सुग्रीवभेदनोपायः

युद्धकाण्डः / सुग्रीवभेदनोपायः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे सुग्रीवभेदनोपायः नाम विंशः सर्गः ॥६-२०॥
ततो निविष्टां ध्वजिनीं सुग्रीवेणाभिपालिताम् । ददर्श राक्षसोऽभ्येत्य शार्दूलो नाम वीर्यवान् ॥६-२०-१॥
चारो राक्षसराजस्य रावणस्य दुरात्मनः । तां दृष्ट्वा सर्वतोऽव्यग्रां प्रतिगम्य स राक्षसः ॥६-२०-२॥
आविश्य लङ्कां वेगेन राजानमिदमब्रवीत् । एष वै वानरर्क्षौघो लङ्कां समभिवर्तते ॥६-२०-३॥
अगाधश्चाप्रमेयश्च द्वितीय इव सागरः । पुत्रौ दशरथस्येमौ भ्रातरौ रामलक्ष्मणौ ॥६-२०-४॥
उत्तमौ रूपसम्पन्नौ सीतायाः पदमागतौ । एतौ सागरमासाद्य संनिविष्टौ महाद्युते ॥६-२०-५॥
बलं चाकाशमावृत्य सर्वतो दशयोजनम् । तत्त्वभूतं महाराज क्षिप्रं वेदितुमर्हसि ॥६-२०-६॥
तव दूता महाराज क्षिप्रमर्हन्ति वेदितुम् । उपप्रदानं सान्त्वं वा भेदो वात्र प्रयुज्यताम् ॥६-२०-७॥
शार्दूलस्य वचः श्रुत्वा रावणो राक्षसेश्वरः । उवाच सहसा व्यग्रः सम्प्रधार्यार्थमात्मनः । शुकं साधु तदा रक्षो वाक्यमर्थविदां वरम् ॥६-२०-८॥
सुग्रीवं ब्रूहि गत्वाऽऽशु राजानं वचनान्मम । यथासंदेशमक्लीबं श्लक्ष्णया परया गिरा ॥६-२०-९॥
त्वं वै महाराजकुलप्रसूतो महाबलश्चर्क्षरजःसुतश्च । न कश्चनार्थस्तव नास्त्यनर्थस्तथापि मे भ्रातृसमो हरीश ॥६-२०-१०॥
अहं यद्यहरं भार्यां राजपुत्रस्य धीमतः । किं तत्र तव सुग्रीव किष्किन्धां प्रति गम्यताम् ॥६-२०-११॥
नहीयं हरिभिर्लङ्का प्राप्तुं शक्या कथंचन । देवैरपि सगन्धर्वैः किं पुनर्नरवानरैः ॥६-२०-१२॥
स तदा राक्षसेन्द्रेण संदिष्टो रजनीचरः । शुको विहंगमो भूत्वा तूर्णमाप्लुत्य चाम्बरम् ॥६-२०-१३॥
स गत्वा दूरमध्वानमुपर्युपरि सागरम् । संस्थितो ह्यम्बरे वाक्यं सुग्रीवमिदमब्रवीत् ॥६-२०-१४॥
सर्वमुक्तं यथाऽऽदिष्टं रावणेन दुरात्मना । तत् प्रापयन्तं वचनं तूर्णमाप्लुत्य वानराः ॥६-२०-१५॥
प्रापद्यन्त तदा क्षिप्रं लोप्तुं हन्तुं च मुष्टिभिः । सर्वैः प्लवंगैः प्रसभं निगृहीतो निशाचरः ॥६-२०-१६॥
गगनाद् भूतले चाशु प्रतिगृह्यावतारितः । वानरैः पीड्यमानस्तु शुको वचनमब्रवीत् ॥६-२०-१७॥
न दूतान् घ्नन्ति काकुत्स्थ वार्यन्तां साधु वानराः । यस्तु हित्वा मतं भर्तुः स्वमतं सम्प्रधारयेत् । अनुक्तवादी दूतः सन् स दूतो वधमर्हति ॥६-२०-१८॥
शुकस्य वचनं रामः श्रुत्वा तु परिदेवितम् । उवाच मावधिष्टेति घ्नतः शाखामृगर्षभान् ॥६-२०-१९॥
स च पत्रलघुर्भूत्वा हरिभिर्दर्शितेऽभये । अन्तरिक्षे स्थितो भूत्वा पुनर्वचनमब्रवीत् ॥६-२०-२०॥
सुग्रीव सत्त्वसम्पन्न महाबलपराक्रम । किं मया खलु वक्तव्यो रावणो लोकरावणः ॥६-२०-२१॥
स एवमुक्तः प्लवगाधिपस्तदा प्लवंगमानामृषभो महाबलः । उवाच वाक्यं रजनीचरस्य चारं शुकं शुद्धमदीनसत्त्वः ॥६-२०-२२॥
न मेऽसि मित्रं न तथानुकम्प्यो न चोपकर्तासि न मे प्रियोऽसि । अरिश्च रामस्य सहानुबन्धस्ततोऽसि वालीव वधार्ह वध्यः ॥६-२०-२३॥
निहन्म्यहं त्वां ससुतं सबन्धुं सज्ञातिवर्गं रजनीचरेश । लङ्कां च सर्वां महता बलेन सर्वैः करिष्यामि समेत्य भस्म ॥६-२०-२४॥
न मोक्ष्यसे रावण राघवस्य सुरैः सहेन्द्रैरपि मूढ गुप्तः । अन्तर्हितः सूर्यपथं गतोऽपि तथैव पातालमनुप्रविष्टः । गिरीशपादाम्बुजसंगतो वा हतोऽसि रामेण सहानुजस्त्वम् ॥६-२०-२५॥
तस्य ते त्रिषु लोकेषु न पिशाचं न राक्षसम् । त्रातारं नानुपश्यामि न गन्धर्वं न चासुरम् ॥६-२०-२६॥
अवधीस्त्वं जरावृद्धं गृध्रराजं जटायुषम् । किं नु ते रामसांनिध्ये सकाशे लक्ष्मणस्य च । हृता सीता विशालाक्षी यां त्वं गृह्य न बुध्यसे ॥६-२०-२७॥
महाबलं महात्मानं दुराधर्षं सुरैरपि । न बुध्यसे रघुश्रेष्ठं यस्ते प्राणान् हरिष्यति ॥६-२०-२८॥
ततोऽब्रवीद् वालिसुतोऽप्यङ्गदो हरिसत्तमः । नायं दूतो महाराज चारकः प्रतिभाति मे ॥६-२०-२९॥
तुलितं हि बलं सर्वमनेन तव तिष्ठता । गृह्यतां मागमल्लङ्कामेतद्धि मम रोचते ॥६-२०-३०॥
ततो राज्ञा समादिष्टाः समुत्पत्य वलीमुखाः । जगृहुश्च बबन्धुश्च विलपन्तमनाथवत् ॥६-२०-३१॥
शुकस्तु वानरैश्चण्डैस्तत्र तैः सम्प्रपीडितः । व्याचुक्रोश महात्मानं रामं दशरथात्मजम् । लुप्येते मे बलात् पक्षौ भिद्येते मे तथाक्षिणी ॥६-२०-३२॥
यां च रात्रिं मरिष्यामि जाये रात्रिं च यामहम् । एतस्मिन्नन्तरे काले यन्मया ह्यशुभं कृतम् । सर्वं तदुपपद्येथा जह्यां चेद् यदि जीवितम् ॥६-२०-३३॥
नाघातयत् तदा रामः श्रुत्वा तत्परिदेवितम् । वानरानब्रवीद् रामो मुच्यतां दूत आगतः ॥६-२०-३४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सुग्रीवभेदनोपायः नाम विंशः सर्गः ॥६-२०॥