भरतसमागमः
युद्धकाण्डः / भरतसमागमः
Script
Translation
Previous
हनूमद्भरतसंभाषणम्
Next
श्रीरामपट्टाभिषेकः
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे भरतसमागमः नाम त्रिंशदधिकशततमः सर्गः ॥६-१३०॥
श्रुत्वा तु परमानन्दं भरतः सत्यविक्रमः ।
हृष्टमाज्ञापयामास शत्रुघ्नं परवीरहा ॥६-१३०-१॥
दैवतानि च सर्वाणि चैत्यानि नगरस्य च ।
सुगन्धमाल्यैर्वादित्रैरर्चन्तु शुचयो नराः ॥६-१३०-२॥
सूताः स्तुतिपुराणज्ञाः सर्वे वैतालिकास्तथा ।
सर्वे वादित्रकुशला गणिकाश्चैव सर्वशः ॥६-१३०-३॥
राजदारास्तथामात्याः सैन्याः सेनाङ्गनागणाः ।
ब्राह्मणाश्च सराजन्याः श्रेणीमुख्यास्तथा गणाः ॥६-१३०-४॥
अभिनिर्यान्तु रामस्य द्रष्टुं शशिनिभं मुखम् ।
भरतस्य वचः श्रुत्वा शत्रुघ्नः परवीरहा ॥६-१३०-५॥
विष्टीरनेकसाहस्रीश्चोदयामास भागशः ।
समीकुरुत निम्नानि विषमाणि समानि च ॥६-१३०-६॥
स्थानानि च निरस्यन्तां नन्दिग्रामादितः परम् ।
सिञ्चन्तु पृथिवीं कृत्स्नां हिमशीतेन वारिणा ॥६-१३०-७॥
ततोऽभ्यवकिरन्त्वन्ये लाजैः पुष्पैश्च सर्वतः ।
समुच्छ्रितपताकास्तु रथ्याः पुरवरोत्तमे ॥६-१३०-८॥
शोभयन्तु च वेश्मानि सूर्यस्योदयनं प्रति ।
स्रग्दाममुक्तपुष्पैश्च सुवर्णैः पञ्चवर्णकैः ॥६-१३०-९॥
राजमार्गमसम्बाधं किरन्तु शतशो नराः ।
ततस्तच्छासनं श्रुत्वा शत्रुघ्नस्य मुदान्विताः ॥६-१३०-१०॥
धृष्टिर्जयन्तो विजयः सिद्धार्थश्चार्थसाधकः ।
अशोको मन्त्रपालश्च सुमन्त्रश्चापि निर्ययुः ॥६-१३०-११॥
मत्तैर्नागसहस्रैश्च सध्वजैः सुविभूषितैः ।
अपरे हेमकक्षाभिः सगजाभिः करेणुभिः ॥६-१३०-१२॥
निर्ययुस्तुरगाक्रान्ता रथैश्च सुमहारथाः ।
शक्त्यृष्टिपाशहस्तानां सध्वजानां पताकिनाम् ॥६-१३०-१३॥
तुरगाणां सहस्रैश्च मुख्यैर्मुख्यतरान्वितैः ।
पदातीनां सहस्रैश्च वीराः परिवृता ययुः ॥६-१३०-१४॥
ततो यानान्युपारूढाः सर्वा दशरथस्त्रियः ।
कौसल्यां प्रमुखे कृत्वा सुमित्रां चापि निर्ययुः ॥६-१३०-१५॥
कैकेय्या सहिताः सर्वा नन्दिग्राममुपागमन् ॥६-१३०-१६॥
द्विजातिमुख्यैर्धर्मात्मा श्रेणीमुख्यैः सनैगमैः ।
माल्यमोदकहस्तैश्च मन्त्रिभिर्भरतो वृतः ॥६-१३०-१७॥
शङ्खभेरीनिनादैश्च बन्दिभिश्चाभिनन्दितः ।
आर्यपादौ गृहीत्वा तु शिरसा धर्मकोविदः ॥६-१३०-१८॥
पाण्डुरं छत्रमादाय शुक्लमाल्योपशोभितम् ।
शुक्ले च वालव्यजने राजार्हे हेमभूषिते ॥६-१३०-१९॥
उपवासकृशो दीनश्चीरकृष्णाजिनाम्बरः ।
भ्रातुरागमनं श्रुत्वा तत्पूर्वं हर्षमागतः ॥६-१३०-२०॥
प्रत्युद्ययौ यदा रामं महात्मा सचिवैः सह ।
अश्वानां खुरशब्दैश्च रथनेमिस्वनेन च ॥६-१३०-२१॥
शङ्खदुन्दुभिनादेन संचचालेव मेदिनी ।
गजानां बृंहितैश्चापि शङ्खदुन्दुभिनिःस्वनैः ॥६-१३०-२२॥
कृत्स्नं तु नगरं तत् तु नन्दिग्राममुपागमत् ।
समीक्ष्य भरतो वाक्यमुवाच पवनात्मजम् ॥६-१३०-२३॥
कच्चिन्न खलु कापेयी सेव्यते चलचित्तता ।
नहि पश्यामि काकुत्स्थं राममार्यं परंतपम् ॥६-१३०-२४॥
कच्चिन्न चानुदृश्यन्ते कपयः कामरूपिणः ।
अथैवमुक्ते वचने हनूमानिदमब्रवीत् ॥६-१३०-२५॥
अर्थ्यं विज्ञापयन्नेव भरतं सत्यविक्रमम् ।
सदाफलान् कुसुमितान् वृक्षान् प्राप्य मधुस्रवान् ॥६-१३०-२६॥
भरद्वाजप्रसादेन मत्तभ्रमरनादितान् ।
तस्य चैव वरो दत्तो वासवेन परंतप ॥६-१३०-२७॥
ससैन्यस्य तदातिथ्यं कृतं सर्वगुणान्वितम् ।
निःस्वनः श्रूयते भीमः प्रहृष्टानां वनौकसाम् ॥६-१३०-२८॥
मन्ये वानरसेना सा नदीं तरति गोमतीम् ।
रजोवर्षं समुद्भूतं पश्य सालवनं प्रति ॥६-१३०-२९॥
मन्ये सालवनं रम्यं लोलयन्ति प्लवंगमाः ।
तदेतद् दृश्यते दूराद् विमानं चन्द्रसंनिभम् ॥६-१३०-३०॥
विमानं पुष्पकं दिव्यं मनसा ब्रह्मनिर्मितम् ।
रावणं बान्धवैः सार्धं हत्वा लब्धं महात्मना ॥६-१३०-३१॥
तरुणादित्यसंकाशं विमानं रामवाहनम् ।
धनदस्य प्रसादेन दिव्यमेतन्मनोजवम् ॥६-१३०-३२॥
एतस्मिन् भ्रातरौ वीरौ वैदेह्या सह राघवौ ।
सुग्रीवश्च महातेजा राक्षसश्च विभीषणः ॥६-१३०-३३॥
ततो हर्षसमुद्भूतो निःस्वनो दिवमस्पृशत् ।
स्त्रीबालयुववृद्धानां रामोऽयमिति कीर्तिते ॥६-१३०-३४॥
रथकुञ्जरवाजिभ्यस्तेऽवतीर्य महीं गताः ।
ददृशुस्तं विमानस्थं नराः सोममिवाम्बरे ॥६-१३०-३५॥
प्राञ्जलिर्भरतो भूत्वा प्रहृष्टो राघवोन्मुखः ।
यथार्थेनार्घ्यपाद्याद्यैस्ततो राममपूजयत् ॥६-१३०-३६॥
मनसा ब्रह्मणा सृष्टे विमाने भरताग्रजः ।
रराज पृथुदीर्घाक्षो वज्रपाणिरिवामरः ॥६-१३०-३७॥
ततो विमानाग्रगतं भरतो भ्रातरं तदा ।
ववन्दे प्रणतो रामं मेरुस्थमिव भास्करम् ॥६-१३०-३८॥
ततो रामाभ्यनुज्ञातं तद् विमानमनुत्तमम् ।
हंसयुक्तं महावेगं निपपात महीतलम् ॥६-१३०-३९॥
आरोपितो विमानं तद् भरतः सत्यविक्रमः ।
राममासाद्य मुदितः पुनरेवाभ्यवादयत् ॥६-१३०-४०॥
तं समुत्थाय काकुत्स्थश्चिरस्याक्षिपथं गतम् ।
अङ्के भरतमारोप्य मुदितः परिषस्वजे ॥६-१३०-४१॥
ततो लक्ष्मणमासाद्य वैदेहीं च परंतपः ।
अथाभ्यवादयत् प्रीतो भरतो नाम चाब्रवीत् ॥६-१३०-४२॥
सुग्रीवं केकयीपुत्रो जाम्बवन्तमथाङ्गदम् ।
मैन्दं च द्विविदं नीलमृषभं चैव सस्वजे ॥६-१३०-४३॥
सुषेणं च नलं चैव गवाक्षं गन्धमादनम् ।
शरभं पनसं चैव परितः परिषस्वजे ॥६-१३०-४४॥
ते कृत्वा मानुषं रूपं वानराः कामरूपिणः ।
कुशलं पर्यपृच्छंस्ते प्रहृष्टा भरतं तदा ॥६-१३०-४५॥
अथाब्रवीद् राजपुत्रः सुग्रीवं वानरर्षभम् ।
परिष्वज्य महातेजा भरतो धर्मिणां वरः ॥६-१३०-४६॥
त्वमस्माकं चतुर्णां वै भ्राता सुग्रीव पञ्चमः ।
सौहृदाज्जायते मित्रमपकारोऽरिलक्षणम् ॥६-१३०-४७॥
विभीषणं च भरतः सान्त्ववाक्यमथाब्रवीत् ।
दिष्ट्या त्वया सहायेन कृतं कर्म सुदुष्करम् ॥६-१३०-४८॥
शत्रुघ्नश्च तदा राममभिवाद्य सलक्ष्मणम् ।
सीतायाश्चरणौ वीरो विनयादभ्यवादयत् ॥६-१३०-४९॥
रामो मातरमासाद्य विवर्णां शोककर्शिताम् ।
जग्राह प्रणतः पादौ मनो मातुः प्रहर्षयन् ॥६-१३०-५०॥
अभिवाद्य सुमित्रां च कैकेयीं च यशस्विनीम् ।
स मातॄश्च ततः सर्वाः पुरोहितमुपागमत् ॥६-१३०-५१॥
स्वागतं ते महाबाहो कौसल्यानन्दवर्धन ।
इति प्राञ्जलयः सर्वे नागरा राममब्रुवन् ॥६-१३०-५२॥
तान्यञ्जलिसहस्राणि प्रगृहीतानि नागरैः ।
व्याकोशानीव पद्मानि ददर्श भरताग्रजः ॥६-१३०-५३॥
पादुके ते तु रामस्य गृहीत्वा भरतः स्वयम् ।
चरणाभ्यां नरेन्द्रस्य योजयामास धर्मवित् ॥६-१३०-५४॥
अब्रवीच्च तदा रामं भरतः स कृताञ्जलिः ।
एतत् ते सकलं राज्यं न्यासं निर्यातितं मया ॥६-१३०-५५॥
अद्य जन्म कृतार्थं मे संवृत्तश्च मनोरथः ।
यत् त्वां पश्यामि राजानमयोध्यां पुनरागतम् ॥६-१३०-५६॥
अवेक्षतां भवान् कोशं कोष्ठागारं गृहं बलम् ।
भवतस्तेजसा सर्वं कृतं दशगुणं मया ॥६-१३०-५७॥
तथा ब्रुवाणं भरतं दृष्ट्वा तं भ्रातृवत्सलम् ।
मुमुचुर्वानरा बाष्पं राक्षसश्च विभीषणः ॥६-१३०-५८॥
ततः प्रहर्षाद् भरतमङ्कमारोप्य राघवः ।
ययौ तेन विमानेन ससैन्यो भरताश्रमम् ॥६-१३०-५९॥
भरताश्रममासाद्य ससैन्यो राघवस्तदा ।
अवतीर्य विमानाग्रादवतस्थे महीतले ॥६-१३०-६०॥
अब्रवीत् तु तदा रामस्तद् विमानमनुत्तमम् ।
वह वैश्रवणं देवमनुजानामि गम्यताम् ॥६-१३०-६१॥
ततो रामाभ्यनुज्ञातं तद् विमानमनुत्तमम् ।
उत्तरां दिशमुद्दिश्य जगाम धनदालयम् ॥६-१३०-६२॥
विमानं पुष्पकं दिव्यं संगृहीतं तु रक्षसा ।
अगमद् धनदं वेगाद् रामवाक्यप्रचोदितम् ॥६-१३०-६३॥
पुरोहितस्यात्मसखस्य राघवो बृहस्पतेः शक्र इवामराधिपः ।
निपीड्य पादौ पृथगासने शुभे सहैव तेनोपविवेश वीर्यवान् ॥६-१३०-६४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे भरतसमागमः नाम त्रिंशदधिकशततमः सर्गः ॥६-१३०॥
Previous
हनूमद्भरतसंभाषणम्
Next
श्रीरामपट्टाभिषेकः