विभीषणसंग्रहनिर्णयः
युद्धकाण्डः / विभीषणसंग्रहनिर्णयः
Script
Translation
Previous
विभीषणशरणागतिनिवेदनम्
Next
शरतल्पसंवेशः
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे विभीषणसंग्रहनिर्णयः नाम अष्टादशः सर्गः ॥६-१८॥
अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह ।
प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम् ॥६-१८-१॥
ममापि च विवक्षास्ति काचित् प्रति विभीषणम् ।
श्रोतुमिच्छामि तत् सर्वं भवद्भिः श्रेयसि स्थितैः ॥६-१८-२॥
मित्रभावेन सम्प्राप्तं न त्यजेयं कथंचन ।
दोषो यद्यपि तस्य स्यात् सतामेतदगर्हितम् ॥६-१८-३॥
सुग्रीवस्त्वथ तद्वाक्यमाभाष्य च विमृश्य च ।
ततः शुभतरं वाक्यमुवाच हरिपुङ्गवः ॥६-१८-४॥
स दुष्टो वाप्यदुष्टो वा किमेष रजनीचरः ।
ईदृशं व्यसनं प्राप्तं भ्रातरं यः परित्यजेत् ॥६-१८-५॥
को नाम स भवेत् तस्य यमेष न परित्यजेत् ।
वानराधिपतेर्वाक्यं श्रुत्वा सर्वानुदीक्ष्य तु ॥६-१८-६॥
ईषदुत्स्मयमानस्तु लक्ष्मणं पुण्यलक्षणम् ।
इति होवाच काकुत्स्थो वाक्यं सत्यपराक्रमः ॥६-१८-७॥
अनधीत्य च शास्त्राणि वृद्धाननुपसेव्य च ।
न शक्यमीदृशं वक्तुं यदुवाच हरीश्वरः ॥६-१८-८॥
अस्ति सूक्ष्मतरं किंचिद् यथात्र प्रतिभाति मा ।
प्रत्यक्षं लौकिकं चापि वर्तते सर्वराजसु ॥६-१८-९॥
अमित्रास्तत्कुलीनाश्च प्रातिदेश्याश्च कीर्तिताः ।
व्यसनेषु प्रहर्तारस्तस्मादयमिहागतः ॥६-१८-१०॥
अपापास्तत्कुलीनाश्च मानयन्ति स्वकान् हितान् ।
एष प्रायो नरेन्द्राणां शङ्कनीयस्तु शोभनः ॥६-१८-११॥
यस्तु दोषस्त्वया प्रोक्तो ह्यादानेऽरिबलस्य च ।
तत्र ते कीर्तयिष्यामि यथाशास्त्रमिदं शृणु ॥६-१८-१२॥
न वयं तत्कुलीनाश्च राज्यकाङ्क्षी च राक्षसः ।
पण्डिता हि भविष्यन्ति तस्माद् ग्राह्यो विभीषणः ॥६-१८-१३॥
अव्यग्राश्च प्रहृष्टाश्च ते भविष्यन्ति संगताः ।
प्रणादश्च महानेषोऽन्योन्यस्य भयमागतम् ।
इति भेदं गमिष्यन्ति तस्माद् ग्राह्यो विभीषणः ॥६-१८-१४॥
न सर्वे भ्रातरस्तात भवन्ति भरतोपमाः ।
मद्विधा वा पितुः पुत्राः सुहृदो वा भवद्विधाः ॥६-१८-१५॥
एवमुक्तस्तु रामेण सुग्रीवः सहलक्ष्मणः ।
उत्थायेदं महाप्राज्ञः प्रणतो वाक्यमब्रवीत् ॥६-१८-१६॥
रावणेन प्रणिहितं तमवेहि निशाचरम् ।
तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर ॥६-१८-१७॥
राक्षसो जिह्मया बुद्ध्या संदिष्टोऽयमिहागतः ।
प्रहर्तुं त्वयि विश्वस्ते विश्वस्ते मयि वानघ ॥६-१८-१८॥
लक्ष्मणे वा महाबाहो स वध्यः सचिवैः सह ।
रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः ॥६-१८-१९॥
एवमुक्त्वा रघुश्रेष्ठं सुग्रीवो वाहिनीपतिः ।
वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत् ॥६-१८-२०॥
स सुग्रीवस्य तद् वाक्यं रामः श्रुत्वा विमृश्य च ।
ततः शुभतरं वाक्यमुवाच हरिपुङ्गवम् ॥६-१८-२१॥
स दुष्टो वाप्यदुष्टो वा किमेष रजनीचरः ।
सूक्ष्ममप्यहितं कर्तुं मम शक्तः कथंचन ॥६-१८-२२॥
पिशाचान् दानवान् यक्षान् पृथिव्यां चैव राक्षसान् ।
अङ्गुल्यग्रेण तान् हन्यामिच्छन् हरिगणेश्वर ॥६-१८-२३॥
श्रूयते हि कपोतेन शत्रुः शरणमागतः ।
अर्चितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः ॥६-१८-२४॥
स हि तं प्रतिजग्राह भार्याहर्तारमागतम् ।
कपोतो वानरश्रेष्ठ किं पुनर्मद्विधो जनः ॥६-१८-२५॥
ऋषेः कण्वस्य पुत्रोण कण्डुना परमर्षिणा ।
शृणु गाथा पुरा गीता धर्मिष्ठा सत्यवादिना ॥६-१८-२६॥
बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम् ।
न हन्यादानृशंस्यार्थमपि शत्रुं परंतप ॥६-१८-२७॥
आर्तो वा यदि वा दृप्तः परेषां शरणं गतः ।
अरिः प्राणान् परित्यज्य रक्षितव्यः कृतात्मना ॥६-१८-२८॥
स चेद् भयाद् वा मोहाद् वा कामाद् वापि न रक्षति ।
स्वया शक्त्या यथान्यायं तत् पापं लोकगर्हितम् ॥६-१८-२९॥
विनष्टः पश्यतस्तस्य रक्षिणः शरणं गतः ।
आनाय सुकृतं तस्य सर्वं गच्छेदरक्षितः ॥६-१८-३०॥
एवं दोषो महानत्र प्रपन्नानामरक्षणे ।
अस्वर्ग्यं चायशस्यं च बलवीर्यविनाशनम् ॥६-१८-३१॥
करिष्यामि यथार्थं तु कण्डोर्वचनमुत्तमम् ।
धर्मिष्ठं च यशस्यं च स्वर्ग्यं स्यात् तु फलोदये ॥६-१८-३२॥
सकृदेव प्रपन्नाय तवास्मीति च याचते ।
अभयं सर्वभूतेभ्यो ददाम्येतद् व्रतं मम ॥६-१८-३३॥
आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया ।
विभीषणो वा सुग्रीव यदि वा रावणः स्वयम् ॥६-१८-३४॥
रामस्य तु वचः श्रुत्वा सुग्रीवः प्लवगेश्वरः ।
प्रत्यभाषत काकुत्स्थं सौहार्देनाभिपूरितः ॥६-१८-३५॥
किमत्र चित्रं धर्मज्ञ लोकनाथशिखामणे ।
यत् त्वमार्यं प्रभाषेथाः सत्त्ववान् सत्पथे स्थितः ॥६-१८-३६॥
मम चाप्यन्तरात्मायं शुद्धं वेत्ति विभीषणम् ।
अनुमानाच्च भावाच्च सर्वतः सुपरीक्षितः ॥६-१८-३७॥
तस्मात् क्षिप्रं सहास्माभिस्तुल्यो भवतु राघव ।
विभीषणो महाप्राज्ञः सखित्वं चाभ्युपैतु नः ॥६-१८-३८॥
ततस्तु सुग्रीववचो निशम्य तद्धरीश्वरेणाभिहितं नरेश्वरः ।
विभीषणेनाशु जगाम संगमं पतत्त्रिराजेन यथा पुरंदरः ॥६-१८-३९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे विभीषणसंग्रहनिर्णयः नाम अष्टादशः सर्गः ॥६-१८॥
Previous
विभीषणशरणागतिनिवेदनम्
Next
शरतल्पसंवेशः