वानरबलसंख्यानम्
युद्धकाण्डः / वानरबलसंख्यानम्
Script
Translation
Previous
शार्दूलादिचारप्रेषणम्
Next
विद्युद्जिह्वमायाप्रयोगः
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे वानरबलसंख्यानम् नाम त्रिंशः सर्गः ॥६-३०॥
ततस्तमक्षोभ्यबलं लङ्काधिपतये चराः ।
सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ॥६-३०-१॥
चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् ।
जातोद्वेगोऽभवत् किंचिच्छार्दूलं वाक्यमब्रवीत् ॥६-३०-२॥
अयथावच्च ते वर्णो दीनश्चासि निशाचर ।
नासि कच्चिदमित्राणां क्रुद्धानां वशमागतः ॥६-३०-३॥
इति तेनानुशिष्टस्तु वाचं मन्दमुदीरयन् ।
तदा राक्षसशार्दूलं शार्दूलो भयविक्लवः ॥६-३०-४॥
न ते चारयितुं शक्या राजन् वानरपुङ्गवाः ।
विक्रान्ता बलवन्तश्च राघवेण च रक्षिताः ॥६-३०-५॥
नापि सम्भाषितुं शक्याः सम्प्रश्नोऽत्र न लभ्यते ।
सर्वतो रक्ष्यते पन्था वानरैः पर्वतोपमैः ॥६-३०-६॥
प्रविष्टमात्रे ज्ञातोऽहं बले तस्मिन् विचारिते ।
बलाद् गृहीतो रक्षोभिर्बहुधास्मि विचारितः ॥६-३०-७॥
जानुभिर्मुष्टिभिर्दन्तैस्तलैश्चाभिहतो भृशम् ।
परिणीतोऽस्मि हरिभिर्बलमध्ये अमर्षणैः ॥६-३०-८॥
परिणीय च सर्वत्र नीतोऽहं रामसंसदि ।
रुधिरस्राविदीनाङ्गो विह्वलश्चलितेन्द्रियः ॥६-३०-९॥
हरिभिर्वध्यमानश्च याचमानः कृताञ्जलिः ।
राघवेण परित्रातो मा मेति च यदृच्छया ॥६-३०-१०॥
एष शैलशिलाभिस्तु पूरयित्वा महार्णवम् ।
द्वारमाश्रित्य लङ्काया रामस्तिष्ठति सायुधः ॥६-३०-११॥
गरुडव्यूहमास्थाय सर्वतो हरिभिर्वृतः ।
मां विसृज्य महातेजा लङ्कामेवातिवर्तते ॥६-३०-१२॥
पुरा प्राकारमायाति क्षिप्रमेकतरं कुरु ।
सीतां वापि प्रयच्छाशु युद्धं वापि प्रदीयताम् ॥६-३०-१३॥
मनसा तत् तदा प्रेक्ष्य तच्छ्रुत्वा राक्षसाधिपः ।
शार्दूलं सुमहद्वाक्यमथोवाच स रावणः ॥६-३०-१४॥
यदि मां प्रतियुध्यन्ते देवगन्धर्वदानवाः ।
नैव सीतां प्रदास्यामि सर्वलोकभयादपि ॥६-३०-१५॥
एवमुक्त्वा महातेजा रावणः पुनरब्रवीत् ।
चरिता भवता सेना केऽत्र शूराः प्लवंगमाः ॥६-३०-१६॥
किंप्रभाः कीदृशाः सौम्य वानरा ये दुरासदाः ।
कस्य पुत्राश्च पौत्राश्च तत्त्वमाख्याहि राक्षस ॥६-३०-१७॥
तथात्र प्रतिपत्स्यामि ज्ञात्वा तेषां बलाबलम् ।
अवश्यं खलु संख्यानं कर्तव्यं युद्धमिच्छता ॥६-३०-१८॥
अथैवमुक्तः शार्दूलो रावणेनोत्तमश्चरः ।
इदं वचनमारेभे वक्तुं रावणसंनिधौ ॥६-३०-१९॥
अथर्क्षरजसः पुत्रो युधि राजन् सुदुर्जयः ।
गद्गदस्याथ पुत्रोऽत्र जाम्बवानिति विश्रुतः ॥६-३०-२०॥
गद्गदस्याथ पुत्रोऽन्यो गुरुपुत्रः शतक्रतोः ।
कदनं यस्य पुत्रेण कृतमेकेन रक्षसाम् ॥६-३०-२१॥
सुषेणश्चात्र धर्मात्मा पुत्रो धर्मस्य वीर्यवान् ।
सौम्यः सोमात्मजश्चात्र राजन् दधिमुखः कपिः ॥६-३०-२२॥
सुमुखो दुर्मुखश्चात्र वेगदर्शी च वानरः ।
मृत्युर्वानररूपेण नूनं सृष्टः स्वयंभुवा ॥६-३०-२३॥
पुत्रो हुतवहस्यात्र नीलः सेनापतिः स्वयम् ।
अनिलस्य तु पुत्रोऽत्र हनूमानिति विश्रुतः ॥६-३०-२४॥
नप्ता शक्रस्य दुर्धर्षो बलवानङ्गदो युवा ।
मैन्दश्च द्विविदश्चोभौ बलिनावश्विसम्भवौ ॥६-३०-२५॥
पुत्रा वैवस्वतस्याथ पञ्च कालान्तकोपमाः ।
गजो गवाक्षो गवयः शरभो गन्धमादनः ॥६-३०-२६॥
दश वानरकोट्यश्च शूराणां युद्धकाङ्क्षिणाम् ।
श्रीमतां देवपुत्राणां शेषं नाख्यातुमुत्सहे ॥६-३०-२७॥
पुत्रो दशरथस्यैष सिंहसंहननो युवा ।
दूषणो निहतो येन खरश्च त्रिशिरास्तथा ॥६-३०-२८॥
नास्ति रामस्य सदृशे विक्रमे भुवि कश्चन ।
विराधो निहतो येन कबन्धश्चान्तकोपमः ॥६-३०-२९॥
वक्तुं न शक्तो रामस्य गुणान् कश्चिन्नरः क्षितौ ।
जनस्थानगता येन तावन्तो राक्षसा हताः ॥६-३०-३०॥
लक्ष्मणश्चात्र धर्मात्मा मातंगानामिवर्षभः ।
यस्य बाणपथं प्राप्य न जीवेदपि वासवः ॥६-३०-३१॥
श्वेतो ज्योतिर्मुखश्चात्र भास्करस्यात्मसम्भवौ ।
वरुणस्याथ पुत्रोऽथ हेमकूटः प्लवंगमः ॥६-३०-३२॥
विश्वकर्मसुतो वीरो नलः प्लवगसत्तमः ।
विक्रान्तो वेगवानत्र वसुपुत्रः स दुर्धरः ॥६-३०-३३॥
राक्षसानां वरिष्ठश्च तव भ्राता विभीषणः ।
प्रतिगृह्य पुरीं लङ्कां राघवस्य हिते रतः ॥६-३०-३४॥
इति सर्वं समाख्यातं तथा वै वानरं बलम् ।
सुवेलेऽधिष्ठितं शैले शेषकार्ये भवान् गतिः ॥६-३०-३५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे वानरबलसंख्यानम् नाम त्रिंशः सर्गः ॥६-३०॥
Previous
शार्दूलादिचारप्रेषणम्
Next
विद्युद्जिह्वमायाप्रयोगः