हनूमत्प्रशंसनम्
युद्धकाण्डः / हनूमत्प्रशंसनम्
Script
Translation
Next
रामप्रोत्साहनम्
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे हनूमत्प्रशंसनम् नाम प्रथमः सर्गः ॥६-१॥
श्रुत्वा हनूमतो वाक्यं यथावदभिभाषितम् ।
रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ॥६-१-१॥
कृतं हनूमता कार्यं सुमहद् भुवि दुर्लभम् ।
मनसापि यदन्येन न शक्यं धरणीतले ॥६-१-२॥
नहि तं परिपश्यामि यस्तरेत महोदधिम् ।
अन्यत्र गरुडाद् वायोरन्यत्र च हनूमतः ॥६-१-३॥
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।
अप्रधृष्यां पुरीं लङ्कां रावणेन सुरक्षिताम् ॥६-१-४॥
प्रविष्टः सत्त्वमाश्रित्य जीवन् को नाम निष्क्रमेत् ।
को विशेत् सुदुराधर्षां राक्षसैश्च सुरक्षिताम् ॥६-१-५॥
यो वीर्यबलसम्पन्नो न समः स्याद्धनूमतः ।
भृत्यकार्यं हनुमता सुग्रीवस्य कृतं महत् ।
एवं विधाय स्वबलं सदृशं विक्रमस्य च ॥६-१-६॥
यो हि भृत्यो नियुक्तः सन् भर्त्रा कर्मणि दुष्करे ।
कुर्यात् तदनुरागेण तमाहुः पुरुषोत्तमम् ॥६-१-७॥
यो नियुक्तः परं कार्यं न कुर्यान्नृपतेः प्रियम् ।
भृत्यो युक्तः समर्थश्च तमाहुर्मध्यमं नरम् ॥६-१-८॥
नियुक्तो नृपतेः कार्यं न कुर्याद् यः समाहितः ।
भृत्यो युक्तः समर्थश्च तमाहुः पुरुषाधमम् ॥६-१-९॥
तन्नियोगे नियुक्तेन कृतं कृत्यं हनूमता ।
न चात्मा लघुतां नीतः सुग्रीवश्चापि तोषितः ॥६-१-१०॥
अहं च रघुवंशश्च लक्ष्मणश्च महाबलः ।
वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः ॥६-१-११॥
इदं तु मम दीनस्य मनो भूयः प्रकर्षति ।
यदिहास्य प्रियाख्यातुर्न कुर्मि सदृशं प्रियम् ॥६-१-१२॥
एष सर्वस्वभूतस्तु परिष्वङ्गो हनूमतः ।
मया कालमिमं प्राप्य दत्तस्तस्य महात्मनः ॥६-१-१३॥
इत्युक्त्वा प्रीतिहृष्टाङ्गो रामस्तं परिषस्वजे ।
हनूमन्तं कृतात्मानं कृतकार्यमुपागतम् ॥६-१-१४॥
ध्यात्वा पुनरुवाचेदं वचनं रघुसत्तमः ।
हरीणामीश्वरस्यापि सुग्रीवस्योपशृण्वतः ॥६-१-१५॥
सर्वथा सुकृतं तावत् सीतायाः परिमार्गणम् ।
सागरं तु समासाद्य पुनर्नष्टं मनो मम ॥६-१-१६॥
कथं नाम समुद्रस्य दुष्पारस्य महाम्भसः ।
हरयो दक्षिणं पारं गमिष्यन्ति समागताः ॥६-१-१७॥
यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम ।
समुद्रपारगमने हरीणां किमिवोत्तरम् ॥६-१-१८॥
इत्युक्त्वा शोकसम्भ्रान्तो रामः शत्रुनिबर्हणः ।
हनूमन्तं महाबाहुस्ततो ध्यानमुपागमत् ॥६-१-१९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे हनूमत्प्रशंसनम् नाम प्रथमः सर्गः ॥६-१॥
Next
रामप्रोत्साहनम्