समुद्रसंक्षोभः
युद्धकाण्डः / समुद्रसंक्षोभः
Script
Translation
Previous
सुग्रीवभेदनोपायः
Next
सेतुबन्धः
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे समुद्रसंक्षोभः नाम एकविंशः सर्गः ॥६-२१॥
ततः सागरवेलायां दर्भानास्तीर्य राघवः ।
अञ्जलिं प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधेः ॥६-२१-१॥
बाहुं भुजङ्गभोगाभमुपधायारिसूदनः ।
जातरूपमयैश्चैव भूषणैर्भूषितं पुरा ॥६-२१-२॥
मणिकाञ्चनकेयूरमुक्ताप्रवरभूषणैः ।
भुजैः परमनारीणामभिमृष्टमनेकधा ॥६-२१-३॥
चन्दनागुरुभिश्चैव पुरस्तादभिसेवितम् ।
बालसूर्यप्रकाशैश्च चन्दनैरुपशोभितम् ॥६-२१-४॥
शयने चोत्तमाङ्गेन सीतायाः शोभितं पुरा ।
तक्षकस्येव सम्भोगं गङ्गाजलनिषेवितम् ॥६-२१-५॥
संयुगे युगसंकाशं शत्रूणां शोकवर्धनम् ।
सुहृदां नन्दनं दीर्घं सागरान्तव्यपाश्रयम् ॥६-२१-६॥
अस्यता च पुनः सव्यं ज्याघातविहतत्वचम् ।
दक्षिणो दक्षिणं बाहुं महापरिघसंनिभम् ॥६-२१-७॥
गोसहस्रप्रदातारं ह्युपधाय भुजं महत् ।
अद्य मे तरणं वाथ मरणं सागरस्य वा ॥६-२१-८॥
इति रामो धृतिं कृत्वा महाबाहुर्महोदधिम् ।
अधिशिष्ये च विधिवत् प्रयतो नियतो मुनिः ॥६-२१-९॥
तस्य रामस्य सुप्तस्य कुशास्तीर्णे महीतले ।
नियमादप्रमत्तस्य निशास्तिस्रोऽभिजग्मतुः ॥६-२१-१०॥
स त्रिरात्रोषितस्तत्र नयज्ञो धर्मवत्सलः ।
उपासत तदा रामः सागरं सरितां पतिम् ॥६-२१-११॥
न च दर्शयते रूपं मन्दो रामस्य सागरः ।
प्रयतेनापि रामेण यथार्हमभिपूजितः ॥६-२१-१२॥
समुद्रस्य ततः क्रुद्धो रामो रक्तान्तलोचनः ।
समीपस्थमुवाचेदं लक्ष्मणं शुभलक्षणम् ॥६-२१-१३॥
अवलेपः समुद्रस्य न दर्शयति यः स्वयम् ।
प्रशमश्च क्षमा चैव आर्जवं प्रियवादिता ॥६-२१-१४॥
असामर्थ्यफला ह्येते निर्गुणेषु सतां गुणाः ।
आत्मप्रशंसिनं दुष्टं धृष्टं विपरिधावकम् ॥६-२१-१५॥
सर्वत्रोत्सृष्टदण्डं च लोकः सत्कुरुते नरम् ।
न साम्ना शक्यते कीर्तिर्न साम्ना शक्यते यशः ॥६-२१-१६॥
प्राप्तुं लक्ष्मण लोकेऽस्मिञ्जयो वा रणमूर्धनि ।
अद्य मद्बाणनिर्भग्नैर्मकरैर्मकरालयम् ॥६-२१-१७॥
निरुद्धतोयं सौमित्रे प्लवद्भिः पश्य सर्वतः ।
भोगिनां पश्य भोगानि मया भिन्नानि लक्ष्मण ॥६-२१-१८॥
महाभोगानि मत्स्यानां करिणां च करानिह ।
सशङ्खशुक्तिकाजालं समीनमकरं तथा ॥६-२१-१९॥
अद्य युद्धेन महता समुद्रं परिशोषये ।
क्षमया हि समायुक्तं मामयं मकरालयः ॥६-२१-२०॥
असमर्थं विजानाति धिक् क्षमामीदृशे जने ।
न दर्शयति साम्ना मे सागरो रूपमात्मनः ॥६-२१-२१॥
चापमानय सौमित्रे शरांश्चाशीविषोपमान् ।
समुद्रं शोषयिष्यामि पद्भ्यां यान्तु प्लवंगमाः ॥६-२१-२२॥
अद्याक्षोभ्यमपि क्रुद्धः क्षोभयिष्यामि सागरम् ।
वेलासु कृतमर्यादं सहस्रोर्मिसमाकुलम् ॥६-२१-२३॥
निर्मर्यादं करिष्यामि सायकैर्वरुणालयम् ।
महार्णवं क्षोभयिष्ये महादानवसंकुलम् ॥६-२१-२४॥
एवमुक्त्वा धनुष्पाणिः क्रोधविस्फारितेक्षणः ।
बभूव रामो दुर्धर्षो युगान्ताग्निरिव ज्वलन् ॥६-२१-२५॥
सम्पीड्य च धनुर्घोरं कम्पयित्वा शरैर्जगत् ।
मुमोच विशिखानुग्रान् वज्रानिव शतक्रतुः ॥६-२१-२६॥
ते ज्वलन्तो महावेगास्तेजसा सायकोत्तमाः ।
प्रविशन्ति समुद्रस्य जलं वित्रस्तपन्नगम् ॥६-२१-२७॥
तोयवेगः समुद्रस्य समीनमकरो महान् ।
स बभूव महाघोरः समारुतरवस्तथा ॥६-२१-२८॥
महोर्मिमालाविततः शङ्खशुक्तिसमावृतः ।
सधूमः परिवृत्तोर्मिः सहसासीन्महोदधिः ॥६-२१-२९॥
व्यथिताः पन्नगाश्चासन् दीप्तास्या दीप्तलोचनाः ।
दानवाश्च महावीर्याः पातालतलवासिनः ॥६-२१-३०॥
ऊर्मयः सिन्धुराजस्य सनक्रमकरास्तथा ।
विन्ध्यमन्दरसंकाशाः समुत्पेतुः सहस्रशः ॥६-२१-३१॥
आघूर्णिततरङ्गौघः सम्भ्रान्तोरगराक्षसः ।
उद्वर्तितमहाग्राहः सघोषो वरुणालयः ॥६-२१-३२॥
ततस्तु तं राघवमुग्रवेगं प्रकर्षमाणं धनुरप्रमेयम् ।
सौमित्रिरुत्पत्य विनिःश्वसन्तं मामेति चोक्त्वा धनुराललम्बे ॥६-२१-३३॥
एतद्विनापि ह्युदधेस्तवाद्य सम्पत्स्यते वीरतमस्य कार्यम् ।
भवद्विधाः क्रोधवशं न यान्ति दीर्घं भवान् पश्यतु साधुवृत्तम् ॥६-२१-३४॥
अन्तर्हितैश्चापि तथान्तरिक्षे ब्रह्मर्षिभिश्चैव सुरर्षिभिश्च ।
शब्दः कृतः कष्टमिति ब्रुवद्भिर्मामेति चोक्त्वा महता स्वरेण ॥६-२१-३५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे समुद्रसंक्षोभः नाम एकविंशः सर्गः ॥६-२१॥
Previous
सुग्रीवभेदनोपायः
Next
सेतुबन्धः