सेतुबन्धः

युद्धकाण्डः / सेतुबन्धः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे सेतुबन्धः नाम द्वाविंशः सर्गः ॥६-२२॥
अथोवाच रघुश्रेष्ठः सागरं दारुणं वचः । अद्य त्वां शोषयिष्यामि सपातालं महार्णव ॥६-२२-१॥
शरनिर्दग्धतोयस्य परिशुष्कस्य सागर । मया निहतसत्त्वस्य पांसुरुत्पद्यते महान् ॥६-२२-२॥
मत्कार्मुकविसृष्टेन शरवर्षेण सागर । परं तीरं गमिष्यन्ति पद्भिरेव प्लवंगमाः ॥६-२२-३॥
विचिन्वन्नाभिजानासि पौरुषं नापि विक्रमम् । दानवालय संतापं मत्तो नाम गमिष्यसि ॥६-२२-४॥
ब्राह्मेणास्त्रेण संयोज्य ब्रह्मदण्डनिभं शरम् । संयोज्य धनुषि श्रेष्ठे विचकर्ष महाबलः ॥६-२२-५॥
तस्मिन् विकृष्टे सहसा राघवेण शरासने । रोदसी सम्पफालेव पर्वताश्च चकम्पिरे ॥६-२२-६॥
तमश्च लोकमावव्रे दिशश्च न चकाशिरे । प्रतिचुक्षुभिरे चाशु सरांसि सरितस्तथा ॥६-२२-७॥
तिर्यक् च सह नक्षत्रैः संगतौ चन्द्रभास्करौ । भास्करांशुभिरादीप्तं तमसा च समावृतम् ॥६-२२-८॥
प्रचकाशे तदाऽऽकाशमुल्काशतविदीपितम् । अन्तरिक्षाच्च निर्घाता निर्जग्मुरतुलस्वनाः ॥६-२२-९॥
वपुःप्रकर्षेण ववुर्दिव्यमारुतपङ्क्तयः । बभञ्ज च तदा वृक्षाञ्जलदानुद्वहन्मुहुः ॥६-२२-१०॥
आरुजंश्चैव शैलाग्रान् शिखराणि बभञ्ज च । दिवि च स्म महामेघाः संहताः समहास्वनाः ॥६-२२-११॥
मुमुचुर्वैद्युतानग्नींस्ते महाशनयस्तदा । यानि भूतानि दृश्यानि चुक्रुशुश्चाशनेः समम् ॥६-२२-१२॥
अदृश्यानि च भूतानि मुमुचुर्भैरवस्वनम् । शिश्यिरे चाभिभूतानि संत्रस्तान्युद्विजन्ति च ॥६-२२-१३॥
सम्प्रविव्यथिरे चापि न च पस्पन्दिरे भयात् । सह भूतैः सतोयोर्मिः सनागः सहराक्षसः ॥६-२२-१४॥
सहसाभूत् ततो वेगाद् भीमवेगो महोदधिः । योजनं व्यतिचक्राम वेलामन्यत्र सम्प्लवात् ॥६-२२-१५॥
तं तथा समतिक्रान्तं नातिचक्राम राघवः । समुद्धतममित्रघ्नो रामो नदनदीपतिम् ॥६-२२-१६॥
ततो मध्यात् समुद्रस्य सागरः स्वयमुत्थितः । उदयाद्रिमहाशैलान्मेरोरिव दिवाकरः ॥६-२२-१७॥
पन्नगैः सह दीप्तास्यैः समुद्रः प्रत्यदृश्यत । स्निग्धवैदूर्यसंकाशो जाम्बूनदविभूषणः ॥६-२२-१८॥
रक्तमाल्याम्बरधरः पद्मपत्रनिभेक्षणः । सर्वपुष्पमयीं दिव्यां शिरसा धारयन् स्रजम् ॥६-२२-१९॥
जातरूपमयैश्चैव तपनीयविभूषणैः । आत्मजानां च रत्नानां भूषितो भूषणोत्तमैः ॥६-२२-२०॥
धातुभिर्मण्डितः शैलो विविधैर्हिमवानिव । एकावलीमध्यगतं तरलं पाण्डरप्रभम् ॥६-२२-२१॥
विपुलेनोरसा बिभ्रत्कौस्तुभस्य सहोदरम् । आघूर्णिततरङ्गौघः कालिकानिलसंकुलः ॥६-२२-२२॥
गङ्गासिन्धुप्रधानाभिरापगाभिः समावृतः । उद्वर्तितमहाग्राहः सम्भ्रान्तोरगराक्षसः ॥६-२२-२३॥
देवतानां सुरूपाभिर्नानारूपाभिरीश्वरः । सागरः समुपक्रम्य पूर्वमामन्त्र्य वीर्यवान् ॥६-२२-२४॥
अब्रवीत् प्राञ्जलिर्वाक्यं राघवं शरपाणिनम् ॥६-२२-२५॥
पृथिवी वायुराकाशमापो ज्योतिश्च राघव । स्वभावे सौम्य तिष्ठन्ति शाश्वतं मार्गमाश्रिताः ॥६-२२-२६॥
तत्स्वभावो ममाप्येष यदगाधोऽहमप्लवः । विकारस्तु भवेद् गाध एतत् ते प्रवदाम्यहम् ॥६-२२-२७॥
न कामान्न च लोभाद् वा न भयात् पार्थिवात्मज । ग्राहनक्राकुलजलं स्तम्भयेयं कथंचन ॥६-२२-२८॥
विधास्ये येन गन्तासि विषहिष्येऽप्यहं तथा । न ग्राहा विधमिष्यन्ति यावत्सेना तरिष्यति । हरीणां तरणे राम करिष्यामि यथा स्थलम् ॥६-२२-२९॥
तमब्रवीत् तदा रामः शृणु मे वरुणालय । अमोघोऽयं महाबाणः कस्मिन् देशे निपात्यताम् ॥६-२२-३०॥
रामस्य वचनं श्रुत्वा तं च दृष्ट्वा महाशरम् । महोदधिर्महातेजा राघवं वाक्यमब्रवीत् ॥६-२२-३१॥
उत्तरेणावकाशोऽस्ति कश्चित् पुण्यतरो मम । द्रुमकुल्य इति ख्यातो लोके ख्यातो यथा भवान् ॥६-२२-३२॥
उग्रदर्शनकर्माणो बहवस्तत्र दस्यवः । आभीरप्रमुखाः पापाः पिबन्ति सलिलं मम ॥६-२२-३३॥
तैर्न तत्स्पर्शनं पापं सहेयं पापकर्मभिः । अमोघः क्रियतां राम अयं तत्र शरोत्तमः ॥६-२२-३४॥
तस्य तद् वचनं श्रुत्वा सागरस्य महात्मनः । मुमोच तं शरं दीप्तं परं सागरदर्शनात् ॥६-२२-३५॥
तेन तन्मरुकान्तारं पृथिव्यां किल विश्रुतम् । निपातितः शरो यत्र वज्राशनिसमप्रभः ॥६-२२-३६॥
ननाद च तदा तत्र वसुधा शल्यपीडिता । तस्माद् व्रणमुखात् तोयमुत्पपात रसातलात् ॥६-२२-३७॥
स बभूव तदा कूपो व्रण इत्येव विश्रुतः । सततं चोत्थितं तोयं समुद्रस्येव दृश्यते ॥६-२२-३८॥
अवदारणशब्दश्च दारुणः समपद्यत । तस्मात् तद् बाणपातेन अपः कुक्षिष्वशोषयत् ॥६-२२-३९॥
विख्यातं त्रिषु लोकेषु मरुकान्तारमेव च । शोषयित्वा तु तं कुक्षिं रामो दशरथात्मजः ॥६-२२-४०॥
वरं तस्मै ददौ विद्वान् मरवेऽमरविक्रमः ॥६-२२-४१॥
पशव्यश्चाल्परोगश्च फलमूलरसायुतः । बहुस्नेहो बहुक्षीरः सुगन्धिर्विविधौषधिः ॥६-२२-४२॥
एवमेतैश्च संयुक्तो बहुभिः संयुतो मरुः । रामस्य वरदानाच्च शिवः पन्था बभूव ह ॥६-२२-४३॥
तस्मिन् दग्धे तदा कुक्षौ समुद्रः सरितां पतिः । राघवं सर्वशास्त्रज्ञमिदं वचनमब्रवीत् ॥६-२२-४४॥
अयं सौम्य नलो नाम तनयो विश्वकर्मणः । पित्रा दत्तवरः श्रीमान् प्रीतिमान् विश्वकर्मणः ॥६-२२-४५॥
एष सेतुं महोत्साहः करोतु मयि वानरः । तमहं धारयिष्यामि यथा ह्येष पिता तथा ॥६-२२-४६॥
एवमुक्त्वोदधिर्नष्टः समुत्थाय नलस्ततः । अब्रवीद् वानरश्रेष्ठो वाक्यं रामं महाबलम् ॥६-२२-४७॥
अहं सेतुं करिष्यामि विस्तीर्णे मकरालये । पितुः सामर्थ्यमासाद्य तत्त्वमाह महोदधिः ॥६-२२-४८॥
दण्ड एव वरो लोके पुरुषस्येति मे मतिः । धिक् क्षमामकृतज्ञेषु सान्त्वं दानमथापि वा ॥६-२२-४९॥
अयं हि सागरो भीमः सेतुकर्मदिदृक्षया । ददौ दण्डभयाद् गाधं राघवाय महोदधिः ॥६-२२-५०॥
मम मातुर्वरो दत्तो मन्दरे विश्वकर्मणा । मया तु सदृशः पुत्रस्तव देवि भविष्यति ॥६-२२-५१॥
औरसस्तस्य पुत्रोऽहं सदृशो विश्वकर्मणा । स्मारितोऽस्म्यहमेतेन तत्त्वमाह महोदधिः । न चाप्यहमनुक्तो वः प्रब्रूयामात्मनो गुणान् ॥६-२२-५२॥
समर्थश्चाप्यहं सेतुं कर्तुं वै वरुणालये । तस्मादद्यैव बध्नन्तु सेतुं वानरपुङ्गवाः ॥६-२२-५३॥
ततो विसृष्टा रामेण सर्वतो हरिपुङ्गवाः । उत्पेततुर्महारण्यं हृष्टाः शतसहस्रशः ॥६-२२-५४॥
ते नगान् नगसंकाशाः शाखामृगगणर्षभाः । बभञ्जुः पादपांस्तत्र प्रचकर्षुश्च सागरम् ॥६-२२-५५॥
ते सालैश्चाश्वकर्णैश्च धवैर्वंशैश्च वानराः । कुटजैरर्जुनैस्तालैस्तिलकैस्तिनिशैरपि ॥६-२२-५६॥
बिल्वकैः सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः । चूतैश्चाशोकवृक्षैश्च सागरं समपूरयन् ॥६-२२-५७॥
समूलांश्च विमूलांश्च पादपान् हरिसत्तमाः । इन्द्रकेतूनिवोद्यम्य प्रजह्रुर्वानरास्तरून् ॥६-२२-५८॥
तालान् दाडिमगुल्मांश्च नारिकेलविभीतकान् । करीरान् बकुलान् निम्बान् समाजह्रुरितस्ततः ॥६-२२-५९॥
हस्तिमात्रान् महाकायाः पाषाणांश्च महाबलाः । पर्वतांश्च समुत्पाट्य यन्त्रैः परिवहन्ति च ॥६-२२-६०॥
प्रक्षिप्यमाणैरचलैः सहसा जलमुद्धृतम् । समुत्ससर्प चाकाशमवासर्पत् ततः पुनः ॥६-२२-६१॥
समुद्रं क्षोभयामासुर्निपतन्तः समन्ततः । सूत्राण्यन्ये प्रगृह्णन्ति ह्यायतं शतयोजनम् ॥६-२२-६२॥
नलश्चक्रे महासेतुं मध्ये नदनदीपतेः । स तदा क्रियते सेतुर्वानरैर्घोरकर्मभिः ॥६-२२-६३॥
दण्डानन्ये प्रगृह्णन्ति विचिन्वन्ति तथापरे । वानरैः शतशस्तत्र रामस्याज्ञापुरःसरैः ॥६-२२-६४॥
मेघाभैः पर्वताभैश्च तृणैः काष्ठैर्बबन्धिरे । पुष्पिताग्रैश्च तरुभिः सेतुं बघ्नन्ति वानराः ॥६-२२-६५॥
पाषाणांश्च गिरिप्रख्यान् गिरीणां शिखराणि च । दृश्यन्ते परिधावन्तो गृह्य दानवसंनिभाः ॥६-२२-६६॥
शिलानां क्षिप्यमाणानां शैलानां तत्र पात्यताम् । बभूव तुमुलः शब्दस्तदा तस्मिन् महोदधौ ॥६-२२-६७॥
कृतानि प्रथमेनाह्ना योजनानि चतुर्दश । प्रहृष्टैर्गजसंकाशैस्त्वरमाणैः प्लवङ्गमैः ॥६-२२-६८॥
द्वितीयेन तथैवाह्ना योजनानि तु विंशतिः । कृतानि प्लवगैस्तूर्णं भीमकायैर्महाबलैः ॥६-२२-६९॥
अह्ना तृतीयेन तथा योजनानि तु सागरे । त्वरमाणैर्महाकायैरेकविंशतिरेव च ॥६-२२-७०॥
चतुर्थेन तथा चाह्ना द्वाविंशतिरथापि वा । योजनानि महावेगैः कृतानि त्वरितैस्ततः ॥६-२२-७१॥
पञ्चमेन तथा चाह्ना प्लवगैः क्षिप्रकारिभिः । योजनानि त्रयोविंशत् सुवेलमधिकृत्य वै ॥६-२२-७२॥
स वानरवरः श्रीमान् विश्वकर्मात्मजो बली । बबन्ध सागरे सेतुं यथा चास्य पिता तथा ॥६-२२-७३॥
स नलेन कृतः सेतुः सागरे मकरालये । शुशुभे सुभगः श्रीमान् स्वातीपथ इवाम्बरे ॥६-२२-७४॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । आगम्य गगने तस्थुर्द्रष्टुकामास्तदद्भुतम् ॥६-२२-७५॥
दशयोजनविस्तीर्णं शतयोजनमायतम् । ददृशुर्देवगन्धर्वा नलसेतुं सुदुष्करम् ॥६-२२-७६॥
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः । तमचिन्त्यमसह्यं च ह्यद्भुतं लोमहर्षणम् ॥६-२२-७७॥
ददृशुः सर्वभूतानि सागरे सेतुबन्धनम् । तानि कोटिसहस्राणि वानराणां महौजसाम् ॥६-२२-७८॥
बध्नन्तः सागरे सेतुं जग्मुः पारं महोदधेः । विशालः सुकृतः श्रीमान् सुभूमिः सुसमाहितः ॥६-२२-७९॥
अशोभत महान् सेतुः सीमन्त इव सागरे । ततः पारे समुद्रस्य गदापाणिर्विभीषणः ॥६-२२-८०॥
परेषामभिघातार्थमतिष्ठत् सचिवैः सह । सुग्रीवस्तु ततः प्राह रामं सत्यपराक्रमम् ॥६-२२-८१॥
हनूमन्तं त्वमारोह अङ्गदं त्वथ लक्ष्मणः । अयं हि विपुलो वीर सागरो मकरालयः ॥६-२२-८२॥
वैहायसौ युवामेतौ वानरौ धारयिष्यतः । अग्रतस्तस्य सैन्यस्य श्रीमान् रामः सलक्ष्मणः ॥६-२२-८३॥
जगाम धन्वी धर्मात्मा सुग्रीवेण समन्वितः । अन्ये मध्येन गच्छन्ति पार्श्वतोऽन्ये प्लवंगमाः ॥६-२२-८४॥
सलिलं प्रपतन्त्यन्ये मार्गमन्ये प्रपेदिरे । केचिद् वैहायसगताः सुपर्णा इव पुप्लुवुः ॥६-२२-८५॥
घोषेण महता घोषं सागरस्य समुच्छ्रितम् । भीममन्तर्दधे भीमा तरन्ती हरिवाहिनी ॥६-२२-८६॥
वानराणां हि सा तीर्णा वाहिनी नलसेतुना । तीरे निविविशे राज्ञो बहुमूलफलोदके ॥६-२२-८७॥
तदद्भुतं राघवकर्म दुष्करं समीक्ष्य देवाः सह सिद्धचारणैः । उपेत्य रामं सहसा महर्षिभिस्तमभ्यषिञ्चन् सुशुभैर्जलैः पृथक् ॥६-२२-८८॥
जयस्व शत्रून् नरदेव मेदिनीं ससागरां पालय शाश्वतीः समाः । इतीव रामं नरदेवसत्कृतं शुभैर्वचोभिर्विविधैरपूजयन् ॥६-२२-८९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सेतुबन्धः नाम द्वाविंशः सर्गः ॥६-२२॥