रावणप्रतिज्ञा
युद्धकाण्डः / रावणप्रतिज्ञा
Script
Translation
Previous
लङ्काभिषेणनम्
Next
शुकसारणप्रषेणादिकम्
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे रावणप्रतिज्ञा नाम चतुर्विंशः सर्गः ॥६-२४॥
सा वीरसमिती राज्ञा विरराज व्यवस्थिता ।
शशिना शुभनक्षत्रा पौर्णमासीव शारदी ॥६-२४-१॥
प्रचचाल च वेगेन त्रस्ता चैव वसुंधरा ।
पीड्यमाना बलौघेन तेन सागरवर्चसा ॥६-२४-२॥
ततः शुश्रुवुराक्रुष्टं लङ्कायां काननौकसः ।
भेरीमृदङ्गसंघुष्टं तुमुलं लोमहर्षणम् ॥६-२४-३॥
बभूवुस्तेन घोषेण संहृष्टा हरियूथपाः ।
अमृष्यमाणास्तद् घोषं विनेदुर्घोषवत्तरम् ॥६-२४-४॥
राक्षसास्तत् प्लवंगानां शुश्रुवुस्तेऽपि गर्जितम् ।
नर्दतामिव दृप्तानां मेघानामम्बरे स्वनम् ॥६-२४-५॥
दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम् ।
जगाम मनसा सीतां दूूयमानेन चेतसा ॥६-२४-६॥
अत्र सा मृगशावाक्षी रावणेनोपरुध्यते ।
अभिभूता ग्रहेणेव लोहिताङ्गेन रोहिणी ॥६-२४-७॥
दीर्घमुष्णं च निःश्वस्य समुद्वीक्ष्य च लक्ष्मणम् ।
उवाच वचनं वीरस्तत्कालहितमात्मनः ॥६-२४-८॥
आलिखन्तीमिवाकाशमुत्थितां पश्य लक्ष्मण ।
मनसेव कृतां लङ्कां नगाग्रे विश्वकर्मणा ॥६-२४-९॥
विमानैर्बहुभिर्लङ्का संकीर्णा रचिता पुरा ।
विष्णोः पदमिवाकाशं छादितं पाण्डुभिर्घनैः ॥६-२४-१०॥
पुष्पितैः शोभिता लङ्का वनैश्चित्ररथोपमैः ।
नानापतगसंघुष्टफलपुष्पोपगैः शुभैः ॥६-२४-११॥
पश्य मत्तविहंगानि प्रलीनभ्रमराणि च ।
कोकिलाकुलखण्डानि दोधवीति शिवोऽनिलः ॥६-२४-१२॥
इति दाशरथी रामो लक्ष्मणं समभाषत ।
बलं च तत्र विभजच्छास्त्रदृष्टेन कर्मणा ॥६-२४-१३॥
शशास कपिसेनां तां बलादादाय वीर्यवान् ।
अङ्गदः सह नीलेन तिष्ठेदुरसि दुर्जयः ॥६-२४-१४॥
तिष्ठेद् वानरवाहिन्या वानरौघसमावृतः ।
आश्रितो दक्षिणं पार्श्वमृषभो नाम वानरः ॥६-२४-१५॥
गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः ।
तिष्ठेद् वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः ॥६-२४-१६॥
मूर्ध्नि स्थास्याम्यहं यत्तो लक्ष्मणेन समन्वितः ।
जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः ॥६-२४-१७॥
ऋक्षमुख्या महात्मानः कुक्षिं रक्षन्तु ते त्रयः ।
जघनं कपिसेनायाः कपिराजोऽभिरक्षतु ।
पश्चार्धमिव लोकस्य प्रचेतास्तेजसा वृतः ॥६-२४-१८॥
सुविभक्तमहाव्यूहा महावानररक्षिता ।
अनीकिनी सा विबभौ यथा द्यौः साभ्रसम्प्लवा ॥६-२४-१९॥
प्रगृह्य गिरिशृङ्गाणि महतश्च महीरुहान् ।
आसेदुर्वानरा लङ्कां मिमर्दयिषवो रणे ॥६-२४-२०॥
शिखरैर्विकिरामैनां लङ्कां मुष्टिभिरेव वा ।
इति स्म दधिरे सर्वे मनांसि हरिपुङ्गवाः ॥६-२४-२१॥
ततो रामो महातेजाः सुग्रीवमिदमब्रवीत् ।
सुविभक्तानि सैन्यानि शुक एष विमुच्यताम् ॥६-२४-२२॥
रामस्य तु वचः श्रुत्वा वानरेन्द्रो महाबलः ।
मोचयामास तं दूतं शुकं रामस्य शासनात् ॥६-२४-२३॥
मोचितो रामवाक्येन वानरैश्च निपीडितः ।
शुकः परमसंत्रस्तो रक्षोधिपमुपागमत् ॥६-२४-२४॥
रावणः प्रहसन्नेव शुकं वाक्यमुवाच ह ।
किमिमौ ते सितौ पक्षौ लूनपक्षश्च दृश्यसे ॥६-२४-२५॥
कच्चिन्नानेकचित्तानां तेषां त्वं वशमागतः ।
ततः स भयसंविग्नस्तेन राज्ञाभिचोदितः ।
वचनं प्रत्युवाचेदं राक्षसाधिपमुत्तमम् ॥६-२४-२६॥
सागरस्योत्तरे तीरेऽब्रुवं ते वचनं तथा ।
यथा संदेशमक्लिष्टं सान्त्वयन् श्लक्ष्णया गिरा ॥६-२४-२७॥
क्रुद्धैस्तैरहमुत्प्लुत्य दृष्टमात्रः प्लवंगमैः ।
गृहीतोऽस्म्यपि चारब्धो हन्तुं लोप्तुं च मुष्टिभिः ॥६-२४-२८॥
न ते संभाषितुं शक्याः सम्प्रश्नोऽत्र न विद्यते ।
प्रकृत्या कोपनास्तीक्ष्णा वानरा राक्षसाधिप ॥६-२४-२९॥
स च हन्ता विराधस्य कबन्धस्य खरस्य च ।
सुग्रीवसहितो रामः सीतायाः पदमागतः ॥६-२४-३०॥
स कृत्वा सागरे सेतुं तीर्त्वा च लवणोदधिम् ।
एष रक्षांसि निर्धूय धन्वी तिष्ठति राघवः ॥६-२४-३१॥
ऋक्षवानरसङ्घानामनीकानि सहस्रशः ।
गिरिमेघनिकाशानां छादयन्ति वसुंधराम् ॥६-२४-३२॥
राक्षसानां बलौघस्य वानरेन्द्रबलस्य च ।
नैतयोर्विद्यते संधिर्देवदानवयोरिव ॥६-२४-३३॥
पुरा प्राकारमायान्ति क्षिप्रमेकतरं कुरु ।
सीतां चास्मै प्रयच्छाशु युद्धं वापि प्रदीयताम् ॥६-२४-३४॥
शुकस्य वचनं श्रुत्वा रावणो वाक्यमब्रवीत् ।
रोषसंरक्तनयनो निर्दहन्निव चक्षुषा ॥६-२४-३५॥
यदि मां प्रति युद्धेरन् देवगन्धर्वदानवाः ।
नैव सीतां प्रदास्यामि सर्वलोकभयादपि ॥६-२४-३६॥
कदा समभिधावन्त मामका राघवं शराः ।
वसन्ते पुष्पितं मत्ता भ्रमरा इव पादपम् ॥६-२४-३७॥
कदा शोणितदिग्धाङ्गं दीप्तैः कार्मुकविच्युतैः ।
शरैरादीपयिष्यामि उल्काभिरिव कुञ्जरम् ॥६-२४-३८॥
तच्चास्य बलमादास्ये बलेन महता वृतः ।
ज्योतिषामिव सर्वेषां प्रभामुद्यन् दिवाकरः ॥६-२४-३९॥
सागरस्येव मे वेगो मारुतस्येव मे बलम् ।
न च दाशरथिर्वेद तेन मां योद्धुमिच्छति ॥६-२४-४०॥
न मे तूणीशयान् बाणान् सविषानिव पन्नगान् ।
रामः पश्यति संग्रामे तेन मां योद्धुमिच्छति ॥६-२४-४१॥
न जानाति पुरा वीर्यं मम युद्धे स राघवः ।
मम चापमयीं वीणां शरकोणैः प्रवादिताम् ॥६-२४-४२॥
ज्याशब्दतुमुलां घोरामार्तगीतमहास्वनाम् ।
नाराचतलसंनादां नदीमहितवाहिनीम् ।
अवगाह्य महारङ्गं वादयिष्याम्यहं रणे ॥६-२४-४३॥
न वासवेनापि सहस्रचक्षुषा युद्धेऽस्मि शक्यो वरुणेन वा स्वयम् ।
यमेन वा धर्षयितुं शराग्निना महाहवे वैश्रवणेन वा पुनः ॥६-२४-४४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे रावणप्रतिज्ञा नाम चतुर्विंशः सर्गः ॥६-२४॥
Previous
लङ्काभिषेणनम्
Next
शुकसारणप्रषेणादिकम्