प्रियां प्रणयिनी सखीम् ॥६-३३-१॥
मोहितां राक्षसेन्द्रेण सीतां परमदुःखिताम् ।
आश्वासयामास तदा सरमा मृदुभाषिणी ॥६-३३-२॥
सा हि तत्र कृता मित्रं सीतया रक्ष्यमाणया ।
रक्षन्ती रावणादिष्टा सानुक्रोशा दृढव्रता ॥६-३३-३॥
सा ददर्श सखी सीतां सरमा नष्टचेतनाम् ।
उपावृत्योत्थितां ध्वस्तां वडवामिव पांसुषु ॥६-३३-४॥
तां समाश्वासयामास सखीस्नेहेन सुव्रताम् ।
समाश्वसिहि वैदेहि मा भूत् ते मनसो व्यथा ।
उक्ता यद् रावणेन त्वं प्रयुक्तश्च स्वयं त्वया ॥६-३३-५॥
सखीस्नेहेन तद् भीरु मया सर्वं प्रतिश्रुतम् ।
लीनया गहने शून्ये भयमुत्सृज्य रावणात् ।
तव हेतोर्विशालाक्षि नहि मे रावणाद् भयम् ॥६-३३-६॥
स सम्भ्रान्तश्च निष्क्रान्तो यत्कृते राक्षसेश्वरः ।
तत्र मे विदितं सर्वमभिनिष्क्रम्य मैथिलि ॥६-३३-७॥
न शक्यं सौप्तिकं कर्तुं रामस्य विदितात्मनः ।
वधश्च पुरुषव्याघ्रे तस्मिन् नैवोपपद्यते ॥६-३३-८॥
न त्वेवं वानरा हन्तुं शक्याः पादपयोधिनः ।
सुरा देवर्षभेणेव रामेण हि सुरक्षिताः ॥६-३३-९॥
दीर्घवृत्तभुजः श्रीमान् महोरस्कः प्रतापवान् ।
धन्वी संनहनोपेतो धर्मात्मा भुवि विश्रुतः ॥६-३३-१०॥
विक्रान्तो रक्षिता नित्यमात्मनश्च परस्य च ।
लक्ष्मणेन सह भ्रात्रा कुलीनो नयशास्त्रवित् ॥६-३३-११॥
हन्ता परबलौघानामचिन्त्यबलपौरुषः ।
न हतो राघवः श्रीमान् सीते शत्रुनिबर्हणः ॥६-३३-१२॥
अयुक्तबुद्धिकृत्येन सर्वभूतविरोधिना ।
एवं प्रयुक्ता रौद्रेण माया मायाविना त्वयि ॥६-३३-१३॥
शोकस्ते विगतः सर्वकल्याणं त्वामुपस्थितम् ।
ध्रुवं त्वां भजते लक्ष्मीः प्रियं ते भवति शृणु ॥६-३३-१४॥
उत्तीर्य सागरं रामः सह वानरसेनया ।
संनिविष्टः समुद्रस्य तीरमासाद्य दक्षिणम् ॥६-३३-१५॥
दृष्टो मे परिपूर्णार्थः काकुत्स्थः सहलक्ष्मणः ।
सहितैः सागरान्तस्थैर्बलैस्तिष्ठति रक्षितः ॥६-३३-१६॥
अनेन प्रेषिता ये च राक्षसा लघुविक्रमाः ।
राघवस्तीर्ण इत्येवं प्रवृत्तिस्तैरिहाहृता ॥६-३३-१७॥
स तां श्रुत्वा विशालाक्षि प्रवृत्तिं राक्षसाधिपः ।
एष मन्त्रयते सर्वैः सचिवैः सह रावणः ॥६-३३-१८॥
इति ब्रुवाणा सरमा राक्षसी सीतया सह ।
सर्वोद्योगेन सैन्यानां शब्दं शुश्राव भैरवम् ॥६-३३-१९॥
दण्डनिर्घातवादिन्याः श्रुत्वा भेर्या महास्वनम् ।
उवाच सरमा सीतामिदं मधुरभाषिणी ॥६-३३-२०॥
संनाहजननी ह्येषा भैरवा भीरु भेरिका ।
भेरीनादं च गम्भीरं शृणु तोयदनिःस्वनम् ॥६-३३-२१॥
कल्प्यन्ते मत्तमातङ्गा युज्यन्ते रथवाजिनः ।
दृश्यन्ते तुरगारूढाः प्रासहस्ताः सहस्रशः ॥६-३३-२२॥
तत्र तत्र च संनद्धाः सम्पतन्ति सहस्रशः ।
आपूर्यन्ते राजमार्गाः सैन्यैरद्भुतदर्शनैः ॥६-३३-२३॥
वेगवद्भिर्नदद्भिश्च तोयौघैरिव सागरः ।
शस्त्राणां च प्रसन्नानां चर्मणां वर्मणां तथा ॥६-३३-२४॥
रथवाजिगजानां च राक्षसेन्द्रानुयायिनाम् ।
सम्भ्रमो रक्षसामेष हृषितानां तरस्विनाम् ॥६-३३-२५॥
प्रभां विसृजतां पश्य नानावर्णसमुत्थिताम् ।
वनं निर्दहतो घर्मे यथा रूपं विभावसोः ॥६-३३-२६॥
घण्टानां शृणु निर्घोषं रथानां शृणु निःस्वनम् ।
हयानां हेषमाणानां शृणु तूर्यध्वनिं तथा ॥६-३३-२७॥
उद्यतायुधहस्तानां राक्षसेन्द्रानुयायिनाम् ।
सम्भ्रमो रक्षसामेष तुमुलो लोमहर्षणम् ॥६-३३-२८॥
श्रीस्त्वां भजति शोकघ्नी रक्षसां भयमागतम् ।
रामः कमलपत्राक्षो दैत्यानामिव वासवः ॥६-३३-२९॥
अवजित्य जितक्रोधस्तमचिन्त्यपराक्रमः ।
रावणं समरे हत्वा भर्ता त्वाधिगमिष्यति ॥६-३३-३०॥
विक्रमिष्यति रक्षःसु भर्ता ते सहलक्ष्मणः ।
यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः ॥६-३३-३१॥
आगतस्य हि रामस्य क्षिप्रमङ्कागतां सतीम् ।
अहं द्रक्ष्यामि सिद्धार्थां त्वां शत्रौ विनिपातिते ॥६-३३-३२॥
अस्राण्यानन्दजानि त्वं वर्तयिष्यसि जानकि ।
समागम्य परिष्वक्ता तस्योरसि महोरसः ॥६-३३-३३॥
अचिरान्मोक्ष्यते सीते देवि ते जघनं गताम् ।
धृतामेकां बहून् मासान् वेणीं रामो महाबलः ॥६-३३-३४॥
तस्य दृष्ट्वा मुखं देवि पूर्णचन्द्रमिवोदितम् ।
मोक्ष्यसे शोकजं वारि निर्मोकमिव पन्नगी ॥६-३३-३५॥
रावणं समरे हत्वा नचिरादेव मैथिलि ।
त्वया समग्रः प्रियया सुखार्हो लप्स्यते सुखम् ॥६-३३-३६॥
सभाजिता त्वं रामेण मोदिष्यसि महात्मना ।
सुवर्षेण समायुक्ता यथा सस्येन मेदिनी ॥६-३३-३७॥
गिरिवरमभितो विवर्तमानो हय इव मण्डलमाशु यः करोति ।
तमिह शरणमभ्युपैहि देवि दिवसकरं प्रभवो ह्ययं प्रजानाम् ॥६-३३-३८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सरमासमाश्वासनम् नाम त्रयस्त्रिंशः सर्गः ॥६-३३॥
Previous
सीताविलापः
Next
रावणनिश्चयकथनम्