विभीषणशरणागतिनिवेदनम्
युद्धकाण्डः / विभीषणशरणागतिनिवेदनम्
Script
Translation
Previous
विभीषणाक्रोशः
Next
विभीषणसंग्रहनिर्णयः
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे विभीषणशरणागतिनिवेदनम् नाम सप्तदशः सर्गः ॥६-१७॥
इत्युक्त्वा परुषं वाक्यं रावणं रावणानुजः ।
आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः ॥६-१७-१॥
तं मेरुशिखराकारं दीप्तामिव शतह्रदाम् ।
गगनस्थं महीस्थास्ते ददृशुर्वानराधिपाः ॥६-१७-२॥
ते चाप्यनुचरास्तस्य चत्वारो भीमविक्रमाः ।
तेऽपि वर्मायुधोपेता भूषणोत्तमभूषिताः ॥६-१७-३॥
स च मेघाचलप्रख्यो वज्रायुधसमप्रभः ।
वरायुधधरो वीरो दिव्याभरणभूषितः ॥६-१७-४॥
तमात्मपञ्चमं दृष्ट्वा सुग्रीवो वानराधिपः ।
वानरैः सह दुर्धर्षश्चिन्तयामास बुद्धिमान् ॥६-१७-५॥
चिन्तयित्वा मुहूर्तं तु वानरांस्तानुवाच ह ।
हनुमत्प्रमुखान् सर्वानिदं वचनमुत्तमम् ॥६-१७-६॥
एष सर्वायुधोपेतश्चतुर्भिः सह राक्षसैः ।
राक्षसोभ्येति पश्यध्वमस्मान् हन्तुं न संशयः ॥६-१७-७॥
सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानरोत्तमाः ।
सालानुद्यम्य शैलांश्च इदं वचनमब्रुवन् ॥६-१७-८॥
शीघ्रं व्यादिश नो राजन् वधायैषां दुरात्मनाम् ।
निपतन्ति हता यावद् धरण्यामल्पचेतनाः ॥६-१७-९॥
तेषां सम्भाषमाणानामन्योन्यं स विभीषणः ।
उत्तरं तीरमासाद्य खस्थ एव व्यतिष्ठत ॥६-१७-१०॥
स उवाच महाप्राज्ञः स्वरेण महता महान् ।
सुग्रीवं तांश्च सम्प्रेक्ष्य खस्थ एव विभीषणः ॥६-१७-११॥
रावणो नाम दुर्वृत्तो राक्षसो राक्षसेश्वरः ।
तस्याहमनुजो भ्राता विभीषण इति श्रुतः ॥६-१७-१२॥
तेन सीता जनस्थानाद् हृता हत्वा जटायुषम् ।
रुद्धा च विवशा दीना राक्षसीभिः सुरक्षिता ॥६-१७-१३॥
तमहं हेतुभिर्वाक्यैर्विविधैश्च न्यदर्शयम् ।
साधु निर्यात्यतां सीता रामायेति पुनः पुनः ॥६-१७-१४॥
स च न प्रतिजग्राह रावणः कालचोदितः ।
उच्यमानं हितं वाक्यं विपरीत इवौषधम् ॥६-१७-१५॥
सोऽहं परुषितस्तेन दासवच्चावमानितः ।
त्यक्त्वा पुत्रांश्च दारांश्च राघवं शरणं गतः ॥६-१७-१६॥
निवेदयत मां क्षिप्रं राघवाय महात्मने ।
सर्वलोकशरण्याय विभीषणमुपस्थितम् ॥६-१७-१७॥
एतत्तु वचनं श्रुत्वा सुग्रीवो लघुविक्रमः ।
लक्ष्मणस्याग्रतो रामं संरब्धमिदमब्रवीत् ॥६-१७-१८॥
प्रविष्टः शत्रुसैन्यं हि प्राप्तः शत्रुरतर्कितः ।
निहन्यादन्तरं लब्ध्वा उलूको वायसानिव ॥६-१७-१९॥
मन्त्रे व्यूहे नये चारे युक्तो भवितुमर्हसि ।
वानराणां च भद्रं ते परेषां च परंतप ॥६-१७-२०॥
अन्तर्धानगता ह्येते राक्षसाः कामरूपिणः ।
शूराश्च निकृतिज्ञाश्च तेषां जातु न विश्वसेत् ॥६-१७-२१॥
प्रणिधी राक्षसेन्द्रस्य रावणस्य भवेदयम् ।
अनुप्रविश्य सोऽस्मासु भेदं कुर्यान्न संशयः ॥६-१७-२२॥
अथ वा स्वयमेवैष छिद्रमासाद्य बुद्धिमान् ।
अनुप्रविश्य विश्वस्ते कदाचित् प्रहरेदपि ॥६-१७-२३॥
मित्राटविबलं चैव मौलभृत्यबलं तथा ।
सर्वमेतद् बलं ग्राह्यं वर्जयित्वा द्विषद्बलम् ॥६-१७-२४॥
प्रकृत्या राक्षसो ह्येष भ्रातामित्रस्य वै प्रभो ।
आगतश्च रिपुः साक्षात् कथमस्मिंश्च विश्वसेत् ॥६-१७-२५॥
रावणस्यानुजो भ्राता विभीषण इति श्रुतः ।
चतुर्भिः सह रक्षोभिर्भवन्तं शरणं गतः ॥६-१७-२६॥
रावणेन प्रणीतं हि तमवेहि विभीषणम् ।
तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर ॥६-१७-२७॥
राक्षसो जिह्मया बुद्ध्या संदिष्टोऽयमिहागतः ।
प्रहर्तुं मायया छन्नो विश्वस्ते त्वयि चानघ ॥६-१७-२८॥
वध्यतामेष तीव्रेण दण्डेन सचिवैः सह ।
रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः ॥६-१७-२९॥
एवमुक्त्वा तु तं रामं संरब्धो वाहिनीपतिः ।
वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत् ॥६-१७-३०॥
सुग्रीवस्य तु तद् वाक्यं श्रुत्वा रामो महाबलः ।
समीपस्थानुवाचेदं हनुमत्प्रमुखान् कपीन् ॥६-१७-३१॥
यदुक्तं कपिराजेन रावणावरजं प्रति ।
वाक्यं हेतुमदत्यर्थं भवद्भिरपि च श्रुतम् ॥६-१७-३२॥
सुहृदामर्थकृच्छ्रेषु युक्तं बुद्धिमता सदा ।
समर्थेनोपसंदेष्टुं शाश्वतीं भूतिमिच्छता ॥६-१७-३३॥
इत्येवं परिपृष्टास्ते स्वं स्वं मतमतन्द्रिताः ।
सोपचारं तदा राममूचुः प्रियचिकीर्षवः ॥६-१७-३४॥
अज्ञातं नास्ति ते किंचित् त्रिषु लोकेषु राघव ।
आत्मानं पूजयन् राम पृच्छस्यस्मान् सुहृत्तया ॥६-१७-३५॥
त्वं हि सत्यव्रतः शूरो धार्मिको दृढविक्रमः ।
परीक्ष्यकारी स्मृतिमान् निसृष्टात्मा सुहृत्सु च ॥६-१७-३६॥
तस्मादेकैकशस्तावद् ब्रुवन्तु सचिवास्तव ।
हेतुतो मतिसम्पन्नाः समर्थाश्च पुनः पुनः ॥६-१७-३७॥
इत्युक्ते राघवायाथ मतिमानङ्गदोऽग्रतः ।
विभीषणपरीक्षार्थमुवाच वचनं हरिः ॥६-१७-३८॥
शत्रोः सकाशात् सम्प्राप्तः सर्वथा तर्क्य एव हि ।
विश्वासनीयः सहसा न कर्तव्यो विभीषणः ॥६-१७-३९॥
छादयित्वाऽऽत्मभावं हि चरन्ति शठबुद्धयः ।
प्रहरन्ति च रन्ध्रेषु सोऽनर्थः सुमहान् भवेत् ॥६-१७-४०॥
अर्थानर्थौ विनिश्चित्य व्यवसायं भजेत ह ।
गुणतः संग्रहं कुर्याद् दोषतस्तु विसर्जयेत् ॥६-१७-४१॥
यदि दोषो महांस्तस्मिंस्त्यज्यतामविशङ्कितम् ।
गुणान् वापि बहून् ज्ञात्वा संग्रहः क्रियतां नृप ॥६-१७-४२॥
शरभस्त्वथ निश्चित्य सार्थं वचनमब्रवीत् ।
क्षिप्रमस्मिन् नरव्याघ्र चारः प्रतिविधीयताम् ॥६-१७-४३॥
प्रणिधाय हि चारेण यथावत् सूक्ष्मबुद्धिना ।
परीक्ष्य च ततः कार्यो यथान्यायं परिग्रहः ॥६-१७-४४॥
जाम्बवांस्त्वथ सम्प्रेक्ष्य शास्त्रबुद्ध्या विचक्षणः ।
वाक्यं विज्ञापयामास गुणवद् दोषवर्जितम् ॥६-१७-४५॥
बद्धवैराच्च पापाच्च राक्षसेन्द्राद् विभीषणः ।
अदेशकाले सम्प्राप्तः सर्वथा शंक्यतामयम् ॥६-१७-४६॥
ततो मैन्दस्तु सम्प्रेक्ष्य नयापनयकोविदः ।
वाक्यं वचनसम्पन्नो बभाषे हेतुमत्तरम् ॥६-१७-४७॥
अनुजो नाम तस्यैष रावणस्य विभीषणः ।
पृच्छ्यतां मधुरेणायं शनैर्नरपतीश्वर ॥६-१७-४८॥
भावमस्य तु विज्ञाय तत्त्वतस्तं करिष्यसि ।
यदि दुष्टो न दुष्टो वा बुद्धिपूर्वं नरर्षभ ॥६-१७-४९॥
अथ संस्कारसम्पन्नो हनूमान् सचिवोत्तमः ।
उवाच वचनं श्लक्ष्णमर्थवन्मधुरं लघु ॥६-१७-५०॥
न भवन्तं मतिश्रेष्ठं समर्थं वदतां वरम् ।
अतिशाययितुं शक्तो बृहस्पतिरपि ब्रुवन् ॥६-१७-५१॥
न वादान्नापि संघर्षान्नाधिक्यान्न च कामतः ।
वक्ष्यामि वचनं राजन् यथार्थं राम गौरवात् ॥६-१७-५२॥
अर्थानर्थनिमित्तं हि यदुक्तं सचिवैस्तव ।
तत्र दोषं प्रपश्यामि क्रिया नह्युपपद्यते ॥६-१७-५३॥
ऋते नियोगात् सामर्थ्यमवबोद्धुं न शक्यते ।
सहसा विनियोगोऽपि दोषवान् प्रतिभाति मे ॥६-१७-५४॥
चारप्रणिहितं युक्तं यदुक्तं सचिवैस्तव ।
अर्थस्यासम्भवात् तत्र कारणं नोपपद्यते ॥६-१७-५५॥
अदेशकाले सम्प्राप्त इत्ययं यद् विभीषणः ।
विवक्षा तत्र मेऽस्तीयं तां निबोध यथामति ॥६-१७-५६॥
एष देशश्च कालश्च भवतीह यथा तथा ।
पुरुषात् पुरुषं प्राप्य तथा दोषगुणावपि ॥६-१७-५७॥
दौरात्म्यं रावणे दृष्ट्वा विक्रमं च तथा त्वयि ।
युक्तमागमनं ह्यत्र सदृशं तस्य बुद्धितः ॥६-१७-५८॥
अज्ञातरूपैः पुरुषैः स राजन् पृच्छ्यतामिति ।
यदुक्तमत्र मे प्रेक्षा काचिदस्ति समीक्षिता ॥६-१७-५९॥
पृच्छ्यमानो विशङ्केत सहसा बुद्धिमान् वचः ।
तत्र मित्रं प्रदुष्येत मिथ्या पृष्टं सुखागतम् ॥६-१७-६०॥
अशक्यं सहसा राजन् भावो बोद्धुं परस्य वै ।
अन्तरेण स्वरैर्भिन्नैर्नैपुण्यं पश्यतां भृशम् ॥६-१७-६१॥
न त्वस्य ब्रुवतो जातु लक्ष्यते दुष्टभावता ।
प्रसन्नं वदनं चापि तस्मान्मे नास्ति संशयः ॥६-१७-६२॥
अशङ्कितमतिः स्वस्थो न शठः परिसर्पति ।
न चास्य दुष्टवागस्ति तस्मान्मे नास्ति संशयः ॥६-१७-६३॥
आकारश्छाद्यमानोऽपि न शक्यो विनिगूहितुम् ।
बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम् ॥६-१७-६४॥
देशकालोपपन्नं च कार्यं कार्यविदां वर ।
सफलं कुरुते क्षिप्रं प्रयोगेणाभिसंहितम् ॥६-१७-६५॥
उद्योगं तव सम्प्रेक्ष्य मिथ्यावृत्तं च रावणम् ।
वालिनं च हतं श्रुत्वा सुग्रीवं चाभिषेचितम् ॥६-१७-६६॥
राज्यं प्रार्थयमानस्तु बुद्धिपूर्वमिहागतः ।
एतावत् तु पुरस्कृत्य युज्यते तस्य संग्रहः ॥६-१७-६७॥
यथाशक्ति मयोक्तं तु राक्षसस्यार्जवं प्रति ।
प्रमाणं त्वं हि शेषस्य श्रुत्वा बुद्धिमतां वर ॥६-१७-६८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे विभीषणशरणागतिनिवेदनम् नाम सप्तदशः सर्गः ॥६-१७॥
Previous
विभीषणाक्रोशः
Next
विभीषणसंग्रहनिर्णयः