हरादिवानरपराक्रमाख्यानम्

युद्धकाण्डः / हरादिवानरपराक्रमाख्यानम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे हरादिवानरपराक्रमाख्यानम् नाम सप्तविंशः सर्गः ॥६-२७॥
तांस्तु ते सम्प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान् । राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम् ॥६-२७-१॥
स्निग्धा यस्य बहुव्यामा दीर्घलाङ्गूलमाश्रिताः । ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः ॥६-२७-२॥
प्रगृहीताः प्रकाशन्ते सूर्यस्येव मरीचयः । पृथिव्यां चानुकृष्यन्ते हरो नामैष वानरः ॥६-२७-३॥
यं पृष्ठतोऽनुगच्छन्ति शतशोऽथ सहस्रशः । वृक्षानुद्यम्य सहसा लङ्कारोहणतत्पराः ॥६-२७-४॥
यूथपा हरिराजस्य किंकराः समुपस्थिताः । नीलानिव महामेघांस्तिष्ठतो यांस्तु पश्यसि ॥६-२७-५॥
असिताञ्जनसंकाशान् युद्धे सत्यपराक्रमान् । असंख्येयाननिर्देशान् परं पारमिवोदधेः ॥६-२७-६॥
पर्वतेषु च ये केचिद् विषयेषु नदीषु च । एते त्वामभिवर्तन्ते राजन्नृक्षाः सुदारुणाः ॥६-२७-७॥
एषां मध्ये स्थितो राजन् भीमाक्षो भीमदर्शनः । पर्जन्य इव जीमूतैः समन्तात् परिवारितः ॥६-२७-८॥
ऋक्षवन्तं गिरिश्रेष्ठमध्यास्ते नर्मदां पिबन् । सर्वर्क्षाणामधिपतिर्धूम्रो नामैष यूथपः ॥६-२७-९॥
यवीयानस्य तु भ्राता पश्यैनं पर्वतोपमम् । भ्रात्रा समानो रूपेण विशिष्टस्तु पराक्रमे ॥६-२७-१०॥
स एष जाम्बवान् नाम महायूथपयूथपः । प्रशान्तो गुरुवर्ती च सम्प्रहारेष्वमर्षणः ॥६-२७-११॥
एतेन साह्यं तु महत् कृतं शक्रस्य धीमता । दैवासुरे जाम्बवता लब्धाश्च बहवो वराः ॥६-२७-१२॥
आरुह्य पर्वताग्रेभ्यो महाभ्रविपुलाः शिलाः । मुञ्चन्ति विपुलाकारा न मृत्योरुद्विजन्ति च ॥६-२७-१३॥
राक्षसानां च सदृशाः पिशाचानां च रोमशाः । एतस्य सैन्या बहवो विचरन्त्यमितौजसः ॥६-२७-१४॥
य एनमभिसंरब्धं प्लवमानमवस्थितम् । प्रेक्षन्ते वानराः सर्वे स्थिता यूथपयूथपम् ॥६-२७-१५॥
एष राजन् सहस्राक्षं पर्युपास्ते हरीश्वरः । बलेन बलसंयुक्तो दम्भो नामैष यूथपः ॥६-२७-१६॥
यः स्थितं योजने शैलं गच्छन् पार्श्वेन सेवते । ऊर्ध्वं तथैव कायेन गतः प्राप्नोति योजनम् ॥६-२७-१७॥
यस्मात् तु परमं रूपं चतुष्पात्सु न विद्यते । श्रुतः संनादनो नाम वानराणां पितामहः ॥६-२७-१८॥
येन युद्धं तदा दत्तं रणे शक्रस्य धीमता । पराजयश्च न प्राप्तः सोऽयं यूथपयूथपः ॥६-२७-१९॥
यस्य विक्रममाणस्य शक्रस्येव पराक्रमः । एष गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मना ॥६-२७-२०॥
तदा देवासुरे युद्धे साह्यार्थं त्रिदिवौकसाम् । यत्र वैश्रवणो राजा जम्बूमुपनिषेवते ॥६-२७-२१॥
यो राजा पर्वतेन्द्राणां बहुकिंनरसेविनाम् । विहारसुखदो नित्यं भ्रातुस्ते राक्षसाधिप ॥६-२७-२२॥
तत्रैष रमते श्रीमान् बलवान् वानरोत्तमः । युद्धेष्वकत्थनो नित्यं क्रथनो नाम यूथपः ॥६-२७-२३॥
वृतः कोटिसहस्रेण हरीणां समवस्थितः । एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥६-२७-२४॥
यो गङ्गामनुपर्येति त्रासयन् गजयूथपान् । हस्तिनां वानराणां च पूर्ववैरमनुस्मरन् ॥६-२७-२५॥
एष यूथपतिर्नेता गर्जन् गिरिगुहाशयः । गजान् रोधयते वन्यानारुजंश्च महीरुहान् ॥६-२७-२६॥
हरीणां वाहिनीमुख्यो नदीं हैमवतीमनु । उशीरबीजमाश्रित्य मन्दरं पर्वतोत्तमम् ॥६-२७-२७॥
रमते वानरश्रेष्ठो दिवि शक्र इव स्वयम् । एनं शतसहस्राणां सहस्रमभिवर्तते ॥६-२७-२८॥
वीर्यविक्रमदृप्तानां नर्दतां बाहुशालिनाम् । स एष नेता चैतेषां वानराणां महात्मनाम् ॥६-२७-२९॥
स एष दुर्धरो राजन् प्रमाथी नाम यूथपः । वातेनेवोद्धतं मेघं यमेनमनुपश्यसि ॥६-२७-३०॥
अनीकमपि संरब्धं वानराणां तरस्विनाम् । उद्धूतमरुणाभासं पवनेन समन्ततः ॥६-२७-३१॥
विवर्तमानं बहुशो यत्रैतद्बहुलं रजः । एतेऽसितमुखा घोरा गोलाङ्गूला महाबलाः ॥६-२७-३२॥
शतं शतसहस्राणि दृष्ट्वा वै सेतुबन्धनम् । गोलाङ्गूलं महाराज गवाक्षं नाम यूथपम् ॥६-२७-३३॥
परिवार्याभिनर्दन्ते लङ्कां मर्दितुमोजसा । भ्रमराचरिता यत्र सर्वकालफलद्रुमाः ॥६-२७-३४॥
यं सूर्यस्तुल्यवर्णाभमनुपर्येति पर्वतम् । यस्य भासा सदा भान्ति तद्वर्णा मृगपक्षिणः ॥६-२७-३५॥
यस्य प्रस्थं महात्मानो न त्यजन्ति महर्षयः । सर्वकामफला वृक्षाः सदा फलसमन्विताः ॥६-२७-३६॥
मधूनि च महार्हाणि यस्मिन् पर्वतसत्तमे । तत्रैष रमते राजन् रम्ये काञ्चनपर्वते ॥६-२७-३७॥
मुख्यो वानरमुख्यानां केसरी नाम यूथपः । षष्टिर्गिरिसहस्राणि रम्याः काञ्चनपर्वताः ॥६-२७-३८॥
तेषां मध्ये गिरिवरस्त्वमिवानघ रक्षसाम् । तत्रैके कपिलाः श्वेतास्ताम्रास्या मधुपिङ्गलाः ॥६-२७-३९॥
निवसन्त्यन्तिमगिरौ तीक्ष्णदंष्ट्रा नखायुधाः । सिंहा इव चतुर्दंष्ट्रा व्याघ्रा इव दुरासदाः ॥६-२७-४०॥
सर्वे वैश्वानरसमा ज्वलदाशीविषोपमाः । सुदीर्घाञ्चितलाङ्गूला मत्तमातङ्गसंनिभाः ॥६-२७-४१॥
महापर्वतसंकाशा महाजीमूतनिःस्वनाः । वृत्तपिङ्गलनेत्रा हि महाभीमगतिस्वनाः ॥६-२७-४२॥
मर्दयन्तीव ते सर्वे तस्थुर्लङ्कां समीक्ष्य ते । एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान् ॥६-२७-४३॥
जयार्थी नित्यमादित्यमुपतिष्ठति वीर्यवान् । नाम्ना पृथिव्यां विख्यातो राजन् शतबलीति यः ॥६-२७-४४॥
एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् । विक्रान्तो बलवान् शूरः पौरुषे स्वे व्यवस्थितः ॥६-२७-४५॥
रामप्रियार्थं प्राणानां दयां न कुरुते हरिः । गजो गवाक्षो गवयो नलो नीलश्च वानरः ॥६-२७-४६॥
एकैकमेव योधानां कोटिभिर्दशभिर्वृतः । तथान्ये वानरश्रेष्ठा विन्ध्यपर्वतवासिनः । न शक्यन्ते बहुत्वात् तु संख्यातुं लघुविक्रमाः ॥६-२७-४७॥
सर्वे महाराज महाप्रभावाः सर्वे महाशैलनिकाशकायाः । सर्वे समर्थाः पृथिवीं क्षणेन कर्तुं प्रविध्वस्तविकीर्णशैलाम् ॥६-२७-४८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे हरादिवानरपराक्रमाख्यानम् नाम सप्तविंशः सर्गः ॥६-२७॥