लङ्काभिषेणनम्
युद्धकाण्डः / लङ्काभिषेणनम्
Script
Translation
Previous
सेतुबन्धः
Next
रावणप्रतिज्ञा
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे लङ्काभिषेणनम् नाम त्रयोविंशः सर्गः ॥६-२३॥
निमित्तानि निमित्तज्ञो दृष्ट्वा लक्ष्मणपूर्वजः ।
सौमित्रिं सम्परिष्वज्य इदं वचनमब्रवीत् ॥६-२३-१॥
परिगृह्योदकं शीतं वनानि फलवन्ति च ।
बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण ॥६-२३-२॥
लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम् ।
प्रबर्हणं प्रवीराणामृक्षवानररक्षसाम् ॥६-२३-३॥
वाताश्च कलुषा वान्ति कम्पते च वसुंधरा ।
पर्वताग्राणि वेपन्ते पतन्ति च महीरुहाः ॥६-२३-४॥
मेघाः क्रव्यादसंकाशाः परुषाः परुषस्वनाः ।
क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः ॥६-२३-५॥
रक्तचन्दनसंकाशा संध्या परमदारुणा ।
ज्वलतः प्रपतत्येतदादित्यादग्निमण्डलम् ॥६-२३-६॥
दीना दीनस्वराः क्रूराः सर्वतो मृगपक्षिणः ।
प्रत्यादित्यं विनर्दन्ति जनयन्तो महद्भयम् ॥६-२३-७॥
रजन्यामप्रकाशस्तु संतापयति चन्द्रमाः ।
कृष्णरक्तांशुपर्यन्तो लोकक्षय इवोदितः ॥६-२३-८॥
ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषस्तु लोहितः ।
आदित्ये विमले नीलं लक्ष्म लक्ष्मण दृश्यते ॥६-२३-९॥
रजसा महता चापि नक्षत्राणि हतानि च ।
युगान्तमिव लोकानां पश्य शंसन्ति लक्ष्मण ॥६-२३-१०॥
काकाः श्येनास्तथा नीचा गृध्राः परिपतन्ति च ।
शिवाश्चाप्यशुभान् नादान् नदन्ति सुमहाभयान् ॥६-२३-११॥
शैलैः शूलैश्च खड्गैश्च विमुक्तैः कपिराक्षसैः ।
भविष्यत्यावृता भूमिर्मांसशोणितकर्दमा ॥६-२३-१२॥
क्षिप्रमद्यैव दुर्धर्षां पुरीं रावणपालिताम् ।
अभियाम जवेनैव सर्वैर्हरिभिरावृताः ॥६-२३-१३॥
इत्येवमुक्त्वा धन्वी स रामः संग्रामधर्षणः ।
प्रतस्थे पुरतो रामो लङ्कामभिमुखो विभुः ॥६-२३-१४॥
सविभीषणसुग्रीवाः सर्वे ते वानरर्षभाः ।
प्रतस्थिरे विनर्दन्तो धृतानां द्विषतां वधे ॥६-२३-१५॥
राघवस्य प्रियार्थं तु सुतरां वीर्यशालिनाम् ।
हरीणां कर्मचेष्टाभिस्तुतोष रघुनन्दनः ॥६-२३-१६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे लङ्काभिषेणनम् नाम त्रयोविंशः सर्गः ॥६-२३॥
Previous
सेतुबन्धः
Next
रावणप्रतिज्ञा