विद्युद्जिह्वमायाप्रयोगः

युद्धकाण्डः / विद्युद्जिह्वमायाप्रयोगः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे विद्युद्जिह्वमायाप्रयोगः नाम एकत्रिंशः सर्गः ॥६-३१॥
ततस्तमक्षोभ्यबलं लङ्कायां नृपतेश्चराः । सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ॥६-३१-१॥
चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् । जातोद्वेगोऽभवत् किंचित् सचिवानिदमब्रवीत् ॥६-३१-२॥
मन्त्रिणः शीघ्रमायान्तु सर्वे वै सुसमाहिताः । अयं नो मन्त्रकालो हि सम्प्राप्त इति राक्षसाः ॥६-३१-३॥
तस्य तच्छासनं श्रुत्वा मन्त्रिणोऽभ्यागमन् द्रुतम् । ततः स मन्त्रयामास राक्षसैः सचिवैः सह ॥६-३१-४॥
मन्त्रयित्वा तु दुर्धर्षः क्षमं यत् तदनन्तरम् । विसर्जयित्वा सचिवान् प्रविवेश स्वमालयम् ॥६-३१-५॥
ततो राक्षसमादाय विद्युज्जिह्वं महाबलम् । मायाविनं महामायं प्राविशद् यत्र मैथिली ॥६-३१-६॥
विद्युज्जिह्वं च मायाज्ञमब्रवीद् राक्षसाधिपः । मोहयिष्यावहे सीतां मायया जनकात्मजाम् ॥६-३१-७॥
शिरो मायामयं गृह्य राघवस्य निशाचर । मां त्वं समुपतिष्ठस्व महच्च सशरं धनुः ॥६-३१-८॥
एवमुक्तस्तथेत्याह विद्युज्जिह्वो निशाचरः । दर्शयामास तां मायां सुप्रयुक्तां स रावणे ॥६-३१-९॥
तस्य तुष्टोऽभवद् राजा प्रददौ च विभूषणम् । अशोकवनिकायां च सीतादर्शनलालसः ॥६-३१-१०॥
नैर्ऋतानामधिपतिः संविवेश महाबलः । ततो दीनामदैन्यार्हां ददर्श धनदानुजः ॥६-३१-११॥
अधोमुखीं शोकपरामुपविष्टां महीतले । भर्तारं समनुध्यान्तीमशोकवनिकां गताम् ॥६-३१-१२॥
उपास्यमानां घोराभी राक्षसीभिरदूरतः । उपसृत्य ततः सीतां प्रहर्षं नाम कीर्तयन् ॥६-३१-१३॥
इदं च वचनं धृष्टमुवाच जनकात्मजाम् । सान्त्व्यमाना मया भद्रे यमाश्रित्य विमन्यसे ॥६-३१-१४॥
खरहन्ता स ते भर्ता राघवः समरे हतः । छिन्नं ते सर्वथा मूलं दर्पश्च निहतो मया ॥६-३१-१५॥
व्यसनेनात्मनः सीते मम भार्या भविष्यसि । विसृजैतां मतिं मूढे किं मृतेन करिष्यसि ॥६-३१-१६॥
भवस्व भद्रे भार्याणां सर्वासामीश्वरी मम । अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि । शृणु भर्तृवधं सीते घोरं वृत्रवधं यथा ॥६-३१-१७॥
समायातः समुद्रान्तं हन्तुं मां किल राघवः । वानरेन्द्रप्रणीतेन बलेन महता वृतः ॥६-३१-१८॥
संनिविष्टः समुद्रस्य पीड्य तीरमथोत्तरम् । बलेन महता रामो व्रजत्यस्तं दिवाकरे ॥६-३१-१९॥
अथाध्वनि परिश्रान्तमर्धरात्रे स्थितं बलम् । सुखसुप्तं समासाद्य चरितं प्रथमं चरैः ॥६-३१-२०॥
तत्प्रहस्तप्रणीतेन बलेन महता मम । बलमस्य हतं रात्रौ यत्र रामः सलक्ष्मणः ॥६-३१-२१॥
पट्टिशान् परिघांश्चक्रानृष्टीन् दण्डान् महायुधान् । बाणजालानि शूलानि भास्वरान् कूटमुद्गरान् ॥६-३१-२२॥
यष्टीश्च तोमरान् प्रासांश्चक्राणि मुसलानि च । उद्यम्योद्यम्य रक्षोभिर्वानरेषु निपातिताः ॥६-३१-२३॥
अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना । असक्तं कृतहस्तेन शिरश्छिन्नं महासिना ॥६-३१-२४॥
विभीषणः समुत्पत्य निगृहीतो यदृच्छया । दिशः प्रव्राजितः सैन्यैर्लक्ष्मणः प्लवगैः सह ॥६-३१-२५॥
सुग्रीवो ग्रीवया सीते भग्नया प्लवगाधिपः । निरस्तहनुकः सीते हनूमान् राक्षसैर्हतः ॥६-३१-२६॥
जाम्बवानथ जानुभ्यामुत्पतन् निहतो युधि । पट्टिशैर्बहुभिश्छिन्नो निकृत्तः पादपो यथा ॥६-३१-२७॥
मैन्दश्च द्विविदश्चोभौ तौ वानरवरर्षभौ । निःश्वसन्तौ रुदन्तौ च रुधिरेण परिप्लुतौ ॥६-३१-२८॥
असिना व्यायतौ छिन्नौ मध्ये ह्यरिनिषूदनौ । अनुश्वसिति मेदिन्यां पनसः पनसो यथा ॥६-३१-२९॥
नाराचैर्बहुभिश्छिन्नः शेते दर्यां दरीमुखः । कुमुदस्तु महातेजा निष्कूजन् सायकैर्हतः ॥६-३१-३०॥
अङ्गदो बहुभिश्छिन्नः शरैरासाद्य राक्षसैः । परितो रुधिरोद्गारी क्षितौ निपतितोऽङ्गदः ॥६-३१-३१॥
हरयो मथिता नागै रथजालैस्तथापरे । शयाना मृदितास्तत्र वायुवेगैरिवाम्बुदाः ॥६-३१-३२॥
प्रसृताश्च परे त्रस्ता हन्यमाना जघन्यतः । अनुद्रुतास्तु रक्षोभिः सिंहैरिव महाद्विपाः ॥६-३१-३३॥
सागरे पतिताः केचित् केचिद् गगनमाश्रिताः । ऋक्षा वृक्षानुपारूढा वानरीं वृत्तिमाश्रिताः ॥६-३१-३४॥
सागरस्य च तीरेषु शैलेषु च वनेषु च । पिङ्गलास्ते विरूपाक्षै राक्षसैर्बहवो हताः ॥६-३१-३५॥
एवं तव हतो भर्ता ससैन्यो मम सेनया । क्षतजार्द्रं रजोध्वस्तमिदं चास्याहृतं शिरः ॥६-३१-३६॥
ततः परमदुर्धर्षो रावणो राक्षसेश्वरः । सीतायामुपशृण्वन्त्यां राक्षसीमिदमब्रवीत् ॥६-३१-३७॥
राक्षसं क्रूरकर्माणं विद्युज्जिह्वं समानय । येन तद्राघवशिरः संग्रामात् स्वयमाहृतम् ॥६-३१-३८॥
विद्युज्जिह्वस्तदा गृह्य शिरस्तत्सशरासनम् । प्रणामं शिरसा कृत्वा रावणस्याग्रतः स्थितः ॥६-३१-३९॥
तमब्रवीत् ततो राजा रावणो राक्षसं स्थितम् । विद्युज्जिह्वं महाजिह्वं समीपपरिवर्तिनम् ॥६-३१-४०॥
अग्रतः कुरु सीतायाः शीघ्रं दाशरथेः शिरः । अवस्थां पश्चिमां भर्तुः कृपणा साधु पश्यतु ॥६-३१-४१॥
एवमुक्तं तु तद् रक्षः शिरस्तत् प्रियदर्शनम् । उपनिक्षिप्य सीतायाः क्षिप्रमन्तरधीयत ॥६-३१-४२॥
रावणश्चापि चिक्षेप भास्वरं कार्मुकं महत् । त्रिषु लोकेषु विख्यातं रामस्यैतदिति ब्रुवन् ॥६-३१-४३॥
इदं तत् तव रामस्य कार्मुकं ज्यासमावृतम् । इह प्रहस्तेनानीतं तं हत्वा निशि मानुषम् ॥६-३१-४४॥
स विद्युज्जिह्वेन सहैव तच्छिरो धनुश्च भूमौ विनिकीर्यमाणः । विदेहराजस्य सुतां यशस्विनीं ततोऽब्रवीत् तां भव मे वशानुगा ॥६-३१-४५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे विद्युद्जिह्वमायाप्रयोगः नाम एकत्रिंशः सर्गः ॥६-३१॥