सीताविलापः

युद्धकाण्डः / सीताविलापः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे सीताविलापः नाम द्वात्रिंशः सर्गः ॥६-३२॥
सा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम् । सुग्रीवप्रतिसंसर्गमाख्यातं च हनूमता ॥६-३२-१॥
नयने मुखवर्णं च भर्तुस्तत्सदृशं मुखम् । केशान् केशान्तदेशं च तं च चूडामणिं शुभम् ॥६-३२-२॥
एतैः सर्वैरभिज्ञानैरभिज्ञाय सुदुःखिता । विजगर्हेऽत्र कैकेयीं क्रोशन्ती कुररी यथा ॥६-३२-३॥
सकामा भव कैकेयि हतोऽयं कुलनन्दनः । कुलमुत्सादितं सर्वं त्वया कलहशीलया ॥६-३२-४॥
आर्येण किं नु कैकेय्याः कृतं रामेण विप्रियम् । यन्मया चीरवसनं दत्त्वा प्रव्राजितो वनम् ॥६-३२-५॥
एवमुक्त्वा तु वैदेही वेपमाना तपस्विनी । जगाम जगतीं बाला छिन्ना तु कदली यथा ॥६-३२-६॥
सा मुहूर्तात् समाश्वस्य परिलभ्याथ चेतनाम् । तच्छिरः समुपास्थाय विललापायतेक्षणा ॥६-३२-७॥
हा हतास्मि महाबाहो वीरव्रतमनुव्रत । इमां ते पश्चिमावस्थां गतास्मि विधवा कृता ॥६-३२-८॥
प्रथमं मरणं नार्या भर्तुर्वैगुण्यमुच्यते । सुवृत्तः साधुवृत्तायाः संवृत्तस्त्वं ममाग्रतः ॥६-३२-९॥
महद् दुःखं प्रपन्नाया मग्नायाः शोकसागरे । यो हि मामुद्यतस्त्रातुं सोऽपि त्वं विनिपातितः ॥६-३२-१०॥
सा श्वश्रूर्मम कौसल्या त्वया पुत्रेण राघव । वत्सेनेव यथा धेनुर्विवत्सा वत्सला कृता ॥६-३२-११॥
उद्दिष्टं दीर्घमायुस्ते दैवज्ञैरपि राघव । अनृतं वचनं तेषामल्पायुरसि राघव ॥६-३२-१२॥
अथवा नश्यति प्रज्ञा प्राज्ञस्यापि सतस्तव । पचत्येनं तथा कालो भूतानां प्रभवो ह्ययम् ॥६-३२-१३॥
अदृष्टं मृत्युमापन्नः कस्मात् त्वं नयशास्त्रवित् । व्यसनानामुपायज्ञः कुशलो ह्यसि वर्जने ॥६-३२-१४॥
तथा त्वं सम्परिष्वज्य रौद्रयातिनृशंसया । कालरात्र्या ममाच्छिद्य हृतः कमललोचन ॥६-३२-१५॥
इह शेषे महाबाहो मां विहाय तपस्विनीम् । प्रियामिव यथा नारीं पृथिवीं पुरुषर्षभ ॥६-३२-१६॥
अर्चितं सततं यत्नाद् गन्धमाल्यैर्मया तव । इदं ते मत्प्रियं वीर धनुः काञ्चनभूषितम् ॥६-३२-१७॥
पित्रा दशरथेन त्वं श्वशुरेण ममानघ । सर्वैश्च पितृभिः सार्धं नूनं स्वर्गे समागतः ॥६-३२-१८॥
दिवि नक्षत्रभूतं च महत्कर्मकृतं तथा । पुण्यं राजर्षिवंशं त्वमात्मनः समुपेक्षसे ॥६-३२-१९॥
किं मां न प्रेक्षसे राजन् किं वा न प्रतिभाषसे । बालां बालेन सम्प्राप्तां भार्यां मां सहचारिणीम् ॥६-३२-२०॥
संश्रुतं गृह्णता पाणिं चरिष्यामीति यत् त्वया । स्मर तन्नाम काकुत्स्थ नय मामपि दुःखिताम् ॥६-३२-२१॥
कस्मान्मामपहाय त्वं गतो गतिमतां वर । अस्माल्लोकादमुं लोकं त्यक्त्वा मामपि दुःखिताम् ॥६-३२-२२॥
कल्याणै रुचिरं गात्रं परिष्वक्तं मयैव तु । क्रव्यादैस्तच्छरीरं ते नूनं विपरिकृष्यते ॥६-३२-२३॥
अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः । अग्निहोत्रेण संस्कारं केन त्वं न तु लप्स्यसे ॥६-३२-२४॥
प्रव्रज्यामुपपन्नानां त्रयाणामेकमागतम् । परिप्रेक्ष्यति कौसल्या लक्ष्मणं शोकलालसा ॥६-३२-२५॥
स तस्याः परिपृच्छन्त्या वधं मित्रबलस्य ते । तव चाख्यास्यते नूनं निशायां राक्षसैर्वधम् ॥६-३२-२६॥
सा त्वां सुप्तं हतं ज्ञात्वा मां च रक्षोगृहं गताम् । हृदयेनावदीर्णेन न भविष्यति राघव ॥६-३२-२७॥
मम हेतोरनार्याया अनघः पार्थिवात्मजः । रामः सागरमुत्तीर्य वीर्यवान् गोष्पदे हतः ॥६-३२-२८॥
अहं दाशरथेनोढा मोहात् स्वकुलपांसनी । आर्यपुत्रस्य रामस्य भार्या मृत्युरजायत ॥६-३२-२९॥
नूनमन्यां मया जातिं वारितं दानमुत्तमम् । याहमद्यैव शोचामि भार्या सर्वातिथेरिह ॥६-३२-३०॥
साधु घातय मां क्षिप्रं रामस्योपरि रावण । समानय पतिं पत्न्या कुरु कल्याणमुत्तमम् ॥६-३२-३१॥
शिरसा मे शिरश्चास्य कायं कायेन योजय । रावणानुगमिष्यामि गतिं भर्तुर्महात्मनः ॥६-३२-३२॥
इतीव दुःखसंतप्ता विललापायतेक्षणा । भर्तुः शिरो धनुश्चैव ददर्श जनकात्मजा ॥६-३२-३३॥
एवं लालप्यमानायां सीतायां तत्र राक्षसः । अभिचक्राम भर्तारमनीकस्थः कृताञ्जलिः ॥६-३२-३४॥
विजयस्वार्यपुत्रेति सोऽभिवाद्य प्रसाद्य च । न्यवेदयदनुप्राप्तं प्रहस्तं वाहिनीपतिम् ॥६-३२-३५॥
अमात्यैः सहितः सर्वैः प्रहस्तस्त्वामुपस्थितः । तेन दर्शनकामेन अहं प्रस्थापितः प्रभो ॥६-३२-३६॥
नूनमस्ति महाराज राजभावात् क्षमान्वित । किंचिदात्ययिकं कार्यं तेषां त्वं दर्शनं कुरु ॥६-३२-३७॥
एतच्छ्रुत्वा दशग्रीवो राक्षसप्रतिवेदितम् । अशोकवनिकां त्यक्त्वा मन्त्रिणां दर्शनं ययौ ॥६-३२-३८॥
स तु सर्वं समर्थ्यैव मन्त्रिभिः कृत्यमात्मनः । सभां प्रविश्य विदधे विदित्वा रामविक्रमम् ॥६-३२-३९॥
अन्तर्धानं तु तच्छीर्षं तच्च कार्मुकमुत्तमम् । जगाम रावणस्यैव निर्याणसमनन्तरम् ॥६-३२-४०॥
राक्षसेन्द्रस्तु तैः सार्धं मन्त्रिभिर्भीमविक्रमैः । समर्थयामास तदा रामकार्यविनिश्चयम् ॥६-३२-४१॥
अविदूरस्थितान् सर्वान् बलाध्यक्षान् हितैषिणः । अब्रवीत् कालसदृशं रावणो राक्षसाधिपः ॥६-३२-४२॥
शीघ्रं भेरीनिनादेन स्फुटं कोणाहतेन मे । समानयध्वं सैन्यानि वक्तव्यं च न कारणम् ॥६-३२-४३॥
ततस्तथेति प्रतिगृह्य तद्वचस्तदैव दूताः सहसा महद् बलम् । समानयंश्चैव समागतं च न्यवेदयन् भर्तरि युद्धकाङ्क्षिणि ॥६-३२-४४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सीताविलापः नाम द्वात्रिंशः सर्गः ॥६-३२॥