कपिबलावेक्षणम्

युद्धकाण्डः / कपिबलावेक्षणम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे कपिबलावेक्षणम् नाम षड्विंशः सर्गः ॥६-२६॥
तद्वचः सत्यमक्लीबं सारणेनाभिभाषितम् । निशम्य रावणो राजा प्रत्यभाषत सारणम् ॥६-२६-१॥
यदि मामभियुञ्जीरन् देवगन्धर्वदानवाः । नैव सीतामहं दद्यां सर्वलोकभयादपि ॥६-२६-२॥
त्वं तु सौम्य परित्रस्तो हरिभिः पीडितो भृशम् । प्रतिप्रदानमद्यैव सीतायाः साधु मन्यसे ॥६-२६-३॥
को हि नाम सपत्नो मां समरे जेतुमर्हति । इत्युक्त्वा परुषं वाक्यं रावणो राक्षसाधिपः ॥६-२६-४॥
आरुरोह ततः श्रीमान् प्रासादं हिमपाण्डुरम् । बहुतालसमुत्सेधं रावणोऽथ दिदृक्षया ॥६-२६-५॥
ताभ्यां चराभ्यां सहितो रावणः क्रोधमूर्च्छितः । पश्यमानः समुद्रं तं पर्वतांश्च वनानि च ॥६-२६-६॥
ददर्श पृथिवीदेशं सुसम्पूर्णं प्लवंगमैः । तदपारमसह्यं च वानराणां महाबलम् ॥६-२६-७॥
आलोक्य रावणो राजा परिपप्रच्छ सारणम् । एषां के वानरा मुख्याः के शूराः के महाबलाः ॥६-२६-८॥
के पूर्वमभिवर्तन्ते महोत्साहाः समन्ततः । केषां शृणोति सुग्रीवः के वा यूथपयूथपाः ॥६-२६-९॥
सारणाचक्ष्व मे सर्वं किंप्रभावाः प्लवंगमाः । सारणो राक्षसेन्द्रस्य वचनं परिपृच्छतः ॥६-२६-१०॥
आबभाषेऽथ मुख्यज्ञो मुख्यांस्तत्र वनौकसः । एष योऽभिमुखो लङ्कां नर्दंस्तिष्ठति वानरः ॥६-२६-११॥
यूथपानां सहस्राणां शतेन परिवारितः । यस्य घोषेण महता सप्राकारा सतोरणा ॥६-२६-१२॥
लङ्का प्रतिहता सर्वा सशैलवनकानना । सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनः ॥६-२६-१३॥
बलाग्रे तिष्ठते वीरो नीलो नामैष यूथपः । बाहू प्रगृह्य यः पद्भ्यां महीं गच्छति वीर्यवान् ॥६-२६-१४॥
लङ्कामभिमुखः कोपादभीक्ष्णं च विजृम्भते । गिरिशृङ्गप्रतीकाशः पद्मकिंजल्कसंनिभः ॥६-२६-१५॥
स्फोटयत्यतिसंरब्धो लाङ्गूलं च पुनः पुनः । यस्य लाङ्गूलशब्देन स्वनन्ति प्रदिशो दश ॥६-२६-१६॥
एष वानरराजेन सुग्रीवेणाभिषेचितः । युवराजोऽङ्गदो नाम त्वामाह्वयति संयुगे ॥६-२६-१७॥
वालिनः सदृशः पुत्रः सुग्रीवस्य सदा प्रियः । राघवार्थे पराक्रान्तः शक्रार्थे वरुणो यथा ॥६-२६-१८॥
एतस्य सा मतिः सर्वा यद् दृष्टा जनकात्मजा । हनूमता वेगवता राघवस्य हितैषिणा ॥६-२६-१९॥
बहूनि वानरेन्द्राणामेष यूथानि वीर्यवान् । परिगृह्याभियाति त्वां स्वेनानीकेन मर्दितुम् ॥६-२६-२०॥
अनुवालिसुतस्यापि बलेन महता वृतः । वीरस्तिष्ठति संग्रामे सेतुहेतुरयं नलः ॥६-२६-२१॥
ये तु विष्टभ्य गात्राणि क्ष्वेडयन्ति नदन्ति च । उत्थाय च विजृम्भन्ते क्रोधेन हरिपुङ्गवाः ॥६-२६-२२॥
एते दुष्प्रसहा घोराश्चण्डाश्चण्डपराक्रमाः । अष्टौ शतसहस्राणि दशकोटिशतानि च । य एनमनुगच्छन्ति वीराश्चन्दनवासिनः ॥६-२६-२३॥
एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् । श्वेतो रजतसंकाशश्चपलो भीमविक्रमः ॥६-२६-२४॥
बुद्धिमान् वानरः शूरस्त्रिषु लोकेषु विश्रुतः । तूर्णं सुग्रीवमागम्य पुनर्गच्छति वानरः ॥६-२६-२५॥
विभजन् वानरीं सेनामनीकानि प्रहर्षयन् । यः पुरा गोमतीतीरे रम्यं पर्येति पर्वतम् ॥६-२६-२६॥
नाम्ना संरोचनो नाम नानानगयुतो गिरिः । तत्र राज्यं प्रशास्त्येष कुमुदो नाम यूथपः ॥६-२६-२७॥
योऽसौ शतसहस्राणि सहर्षं परिकर्षति । यस्य वाला बहुव्यामा दीर्घलाङ्गूलमाश्रिताः ॥६-२६-२८॥
ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरदर्शनाः । अदीनो वानरश्चण्डः संग्राममभिकाङ्क्षति । एषोऽप्याशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥६-२६-२९॥
यस्त्वेष सिंहसंकाशः कपिलो दीर्घकेसरः । निभृतः प्रेक्षते लङ्कां दिधक्षन्निव चक्षुषा ॥६-२६-३०॥
विन्ध्यं कृष्णगिरिं सह्यं पर्वतं च सुदर्शनम् । राजन् सततमध्यास्ते स रम्भो नाम यूथपः । शतं शतसहस्राणां त्रिंशच्च हरिपुङ्गवाः ॥६-२६-३१॥
यं यान्तं वानरा घोराश्चण्डाश्चण्डपराक्रमाः । परिवार्यानुगच्छन्ति लङ्कां मर्दितुमोजसा ॥६-२६-३२॥
यस्तु कर्णौ विवृणुते जृम्भते च पुनः पुनः । न तु संविजते मृत्योर्न च सेनां प्रधावति ॥६-२६-३३॥
प्रकम्पते च रोषेण तिर्यक् च पुनरीक्षते । पश्य लाङ्गूलविक्षेपं क्ष्वेडत्येष महाबलः ॥६-२६-३४॥
महाजवो वीतभयो रम्यं साल्वेयपर्वतम् । राजन् सततमध्यास्ते शरभो नाम यूथपः ॥६-२६-३५॥
एतस्य बलिनः सर्वे विहारा नाम यूथपाः । राजन् शतसहस्राणि चत्वारिंशत्तथैव च ॥६-२६-३६॥
यस्तु मेघ इवाकाशं महानावृत्य तिष्ठति । मध्ये वानरवीराणां सुराणामिव वासवः ॥६-२६-३७॥
भेरीणामिव संनादो यस्यैष श्रूयते महान् । घोषः शाखामृगेन्द्राणां संग्राममभिकाङ्क्षताम् ॥६-२६-३८॥
एष पर्वतमध्यास्ते पारियात्रमनुत्तमम् । युद्धे दुष्प्रसहो नित्यं पनसो नाम यूथपः ॥६-२६-३९॥
एनं शतसहस्राणां शतार्धं पर्युपासते । यूथपा यूथपश्रेष्ठं येषां यूथानि भागशः ॥६-२६-४०॥
यस्तु भीमां प्रवल्गन्तीं चमूं तिष्ठति शोभयन् । स्थितां तीरे समुद्रस्य द्वितीय इव सागरः ॥६-२६-४१॥
एष दर्दुरसंकाशो विनतो नाम यूथपः । पिबंश्चरति यो वेणां नदीनामुत्तमां नदीम् ॥६-२६-४२॥
षष्टिः शतसहस्राणि बलमस्य प्लवंगमाः । त्वामाह्वयति युद्धाय क्रोधनो नाम वानरः ॥६-२६-४३॥
विक्रान्ता बलवन्तश्च यथा यूथानि भागशः । यस्तु गैरिकवर्णाभं वपुः पुष्यति वानरः ॥६-२६-४४॥
अवमत्य सदा सर्वान् वानरान् बलदर्पितः । गवयो नाम तेजस्वी त्वां क्रोधादभिवर्तते ॥६-२६-४५॥
एनं शतसहस्राणि सप्ततिः पर्युपासते । एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥६-२६-४६॥
एते दुष्प्रसहा वीरा येषां संख्या न विद्यते । यूथपा यूथपश्रेष्ठास्तेषां यूथानि भागशः ॥६-२६-४७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे कपिबलावेक्षणम् नाम षड्विंशः सर्गः ॥६-२६॥