मैन्दादिपराक्रमाख्यानम्

युद्धकाण्डः / मैन्दादिपराक्रमाख्यानम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे मैन्दादिपराक्रमाख्यानम् नाम अष्टाविंशः सर्गः ॥६-२८॥
सारणस्य वचः श्रुत्वा रावणं राक्षसाधिपम् । बलमादिश्य तत् सर्वं शुको वाक्यमथाब्रवीत् ॥६-२८-१॥
स्थितान् पश्यसि यानेतान् मत्तानिव महाद्विपान् । न्यग्रोधानिव गाङ्गेयान् सालान् हैमवतानिव ॥६-२८-२॥
एते दुष्प्रसहा राजन् बलिनः कामरूपिणः । दैत्यदानवसंकाशा युद्धे देवपराक्रमाः ॥६-२८-३॥
एषां कोटिसहस्राणि नव पञ्च च सप्त च । तथा शङ्कुसहस्राणि तथा वृन्दशतानि च ॥६-२८-४॥
एते सुग्रीवसचिवाः किष्किन्धानिलयाः सदा । हरयो देवगन्धर्वैरुत्पन्नाः कामरूपिणः ॥६-२८-५॥
यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देवरूपिणौ । मैन्दश्च द्विविदश्चैव ताभ्यां नास्ति समो युधि ॥६-२८-६॥
ब्रह्मणा समनुज्ञातावमृतप्राशिनावुभौ । आशंसेते यथा लङ्कामेतौ मर्दितुमोजसा ॥६-२८-७॥
यं तु पश्यसि तिष्ठन्तं प्रभिन्नमिव कुञ्जरम् । यो बलात् क्षोभयेत् क्रुद्धः समुद्रमपि वानरः ॥६-२८-८॥
एषोऽभिगन्ता लङ्कायां वैदेह्यास्तव च प्रभो । एनं पश्य पुरा दृष्टं वानरं पुनरागतम् ॥६-२८-९॥
ज्येष्ठः केसरिणः पुत्रो वातात्मज इति श्रुतः । हनूमानिति विख्यातो लङ्घितो येन सागरः ॥६-२८-१०॥
कामरूपो हरिश्रेष्ठो बलरूपसमन्वितः । अनिवार्यगतिश्चैव यथा सततगः प्रभुः ॥६-२८-११॥
उद्यन्तं भास्करं दृष्ट्वा बालः किल बुभुक्षितः । त्रियोजनसहस्रं तु अध्वानमवतीर्य हि ॥६-२८-१२॥
आदित्यमाहरिष्यामि न मे क्षुत् प्रतियास्यति । इति निश्चित्य मनसा पुप्लुवे बलदर्पितः ॥६-२८-१३॥
अनाधृष्यतमं देवमपि देवर्षिराक्षसैः । अनासाद्यैव पतितो भास्करोदयने गिरौ ॥६-२८-१४॥
पतितस्य कपेरस्य हनुरेका शिलातले । किंचिद् भिन्ना दृढहनुर्हनूमानेष तेन वै ॥६-२८-१५॥
सत्यमागमयोगेन ममैष विदितो हरिः । नास्य शक्यं बलं रूपं प्रभावो वानुभाषितुम् ॥६-२८-१६॥
एष आशंसते लङ्कामेको मथितुमोजसा । येन जाज्वल्यतेऽसौ वै धूमकेतुस्तवाद्य वै । लङ्कायां निहितश्चापि कथं विस्मरसे कपिम् ॥६-२८-१७॥
यश्चैषोऽनन्तरः शूरः श्यामः पद्मनिभेक्षणः । इक्ष्वाकूणामतिरथो लोके विश्रुतपौरुषः ॥६-२८-१८॥
यस्मिन् न चलते धर्मो यो धर्मं नातिवर्तते । यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः ॥६-२८-१९॥
यो भिन्द्याद् गगनं बाणैर्मेदिनीं वापि दारयेत् । यस्य मृत्योरिव क्रोधः शक्रस्येव पराक्रमः ॥६-२८-२०॥
यस्य भार्या जनस्थानात् सीता चापि हृता त्वया । स एष रामस्त्वां राजन् योद्धुं समभिवर्तते ॥६-२८-२१॥
यस्यैष दक्षिणे पार्श्वे शुद्धजाम्बूनदप्रभः । विशालवक्षास्ताम्राक्षो नीलकुञ्चितमूर्धजः ॥६-२८-२२॥
एषो हि लक्ष्मणो नाम भ्रातुः प्रियहिते रतः । नये युद्धे च कुशलः सर्वशस्त्रभृतां वरः ॥६-२८-२३॥
अमर्षी दुर्जयो जेता विक्रान्तश्च जयी बली । रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः ॥६-२८-२४॥
नह्येष राघवस्यार्थे जीवितं परिरक्षति । एषैवाशंसते युद्धे निहन्तुं सर्वराक्षसान् ॥६-२८-२५॥
यस्तु सव्यमसौ पक्षं रामस्याश्रित्य तिष्ठति । रक्षोगणपरिक्षिप्तो राजा ह्येष विभीषणः ॥६-२८-२६॥
श्रीमता राजराजेन लङ्कायामभिषेचितः । त्वामसौ प्रतिसंरब्धो युद्धायैषोऽभिवर्तते ॥६-२८-२७॥
यं तु पश्यसि तिष्ठन्तं मध्ये गिरिमिवाचलम् । सर्वशाखामृगेन्द्राणां भर्तारममितौजसम् ॥६-२८-२८॥
तेजसा यशसा बुद्ध्या बलेनाभिजनेन च । यः कपीनतिबभ्राज हिमवानिव पर्वतः ॥६-२८-२९॥
किष्किन्धां यः समध्यास्ते गुहां सगहनद्रुमाम् । दुर्गां पर्वतदुर्गम्यां प्रधानैः सह यूथपैः ॥६-२८-३०॥
यस्यैषा काञ्चनी माला शोभते शतपुष्करा । कान्ता देवमनुष्याणां यस्यां लक्ष्मीः प्रतिष्ठिता ॥६-२८-३१॥
एतां मालां च तारां च कपिराज्यं च शाश्वतम् । सुग्रीवो वालिनं हत्वा रामेण प्रतिपादितः ॥६-२८-३२॥
शतं शतसहस्राणां कोटिमाहुर्मनीषिणः । शतं कोटिसहस्राणां शङ्कुरित्यभिधीयते ॥६-२८-३३॥
शतं शङ्कुसहस्राणां महाशङ्कुरिति स्मृतः । महाशङ्कुसहस्राणां शतं वृन्दमिहोच्यते ॥६-२८-३४॥
शतं वृन्दसहस्राणां महावृन्दमिति स्मृतम् । महावृन्दसहस्राणां शतं पद्ममिहोच्यते ॥६-२८-३५॥
शतं पद्मसहस्राणां महापद्ममिति स्मृतम् । महापद्मसहस्राणां शतं खर्वमिहोच्यते ॥६-२८-३६॥
शतं खर्वसहस्राणां महाखर्वमिति स्मृतम् । महाखर्वसहस्राणां समुद्रमभिधीयते । शतं समुद्रसाहस्रमोघ इत्यभिधीयते ॥६-२८-३७॥
शतमोघसहस्राणां महौघा इति विश्रुतः । एवं कोटिसहस्रेण शङ्कूनां च शतेन च । महाशङ्कुसहस्रेण तथा वृन्दशतेन च ॥६-२८-३८॥
महावृन्दसहस्रेण तथा पद्मशतेन च । महापद्मसहस्रेण तथा खर्वशतेन च ॥६-२८-३९॥
समुद्रेण च तेनैव महौघेन तथैव च एष कोटिमहौघेन समुद्रसदृशेन च ॥६-२८-४०॥
विभीषणेन वीरेण सचिवैः परिवारितः । सुग्रीवो वानरेन्द्रस्त्वां युद्धार्थमनुवर्तते । महाबलवृतो नित्यं महाबलपराक्रमः ॥६-२८-४१॥
इमां महाराज समीक्ष्य वाहिनीमुपस्थितां प्रज्वलितग्रहोपमाम् । ततः प्रयत्नः परमो विधीयतां यथा जयः स्यान्न परैः पराभवः ॥६-२८-४२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे मैन्दादिपराक्रमाख्यानम् नाम अष्टाविंशः सर्गः ॥६-२८॥