रामप्रोत्साहनम्

युद्धकाण्डः / रामप्रोत्साहनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे रामप्रोत्साहनम् नाम द्वितीयः सर्गः ॥६-२॥
तं तु शोकपरिद्यूनं रामं दशरथात्मजम् । उवाच वचनं श्रीमान् सुग्रीवः शोकनाशनम् ॥६-२-१॥
किं त्वया तप्यते वीर यथान्यः प्राकृतस्तथा । मैवं भूस्त्यज संतापं कृतघ्न इव सौहृदम् ॥६-२-२॥
संतापस्य च ते स्थानं नहि पश्यामि राघव । प्रवृत्तावुपलब्धायां ज्ञाते च निलये रिपोः ॥६-२-३॥
मतिमान् शास्त्रवित् प्राज्ञः पण्डितश्चासि राघव । त्यजेमां प्राकृतां बुद्धिं कृतात्मेवार्थदूषिणीम् ॥६-२-४॥
समुद्रं लङ्घयित्वा तु महानक्रसमाकुलम् । लङ्कामारोहयिष्यामो हनिष्यामश्च ते रिपुम् ॥६-२-५॥
निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः । सर्वार्था व्यवसीदन्ति व्यसनं चाधिगच्छति ॥६-२-६॥
इमे शूराः समर्थाश्च सर्वतो हरियूथपाः । त्वत्प्रियार्थं कृतोत्साहाः प्रवेष्टुमपि पावकम् । एषां हर्षेण जानामि तर्कश्चापि दृढो मम ॥६-२-७॥
विक्रमेण समानेष्ये सीतां हत्वा यथा रिपुम् । रावणं पापकर्माणं तथा त्वं कर्तुमर्हसि ॥६-२-८॥
सेतुरत्र यथा बद्ध्येद् यथा पश्येम तां पुरीम् । तस्य राक्षसराजस्य तथा त्वं कुरु राघव ॥६-२-९॥
दृष्ट्वा तां हि पुरीं लङ्कां त्रिकूटशिखरे स्थिताम् । हतं च रावणं युद्धे दर्शनादवधारय ॥६-२-१०॥
अबद्ध्वा सागरे सेतुं घोरे च वरुणालये । लङ्कां न मर्दितुं शक्या सेन्द्रैरपि सुरासुरैः ॥६-२-११॥
सेतुबन्धः समुद्रे च यावल्लङ्कासमीपतः । सर्वं तीर्णं च मे सैन्यं जितमित्युपधारय । इमे हि समरे वीरा हरयः कामरूपिणः ॥६-२-१२॥
तदलं विक्लवां बुद्धिं राजन् सर्वार्थनाशिनीम् । पुरुषस्य हि लोकेऽस्मिन् शोकः शौर्यापकर्षणः ॥६-२-१३॥
यत् तु कार्यं मनुष्येण शौटीर्यमवलम्ब्यताम् । तदलंकरणायैव कर्तुर्भवति सत्वरम् ॥६-२-१४॥
अस्मिन् काले महाप्राज्ञ सत्त्वमातिष्ठ तेजसा । शूराणां हि मनुष्याणां त्वद्विधानां महात्मनाम् । विनष्टे वा प्रणष्टे वा शोकः सर्वार्थनाशनः ॥६-२-१५॥
तत्त्वं बुद्धिमतां श्रेष्ठः सर्वशास्त्रार्थकोविदः । मद्विधैः सचिवैः सार्धमरिं जेतुं समर्हसि ॥६-२-१६॥
नहि पश्याम्यहं कंचित् त्रिषु लोकेषु राघव । गृहीतधनुषो यस्ते तिष्ठेदभिमुखो रणे ॥६-२-१७॥
वानरेषु समासक्तं न ते कार्यं विपत्स्यते । अचिराद् द्रक्ष्यसे सीतां तीर्त्वा सागरमक्षयम् ॥६-२-१८॥
तदलं शोकमालम्ब्य क्रोधमालम्ब भूपते । निश्चेष्टाः क्षत्रिया मन्दाः सर्वे चण्डस्य बिभ्यति ॥६-२-१९॥
लङ्घनार्थं च घोरस्य समुद्रस्य नदीपतेः । सहास्माभिरिहोपेतः सूक्ष्मबुद्धिर्विचारय ॥६-२-२०॥
लङ्घिते तत्र तैः सैन्यैर्जितमित्येव निश्चिनु । सर्वं तीर्णं च मे सैन्यं जितमित्यवधार्यताम् ॥६-२-२१॥
इमे हि हरयः शूराः समरे कामरूपिणः । तानरीन् विधमिष्यन्ति शिलापादपवृष्टिभिः ॥६-२-२२॥
कथंचित् परिपश्यामि लङ्घितं वरुणालयम् । हतमित्येव तं मन्ये युद्धे शत्रुनिबर्हण ॥६-२-२३॥
किमुक्त्वा बहुधा चापि सर्वथा विजयी भवान् । निमित्तानि च पश्यामि मनो मे सम्प्रहृष्यति ॥६-२-२४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे रामप्रोत्साहनम् नाम द्वितीयः सर्गः ॥६-२॥