माल्यवदुपदेशः
युद्धकाण्डः / माल्यवदुपदेशः
Script
Translation
Previous
रावणनिश्चयकथनम्
Next
पुरद्वाररक्षा
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे माल्यवदुपदेशः नाम पञ्चत्रिंशः सर्गः ॥६-३५॥
तेन शङ्खविमिश्रेण भेरीशब्देन नादिना ।
उपयाति महाबाहू रामः परपुरंजयः ॥६-३५-१॥
तं निनादं निशम्याथ रावणो राक्षसेश्वरः ।
मुहूर्तं ध्यानमास्थाय सचिवानभ्युदैक्षत ॥६-३५-२॥
अथ तान् सचिवांस्तत्र सर्वानाभाष्य रावणः ।
सभां संनादयन् सर्वामित्युवाच महाबलः ॥६-३५-३॥
जगत्संतापनः क्रूरोऽगर्हयन् राक्षसेश्वरः ।
तरणं सागरस्यास्य विक्रमं बलपौरुषम् ॥६-३५-४॥
यदुक्तवन्तो रामस्य भवन्तस्तन्मया श्रुतम् ।
भवतश्चाप्यहं वेद्मि युद्धे सत्यपराक्रमान् ।
तूष्णीकानीक्षतोऽन्योन्यं विदित्वा रामविक्रमम् ॥६-३५-५॥
ततस्तु सुमहाप्राज्ञो माल्यवान् नाम राक्षसः ।
रावणस्य वचः श्रुत्वा इति मातामहोऽब्रवीत् ॥६-३५-६॥
विद्यास्वभिविनीतो यो राजा राजन् नयानुगः ।
स शास्ति चिरमैश्वर्यमरींश्च कुरुते वशे ॥६-३५-७॥
संदधानो हि कालेन विगृह्णंश्चारिभिः सह ।
स्वपक्षे वर्धनं कुर्वन्महदैश्वर्यमश्नुते ॥६-३५-८॥
हीयमानेन कर्तव्यो राज्ञा संधिः समेन च ।
न शत्रुमवमन्येत ज्यायान् कुर्वीत विग्रहम् ॥६-३५-९॥
तन्मह्यं रोचते संधिः सह रामेण रावण ।
यदर्थमभियुक्तोऽसि सीता तस्मै प्रदीयताम् ॥६-३५-१०॥
तस्य देवर्षयः सर्वे गन्धर्वाश्च जयैषिणः ।
विरोधं मा गमस्तेन संधिस्ते तेन रोचताम् ॥६-३५-११॥
असृजद् भगवान् पक्षौ द्वावेव हि पितामहः ।
सुराणामसुराणां च धर्माधर्मौ तदाश्रयौ ॥६-३५-१२॥
धर्मो हि श्रूयते पक्ष अमराणां महात्मनाम् ।
अधर्मो रक्षसां पक्षो ह्यसुराणां च राक्षस ॥६-३५-१३॥
धर्मो वै ग्रसतेऽधर्मं यदा कृतमभूद् युगम् ।
अधर्मो ग्रसते धर्मं यदा तिष्यः प्रवर्तते ॥६-३५-१४॥
तत् त्वया चरता लोकान् धर्मोऽपि निहतो महान् ।
अधर्मः प्रगृहीतश्च तेनास्मद् बलिनः परे ॥६-३५-१५॥
स प्रमादात् प्रवृद्धस्तेऽधर्मोऽहिर्ग्रसते हि नः ।
विवर्धयति पक्षं च सुराणां सुरभावनः ॥६-३५-१६॥
विषयेषु प्रसक्तेन यत्किंचित्कारिणा त्वया ।
ऋषीणामग्निकल्पानामुद्वेगो जनितो महान् ॥६-३५-१७॥
तेषां प्रभावो दुर्धर्षः प्रदीप्त इव पावकः ।
तपसा भावितात्मानो धर्मस्यानुग्रहे रताः ॥६-३५-१८॥
मुख्यैर्यज्ञैर्यजन्त्येते तैस्तैर्यत्ते द्विजातयः ।
जुह्वत्यग्नींश्च विधिवद् वेदांश्चोच्चैरधीयते ॥६-३५-१९॥
अभिभूय च रक्षांसि ब्रह्मघोषानुदीरयन् ।
दिशो विप्रद्रुताः सर्वाः स्तनयित्नुरिवोष्णगे ॥६-३५-२०॥
ऋषीणामग्निकल्पानामग्निहोत्रसमुत्थितः ।
आदत्ते रक्षसां तेजो धूमो व्याप्य दिशो दश ॥६-३५-२१॥
तेषु तेषु च देशेषु पुण्येष्वेव दृढव्रतैः ।
चर्यमाणं तपस्तीव्रं संतापयति राक्षसान् ॥६-३५-२२॥
देवदानवयक्षेभ्यो गृहीतश्च वरस्त्वया ।
मनुष्या वानरा ऋक्षा गोलाङ्गूला महाबलाः ।
बलवन्त इहागम्य गर्जन्ति दृढविक्रमाः ॥६-३५-२३॥
उत्पातान् विविधान् दृष्ट्वा घोरान् बहुविधान् बहून् ।
विनाशमनुपश्यामि सर्वेषां रक्षसामहम् ॥६-३५-२४॥
खराभिस्तनिता घोरा मेघाः प्रतिभयंकराः ।
शोणितेनाभिवर्षन्ति लङ्कामुष्णेन सर्वतः ॥६-३५-२५॥
रुदतां वाहनानां च प्रपतन्त्यश्रुबिन्दवः ।
रजोध्वस्ता विवर्णाश्च न प्रभान्ति यथापुरम् ॥६-३५-२६॥
व्याला गोमायवो गृध्रा वाश्यन्ति च सुभैरवम् ।
प्रविश्य लङ्कामारामे समवायांश्च कुर्वते ॥६-३५-२७॥
कालिकाः पाण्डुरैर्दन्तैः प्रहसन्त्यग्रतः स्थिताः ।
स्त्रियः स्वप्नेषु मुष्णन्त्यो गृहाणि प्रतिभाष्य च ॥६-३५-२८॥
गृहाणां बलिकर्माणि श्वानः पर्युपभुञ्जते ।
खरा गोषु प्रजायन्ते मूषका नकुलेषु च ॥६-३५-२९॥
मार्जारा द्वीपिभिः सार्धं सूकराः शुनकैः सह ।
किंनरा राक्षसैश्चापि समेयुर्मानुषैः सह ॥६-३५-३०॥
पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः ।
राक्षसानां विनाशाय कपोता विचरन्ति च ॥६-३५-३१॥
चीचीकूचीति वाशन्त्यः शारिका वेश्मसु स्थिताः ।
पतन्ति ग्रथिताश्चापि निर्जिताः कलहैषिभिः ॥६-३५-३२॥
पक्षिणश्च मृगाः सर्वे प्रत्यादित्यं रुदन्ति ते ।
करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः ॥६-३५-३३॥
कालो गृहाणि सर्वेषां काले कालेऽन्ववेक्षते ।
एतान्यन्यानि दुष्टानि निमित्तान्युत्पतन्ति च ॥६-३५-३४॥
विष्णुं मन्यामहे रामं मानुषं रूपमास्थितम् ।
नहि मानुषमात्रोऽसौ राघवो दृढविक्रमः ॥६-३५-३५॥
येन बद्धः समुद्रे च सेतुः स परमाद्भुतः ।
कुरुष्व नरराजेन संधिं रामेण रावण ।
ज्ञात्वावधार्य कर्माणि क्रियतामायतिक्षमम् ॥६-३५-३६॥
इदं वचस्तस्य निगद्य माल्यवान् परीक्ष्य रक्षोधिपतेर्मनः पुनः ।
अनुत्तमेषूत्तमपौरुषो बली बभूव तूष्णीं समवेक्ष्य रावणम् ॥६-३५-३७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे माल्यवदुपदेशः नाम पञ्चत्रिंशः सर्गः ॥६-३५॥
Previous
रावणनिश्चयकथनम्
Next
पुरद्वाररक्षा