शरतल्पसंवेशः
युद्धकाण्डः / शरतल्पसंवेशः
Script
Translation
Previous
विभीषणसंग्रहनिर्णयः
Next
सुग्रीवभेदनोपायः
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे शरतल्पसंवेशः नाम एकोनविंशः सर्गः ॥६-१९॥
राघवेणाभये दत्ते संनतो रावणानुजः ।
विभीषणो महाप्राज्ञो भूमिं समवलोकयत् ॥६-१९-१॥
खात् पपातावनिं हृष्टो भक्तैरनुचरैः सह ।
स तु रामस्य धर्मात्मा निपपात विभीषणः ॥६-१९-२॥
पादयोर्निपपाताथ चतुर्भिः सह राक्षसैः ।
अब्रवीच्च तदा वाक्यं रामं प्रति विभीषणः ॥६-१९-३॥
धर्मयुक्तं च युक्तं च साम्प्रतं सम्प्रहर्षणम् ।
अनुजो रावणस्याहं तेन चास्म्यवमानितः ॥६-१९-४॥
भवन्तं सर्वभूतानां शरण्यं शरणं गतः ।
परित्यक्ता मया लङ्का मित्राणि च धनानि च ॥६-१९-५॥
भवद्गतं हि मे राज्यं जीवितं च सुखानि च ।
तस्य तद् वचनं श्रुत्वा रामो वचनमब्रवीत् ॥६-१९-६॥
वचसा सान्त्वयित्वैनं लोचनाभ्यां पिबन्निव ।
आख्याहि मम तत्त्वेन राक्षसानां बलाबलम् ॥६-१९-७॥
एवमुक्तं तदा रक्षो रामेणाक्लिष्टकर्मणा ।
रावणस्य बलं सर्वमाख्यातुमुपचक्रमे ॥६-१९-८॥
अवध्यः सर्वभूतानां गन्धर्वोरगपक्षिणाम् ।
राजपुत्र दशग्रीवो वरदानात् स्वयम्भुवः ॥६-१९-९॥
रावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान् ।
कुम्भकर्णो महातेजाः शक्रप्रतिबलो युधि ॥६-१९-१०॥
राम सेनापतिस्तस्य प्रहस्तो यदि ते श्रुतः ।
कैलासे येन समरे मणिभद्रः पराजितः ॥६-१९-११॥
बद्धगोधाङ्गुलित्राणस्त्ववध्यकवचो युधि ।
धनुरादाय यस्तिष्ठन्नदृश्यो भवतीन्द्रजित् ॥६-१९-१२॥
संग्रामे सुमहद्व्यूहे तर्पयित्वा हुताशनम् ।
अन्तर्धानगतः श्रीमानिन्द्रजिद्धन्ति राघव ॥६-१९-१३॥
महोदरमहापार्श्वौ राक्षसश्चाप्यकम्पनः ।
अनीकपास्तु तस्यैते लोकपालसमा युधि ॥६-१९-१४॥
दशकोटिसहस्राणि रक्षसां कामरूपिणाम् ।
मांसशोणितभक्ष्याणां लङ्कापुरनिवासिनाम् ॥६-१९-१५॥
स तैस्तु सहितो राजा लोकपालानयोधयत् ।
सह देवैस्तु ते भग्ना रावणेन दुरात्मना ॥६-१९-१६॥
विभीषणस्य तु वचस्तच्छ्रुत्वा रघुसत्तमः ।
अन्वीक्ष्य मनसा सर्वमिदं वचनमब्रवीत् ॥६-१९-१७॥
यानि कर्मापदानानि रावणस्य विभीषण ।
आख्यातानि च तत्त्वेन ह्यवगच्छामि तान्यहम् ॥६-१९-१८॥
अहं हत्वा दशग्रीवं सप्रहस्तं सहात्मजम् ।
राजानं त्वां करिष्यामि सत्यमेतच्छृणोतु मे ॥६-१९-१९॥
रसातलं वा प्रविशेत् पातालं वापि रावणः ।
पितामहसकाशं वा न मे जीवन् विमोक्ष्यते ॥६-१९-२०॥
अहत्वा रावणं संख्ये सपुत्रजनबान्धवम् ।
अयोध्यां न प्रवेक्ष्यामि त्रिभिस्तैर्भ्रातृभिः शपे ॥६-१९-२१॥
श्रुत्वा तु वचनं तस्य रामस्याक्लिष्टकर्मणः ।
शिरसाऽऽवन्द्य धर्मात्मा वक्तुमेवं प्रचक्रमे ॥६-१९-२२॥
राक्षसानां वधे साह्यं लङ्कायाश्च प्रधर्षणे ।
करिष्यामि यथाप्राणं प्रवेक्ष्यामि च वाहिनीम् ॥६-१९-२३॥
इति ब्रुवाणं रामस्तु परिष्वज्य विभीषणम् ।
अब्रवील्लक्ष्मणं प्रीतः समुद्राज्जलमानय ॥६-१९-२४॥
तेन चेमं महाप्राज्ञमभिषिञ्च विभीषणम् ।
राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद ॥६-१९-२५॥
एवमुक्तस्तु सौमित्रिरभ्यषिञ्चद् विभीषणम् ।
मध्ये वानरमुख्यानां राजानं राजशासनात् ॥६-१९-२६॥
तं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवङ्गमाः ।
प्रचुक्रुशुर्महात्मानं साधुसाध्विति चाब्रुवन् ॥६-१९-२७॥
अब्रवीच्च हनूमांश्च सुग्रीवश्च विभीषणम् ।
कथं सागरमक्षोभ्यं तराम वरुणालयम् ।
सैन्यैः परिवृताः सर्वे वानराणां महौजसाम् ॥६-१९-२८॥
उपायैरभिगच्छाम यथा नदनदीपतिम् ।
तराम तरसा सर्वे ससैन्या वरुणालयम् ॥६-१९-२९॥
एवमुक्तस्तु धर्मात्मा प्रत्युवाच विभीषणः ।
समुद्रं राघवो राजा शरणं गन्तुमर्हति ॥६-१९-३०॥
खानितः सगरेणायमप्रमेयो महोदधिः ।
कर्तुमर्हति रामस्य ज्ञातेः कार्यं महोदधिः ॥६-१९-३१॥
एवं विभीषणेनोक्तो राक्षसेन विपश्चिता ।
आजगामाथ सुग्रीवो यत्र रामः सलक्ष्मणः ॥६-१९-३२॥
ततश्चाख्यातुमारेभे विभीषणवचः शुभम् ।
सुग्रीवो विपुलग्रीवः सागरस्योपवेशनम् ॥६-१९-३३॥
प्रकृत्या धर्मशीलस्य रामस्यास्याप्यरोचत ।
सलक्ष्मणं महातेजाः सुग्रीवं च हरीश्वरम् ॥६-१९-३४॥
सत्क्रियार्थं क्रियादक्षं स्मितपूर्वमभाषत ।
विभीषणस्य मन्त्रोऽयं मम लक्ष्मण रोचते ॥६-१९-३५॥
सुग्रीवः पण्डितो नित्यं भवान् मन्त्रविचक्षणः ।
उभाभ्यां सम्प्रधार्यार्थं रोचते यत् तदुच्यताम् ॥६-१९-३६॥
एवमुक्तौ ततो वीरावुभौ सुग्रीवलक्ष्मणौ ।
समुदाचारसंयुक्तमिदं वचनमूचतुः ॥६-१९-३७॥
किमर्थं नौ नरव्याघ्र न रोचिष्यति राघव ।
विभीषणेन यत् तूक्तमस्मिन् काले सुखावहम् ॥६-१९-३८॥
अबद्ध्वा सागरे सेतुं घोरेऽस्मिन् वरुणालये ।
लङ्का नासादितुं शक्या सेन्द्रैरपि सुरासुरैः ॥६-१९-३९॥
विभीषणस्य शूरस्य यथार्थं क्रियतां वचः ।
अलं कालात्ययं कृत्वा सागरोऽयं नियुज्यताम् ।
यथा सैन्येन गच्छाम पुरीं रावणपालिताम् ॥६-१९-४०॥
एवमुक्तः कुशास्तीर्णे तीरे नदनदीपतेः ।
संविवेश तदा रामो वेद्यामिव हुताशनः ॥६-१९-४१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे शरतल्पसंवेशः नाम एकोनविंशः सर्गः ॥६-१९॥
Previous
विभीषणसंग्रहनिर्णयः
Next
सुग्रीवभेदनोपायः