शुकसारणप्रषेणादिकम्

युद्धकाण्डः / शुकसारणप्रषेणादिकम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे शुकसारणप्रषेणादिकम् नाम पञ्चविंशः सर्गः ॥६-२५॥
सबले सागरं तीर्णे रामे दशरथात्मजे । अमात्यौ रावणः श्रीमानब्रवीच्छुकसारणौ ॥६-२५-१॥
समग्रं सागरं तीर्णं दुस्तरं वानरं बलम् । अभूतपूर्वं रामेण सागरे सेतुबन्धनम् ॥६-२५-२॥
सागरे सेतुबन्धं तं न श्रद्दध्यां कथंचन । अवश्यं चापि संख्येयं तन्मया वानरं बलम् ॥६-२५-३॥
भवन्तौ वानरं सैन्यं प्रविश्यानुपलक्षितौ । परिमाणं च वीर्यं च ये च मुख्याः प्लवंगमाः ॥६-२५-४॥
मन्त्रिणो ये च रामस्य सुग्रीवस्य च सम्मताः । ये पूर्वमभिवर्तन्ते ये च शूराः प्लवंगमाः ॥६-२५-५॥
स च सेतुर्यथा बद्धः सागरे सलिलार्णवे । निवेशं च यथा तेषां वानराणां महात्मनाम् ॥६-२५-६॥
रामस्य व्यवसायं च वीर्यं प्रहरणानि च । लक्ष्मणस्य च वीरस्य तत्त्वतो ज्ञातुमर्हथः ॥६-२५-७॥
कश्च सेनापतिस्तेषां वानराणां महात्मनाम् । तच्च ज्ञात्वा यथातत्त्वं शीघ्रमागन्तुमर्हथः ॥६-२५-८॥
इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ । हरिरूपधरौ वीरौ प्रविष्टौ वानरं बलम् ॥६-२५-९॥
ततस्तद् वानरं सैन्यमचिन्त्यं लोमहर्षणम् । संख्यातुं नाध्यगच्छेतां तदा तौ शुकसारणौ ॥६-२५-१०॥
तत् स्थितं पर्वताग्रेषु निर्झरेषु गुहासु च । समुद्रस्य च तीरेषु वनेषूपवनेषु च । तरमाणं च तीर्णं च तर्तुकामं च सर्वशः ॥६-२५-११॥
निविष्टं निविशच्चैव भीमनादं महाबलम् । तद्बलार्णवमक्षोभ्यं ददृशाते निशाचरौ ॥६-२५-१२॥
तौ ददर्श महातेजाः प्रतिच्छन्नौ विभीषणः । आचचक्षे स रामाय गृहीत्वा शुकसारणौ ॥६-२५-१३॥
तस्यैतौ राक्षसेन्द्रस्य मन्त्रिणौ शुकसारणौ । लङ्कायाः समनुप्राप्तौ चारौ परपुरंजय ॥६-२५-१४॥
तौ दृष्ट्वा व्यथितौ रामं निराशौ जीविते तथा । कृताञ्जलिपुटौ भीतौ वचनं चेदमूचतुः ॥६-२५-१५॥
आवामिहागतौ सौम्य रावणप्रहितावुभौ । परिज्ञातुं बलं सर्वं तदिदं रघुनन्दन ॥६-२५-१६॥
तयोस्तद् वचनं श्रुत्वा रामो दशरथात्मजः । अब्रवीत् प्रहसन् वाक्यं सर्वभूतहिते रतः ॥६-२५-१७॥
यदि दृष्टं बलं सर्वं वयं वा सुसमाहिताः । यथोक्तं वा कृतं कार्यं छन्दतः प्रतिगम्यताम् ॥६-२५-१८॥
अथ किंचिददृष्टं वा भूयस्तद् द्रष्टुमर्हथः । विभीषणो वा कात्स्र्न्येन पुनः संदर्शयिष्यति ॥६-२५-१९॥
न चेदं ग्रहणं प्राप्य भेतव्यं जीवितं प्रति । न्यस्तशस्त्रौ गृहीतौ च न दूतौ वधमर्हथः ॥६-२५-२०॥
प्रच्छन्नौ च विमुञ्चेमौ चारौ रात्रिंचरावुभौ । शत्रुपक्षस्य सततं विभीषण विकर्षिणौ ॥६-२५-२१॥
प्रविश्य महतीं लङ्कां भवद्भ्यां धनदानुजः । वक्तव्यो रक्षसां राजा यथोक्तं वचनं मम ॥६-२५-२२॥
यद् बलं त्वं समाश्रित्य सीतां मे हृतवानसि । तद् दर्शय यथाकामं ससैन्यश्च सबान्धवः ॥६-२५-२३॥
श्वः काल्ये नगरीं लङ्कां सप्राकारां सतोरणाम् । रक्षसां च बलं पश्य शरैर्विध्वंसितं मया ॥६-२५-२४॥
क्रोधं भीममहं मोक्ष्ये ससैन्ये त्वयि रावण । श्वः काल्ये वज्रवान् वज्रं दानवेष्विव वासवः ॥६-२५-२५॥
इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ । जयेति प्रतिनन्द्यैनं राघवं धर्मवत्सलम् ॥६-२५-२६॥
आगम्य नगरीं लङ्कामब्रूतां राक्षसाधिपम् । विभीषणगृहीतौ तु वधार्थं राक्षसेश्वर ॥६-२५-२७॥
दृष्ट्वा धर्मात्मना मुक्तौ रामेणामिततेजसा । एकस्थानगता यत्र चत्वारः पुरुषर्षभाः ॥६-२५-२८॥
लोकपालसमाः शूराः कृतास्त्रा दृढविक्रमाः । रामो दाशरथिः श्रीमाल्ँलक्ष्मणश्च विभीषणः ॥६-२५-२९॥
सुग्रीवश्च महातेजा महेन्द्रसमविक्रमः । एते शक्ताः पुरीं लङ्कां सप्राकारां सतोरणाम् ॥६-२५-३०॥
उत्पाट्य संक्रामयितुं सर्वे तिष्ठन्तु वानराः । यादृशं तद्धि रामस्य रूपं प्रहरणानि च ॥६-२५-३१॥
वधिष्यति पुरीं लङ्कामेकस्तिष्ठन्तु ते त्रयः । रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी । बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः ॥६-२५-३२॥
प्रहृष्टयोधा ध्वजिनी महात्मनां वनौकसां सम्प्रति योद्धुमिच्छताम् । अलं विरोधेन शमो विधीयतां प्रदीयतां दाशरथाय मैथिली ॥६-२५-३३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे शुकसारणप्रषेणादिकम् नाम पञ्चविंशः सर्गः ॥६-२५॥