श्रीरामपट्टाभिषेकः

युद्धकाण्डः / श्रीरामपट्टाभिषेकः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे श्रीरामपट्टाभिषेकः नाम एकत्रिंशदधिकशततमः सर्गः ॥६-१३१॥
शिरस्यञ्जलिमाधाय कैकेय्यानन्दवर्धनः । बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम् ॥६-१३१-१॥
पूजिता मामिका माता दत्तं राज्यमिदं मम । तद् ददामि पुनस्तुभ्यं यथा त्वमददा मम ॥६-१३१-२॥
धुरमेकाकिना न्यस्तां वृषभेण बलीयसा । किशोरवद् गुरुं भारं न वोढुमहमुत्सहे ॥६-१३१-३॥
वारिवेगेन महता भिन्नः सेतुरिव क्षरन् । दुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम् ॥६-१३१-४॥
गतिं खर इवाश्वस्य हंसस्येव च वायसः । नान्वेतुमुत्सहे वीर तव मार्गमरिंदम ॥६-१३१-५॥
यथा चारोपितो वृक्षो जातश्चान्तर्निवेशने । महानपि दुरारोहो महास्कन्धः प्रशाखवान् ॥६-१३१-६॥
शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयन् । तस्य नानुभवेदर्थं यस्य हेतोः स रोपितः ॥६-१३१-७॥
एषोपमा महाबाहो त्वमर्थं वेत्तुमर्हसि । यद्यस्मान् मनुजेन्द्र त्वं भर्ता भृत्यान् न शाधि हि ॥६-१३१-८॥
जगदद्याभिषिक्तं त्वामनुपश्यतु राघव । प्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसम् ॥६-१३१-९॥
तूर्यसंघातनिर्घोषैः काञ्चीनूपुरनिःस्वनैः । मधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व शेष्व च ॥६-१३१-१०॥
यावदावर्तते चक्रं यावती च वसुंधरा । तावत् त्वमिह लोकस्य स्वामित्वमनुवर्तय ॥६-१३१-११॥
भरतस्य वचः श्रुत्वा रामः परपुरञ्जयः । तथेति प्रतिजग्राह निषसादासने शुभे ॥६-१३१-१२॥
ततः शत्रुघ्नवचनान्निपुणाः श्मश्रुवर्धनाः । सुखहस्ताः सुशीघ्राश्च राघवं पर्यवारयन् ॥६-१३१-१३॥
पूर्वं तु भरते स्नाते लक्ष्मणे च महाबले । सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे ॥६-१३१-१४॥
विशोधितजटः स्नातश्चित्रमाल्यानुलेपनः । महार्हवसनोपेतस्तस्थौ तत्र श्रिया ज्वलन् ॥६-१३१-१५॥
प्रतिकर्म च रामस्य कारयामास वीर्यवान् । लक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः ॥६-१३१-१६॥
प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः । आत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम् ॥६-१३१-१७॥
ततो वानरपत्नीनां सर्वासामेव शोभनम् । चकार यत्नात् कौसल्या प्रहृष्टा पुत्रवत्सला ॥६-१३१-१८॥
ततः शत्रुघ्नवचनात् सुमन्त्रो नाम सारथिः । योजयित्वाभिचक्राम रथं सर्वाङ्गशोभनम् ॥६-१३१-१९॥
अग्न्यर्कामलसंकाशं दिव्यं दृष्ट्वा रथं स्थितम् । आरुरोह महाबाहू रामः परपुरंजयः ॥६-१३१-२०॥
सुग्रीवो हनुमांश्चैव महेन्द्रसदृशद्युती । स्नातौ दिव्यनिभैर्वस्त्रैर्जग्मतुः शुभकुण्डलौ ॥६-१३१-२१॥
सर्वाभरणजुष्टाश्च ययुस्ताः शुभकुण्डलाः । सुग्रीवपत्न्यः सीता च द्रष्टुं नगरमुत्सुकाः ॥६-१३१-२२॥
अयोध्यायां च सचिवा राज्ञो दशरथस्य च । पुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत् ॥६-१३१-२३॥
अशोको विजयश्चैव सिद्धार्थश्च समाहिताः । मन्त्रयन् रामवृद्ध्यर्थमृद्ध्यर्थं नगरस्य च ॥६-१३१-२४॥
सर्वमेवाभिषेकार्थं जयार्हस्य महात्मनः । कर्तुमर्हथ रामस्य यद् यन्मङ्गलपूर्वकम् ॥६-१३१-२५॥
इति ते मन्त्रिणः सर्वे संदिश्य च पुरोहितः । नगरान्निर्ययुस्तूर्णं रामदर्शनबुद्धयः ॥६-१३१-२६॥
हरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः । प्रययौ रथमास्थाय रामो नगरमुत्तमम् ॥६-१३१-२७॥
जग्राह भरतो रश्मीन् शत्रुघ्नश्छत्रमाददे । लक्ष्मणो व्यजनं तस्य मूर्ध्नि संवीजयंस्तदा ॥६-१३१-२८॥
श्वेतं च वालव्यजनं जगृहे परितः स्थितः । अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः ॥६-१३१-२९॥
ऋषिसङ्घैस्तदाऽऽकाशे देवैश्च समरुद्गणैः । स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः ॥६-१३१-३०॥
ततः शत्रुञ्जयं नाम कुञ्जरं पर्वतोपमम् । आरुरोह महातेजाः सुग्रीवः प्लवगर्षभः ॥६-१३१-३१॥
नव नागसहस्राणि ययुरास्थाय वानराः । मानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः ॥६-१३१-३२॥
शङ्खशब्दप्रणादैश्च दुन्दुभीनां च निःस्वनैः । प्रययौ पुरुषव्याघ्रस्तां पुरीं हर्म्यमालिनीम् ॥६-१३१-३३॥
ददृशुस्ते समायान्तं राघवं सपुरःसरम् । विराजमानं वपुषा रथेनातिरथं तदा ॥६-१३१-३४॥
ते वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताः । अनुजग्मुर्महात्मानं भ्रातृभिः परिवारितम् ॥६-१३१-३५॥
अमात्यैर्ब्राह्मणैश्चैव तथा प्रकृतिभिर्वृतः । श्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः ॥६-१३१-३६॥
स पुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः । प्रव्याहरद्भिर्मुदितैर्मङ्गलानि वृतो ययौ ॥६-१३१-३७॥
अक्षतं जातरूपं च गावः कन्याः सहद्विजाः । नरा मोदकहस्ताश्च रामस्य पुरतो ययुः ॥६-१३१-३८॥
सख्यं च रामः सुग्रीवे प्रभावं चानिलात्मजे । वानराणां च तत् कर्म ह्याचचक्षेऽथ मन्त्रिणाम् ॥६-१३१-३९॥
श्रुत्वा च विस्मयं जग्मुरयोध्यापुरवासिनः । वानराणां च तत् कर्म राक्षसानां च तद् बलम् । विभीषणस्य संयोगमाचचक्षेऽथ मन्त्रिणाम् ॥६-१३१-४०॥
द्युतिमानेतदाख्याय रामो वानरसंयुतः । हृष्टपुष्टजनाकीर्णामयोध्यां प्रविवेश सः ॥६-१३१-४१॥
ततो ह्यभ्युच्छ्रयन् पौराः पताकाश्च गृहे गृहे । ऐक्ष्वाकाध्युषितं रम्यमाससाद पितुर्गृहम् ॥६-१३१-४२॥
अथाब्रवीद् राजपुत्रो भरतं धर्मिणां वरम् । अर्थोपहितया वाचा मधुरं रघुनन्दनः ॥६-१३१-४३॥
पितुर्भवनमासाद्य प्रविश्य च महात्मनः । कौसल्यां च सुमित्रां च कैकेयीमभिवाद्य च ॥६-१३१-४४॥
तच्च मद्भवनं श्रेष्ठं साशोकवनिकं महत् । मुक्तावैदूर्यसंकीर्णं सुग्रीवाय निवेदय ॥६-१३१-४५॥
तस्य तद् वचनं श्रुत्वा भरतः सत्यविक्रमः । हस्ते गृहीत्वा सुग्रीवं प्रविवेश तमालयम् ॥६-१३१-४६॥
ततस्तैलप्रदीपांश्च पर्यङ्कास्तरणानि च । गृहीत्वा विविशुः क्षिप्रं शत्रुघ्नेन प्रचोदिताः ॥६-१३१-४७॥
उवाच च महातेजाः सुग्रीवं राघवानुजः । अभिषेकाय रामस्य दूतानाज्ञापय प्रभो ॥६-१३१-४८॥
सौवर्णान् वानरेन्द्राणां चतुर्णां चतुरो घटान् । ददौ क्षिप्रं स सुग्रीवः सर्वरत्नविभूषितान् ॥६-१३१-४९॥
तथा प्रत्यूषसमये चतुर्णां सागराम्भसाम् । पूर्णैर्घटैः प्रतीक्षध्वं तथा कुरुत वानराः ॥६-१३१-५०॥
एवमुक्ता महात्मानो वानरा वारणोपमाः । उत्पेतुर्गगनं शीघ्रं गरुडा इव शीघ्रगाः ॥६-१३१-५१॥
जाम्बवांश्च हनूमांश्च वेगदर्शी च वानरः । ऋषभश्चैव कलशाञ्जलपूर्णानथानयन् ॥६-१३१-५२॥
नदीशतानां पञ्चानां जलं कुम्भैरुपाहरन् । पूर्वात् समुद्रात् कलशं जलपूर्णमथानयत् ॥६-१३१-५३॥
सुषेणः सत्त्वसम्पन्नः सर्वरत्नविभूषितम् । ऋषभो दक्षिणात्तूर्णं समुद्राज्जलमानयत् ॥६-१३१-५४॥
रक्तचन्दनकर्पूरैः संवृतं काञ्चनं घटम् । गवयः पश्चिमात् तोयमाजहार महार्णवात् ॥६-१३१-५५॥
रत्नकुम्भेन महता शीतं मारुतविक्रमः । उत्तराच्च जलं शीघ्रं गरुडानिलविक्रमः ॥६-१३१-५६॥
आजहार स धर्मात्मानिलः सर्वगुणान्वितः । ततस्तैर्वानरश्रेष्ठैरानीतं प्रेक्ष्य तज्जलम् ॥६-१३१-५७॥
अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह । पुरोहिताय श्रेष्ठाय सुहृद्भ्यश्च न्यवेदयत् ॥६-१३१-५८॥
ततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह । रामं रत्नमये पीठे ससीतं संन्यवेशयत् ॥६-१३१-५९॥
वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः । कात्यायनः सुयज्ञश्च गौतमो विजयस्तथा ॥६-१३१-६०॥
अभ्यषिञ्चन्नरव्याघ्रं प्रसन्नेन सुगन्धिना । सलिलेन सहस्राक्षं वसवो वासवं यथा ॥६-१३१-६१॥
ऋत्विग्भिर्ब्राह्मणैः पूर्वं कन्याभिर्मन्त्रिभिस्तथा । योधैश्चैवाभ्यषिञ्चस्ते सम्प्रहृष्टैः सनैगमैः ॥६-१३१-६२॥
सर्वौषधिरसैश्चापि दैवतैर्नभसि स्थितैः । चतुर्भिर्लोकपालैश्च सर्वैर्देवैश्च संगतैः ॥६-१३१-६३॥
ब्रह्मणा निर्मितं पूर्वं किरीटं रत्नशोभितम् । अभिषिक्तः पुरा येन मनुस्तं दीप्ततेजसम् ॥६-१३१-६४॥
तस्यान्ववाये राजानः क्रमाद् येनाभिषेचिताः । सभायां हेमक्लृप्तायां शोभितायां महाधनैः ॥६-१३१-६५॥
रत्नैर्नानाविधैश्चैव चित्रितायां सुशोभनैः । नानारत्नमये पीठे कल्पयित्वा यथाविधि ॥६-१३१-६६॥
किरीटेन ततः पश्चाद् वसिष्ठेन महात्मना । ऋत्विग्भिर्भूषणैश्चैव समयोक्ष्यत राघवः ॥६-१३१-६७॥
छत्रं तस्य च जग्राह शत्रुघ्नः पाण्डुरं शुभम् । श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः ॥६-१३१-६८॥
अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः । मालां ज्वलन्तीं वपुषा काञ्चनीं शतपुष्कराम् ॥६-१३१-६९॥
राघवाय ददौ वायुर्वासवेन प्रचोदितः । सर्वरत्नसमायुक्तं मणिभिश्च विभूषितम् ॥६-१३१-७०॥
मुक्ताहारं नरेन्द्राय ददौ शक्रप्रचोदितः । प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः ॥६-१३१-७१॥
अभिषेके तदर्हस्य तदा रामस्य धीमतः । भूमिः सस्यवती चैव फलवन्तश्च पादपाः ॥६-१३१-७२॥
गन्धवन्ति च पुष्पाणि बभूवू राघवोत्सवे । सहस्रशतमश्वानां धेनूनां च गवां तथा ॥६-१३१-७३॥
ददौ शतवृषान् पूर्वं द्विजेभ्यो मनुजर्षभः । त्रिंशत्कोटीर्हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः ॥६-१३१-७४॥
नानाभरणवस्त्राणि महार्हाणि च राघवः । अर्करश्मिप्रतीकाशां काञ्चनीं मणिविग्रहाम् ॥६-१३१-७५॥
सुग्रीवाय स्रजं दिव्यां प्रायच्छन्मनुजाधिपः । वैदूर्यमयचित्रे च चन्द्ररश्मिविभूषिते ॥६-१३१-७६॥
वालिपुत्राय धृतिमानङ्गदायाङ्गदे ददौ । मणिप्रवरजुष्टं तं मुक्ताहारमनुत्तमम् ॥६-१३१-७७॥
सीतायै प्रददौ रामश्चन्द्ररश्मिसमप्रभम् । अरजे वाससी दिव्ये शुभान्याभरणानि च ॥६-१३१-७८॥
अवेक्षमाणा वैदेही प्रददौ वायुसूनवे । अवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनी ॥६-१३१-७९॥
अवैक्षत हरीन् सर्वान् भर्तारं च मुहुर्मुहुः । तामिङ्गितज्ञः सम्प्रेक्ष्य बभाषे जनकात्मजाम् ॥६-१३१-८०॥
प्रदेहि सुभगे हारं यस्य तुष्टासि भामिनि । अथ सा वायुपुत्राय तं हारमसितेक्षणा ॥६-१३१-८१॥
तेजो धृतिर्यशो दाक्ष्यं सामर्थ्यं विनयो नयः । पौरुषं विक्रमो बुद्धिर्यस्मिन् नेतानि नित्यदा ॥६-१३१-८२॥
हनूमांस्तेन हारेण शुशुभे वानरर्षभः । चन्द्रांशुचयगौरेण श्वेताभ्रेण यथाचलः ॥६-१३१-८३॥
सर्वे वानरवृद्धाश्च ये चान्ये वानरोत्तमाः । वासोभिर्भूषणैश्चैव यथार्हं प्रतिपूजिताः ॥६-१३१-८४॥
विभीषणोऽथ सुग्रीवो हनूमाञ्जाम्बवांस्तथा । सर्वे वानरमुख्याश्च रामेणाक्लिष्टकर्मणा ॥६-१३१-८५॥
यथार्हं पूजिताः सर्वे कामै रत्नैश्च पुष्कलैः । प्रहृष्टमनसः सर्वे जग्मुरेव यथागतम् ॥६-१३१-८६॥
ततो द्विविदमैन्दाभ्यां नीलाय च परंतपः । सर्वान् कामगुणान् वीक्ष्य प्रददौ वसुधाधिपः ॥६-१३१-८७॥
दृष्ट्वा सर्वे महात्मानस्ततस्ते वानरर्षभाः । विसृष्टाः पार्थिवेन्द्रेण किष्किन्धां समुपागमन् ॥६-१३१-८८॥
सुग्रीवो वानरश्रेष्ठो दृष्ट्वा रामाभिषेचनम् । पूजितश्चैव रामेण किष्किन्धां प्राविशत् पुरीम् ॥६-१३१-८९॥
विभीषणोऽपि धर्मात्मा सह तैर्नैर्ऋतर्षभैः । लब्ध्वा कुलधनं राजा लङ्कां प्रायान्महायशाः ॥६-१३१-९०॥
स राज्यमखिलं शासन्निहतारिर्महायशाः । राघवः परमोदारः शशास परया मुदा । उवाच लक्ष्मणं रामो धर्मज्ञं धर्मवत्सलः ॥६-१३१-९१॥
आतिष्ठ धर्मज्ञ मया सहेमां गां पूर्वराजाध्युषितां बलेन । तुल्यं मया त्वं पितृभिर्धृता या तां यौवराज्ये धुरमुद्वहस्व ॥६-१३१-९२॥
सर्वात्मना पर्यनुनीयमानो यदा न सौमित्रिरुपैति योगम् । नियुज्यमानो भुवि यौवराज्ये ततोऽभ्यषिञ्चद् भरतं महात्मा ॥६-१३१-९३॥
पौण्डरीकाश्वमेधाभ्यां वाजपेयेन चासकृत् । अन्यैश्च विविधैर्यज्ञैरयजत् पार्थिवात्मजः ॥६-१३१-९४॥
राज्यं दशसहस्राणि प्राप्य वर्षाणि राघवः । शताश्वमेधानाजह्रे सदश्वान् भूरिदक्षिणान् ॥६-१३१-९५॥
आजानुलम्बिबाहुः स महावक्षाः प्रतापवान् । लक्ष्मणानुचरो रामः शशास पृथिवीमिमाम् ॥६-१३१-९६॥
राघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम् । ईजे बहुविधैर्यज्ञैः ससुहृज्ज्ञातिबान्धवः ॥६-१३१-९७॥
न पर्यदेवन् विधवा न च व्यालकृतं भयम् । न व्याधिजं भयं चासीद् रामे राज्यं प्रशासति ॥६-१३१-९८॥
निर्दस्युरभवल्लोको नानर्थं कश्चिदस्पृशत् । न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते ॥६-१३१-९९॥
सर्वं मुदितमेवासीत् सर्वो धर्मपरोऽभवत् । राममेवानुपश्यन्तो नाभ्यहिंसन् परस्परम् ॥६-१३१-१००॥
आसन् वर्षसहस्राणि तथा पुत्रसहस्रिणः । निरामया विशोकाश्च रामे राज्यं प्रशासति ॥६-१३१-१०१॥
रामो रामो राम इति प्रजानामभवन् कथाः । रामभूतं जगदभूद् रामे राज्यं प्रशासति ॥६-१३१-१०२॥
नित्यमूला नित्यफलास्तरवस्तत्र पुष्पिताः । कामवर्षी च पर्जन्यः सुखस्पर्शश्च मारुतः ॥६-१३१-१०३॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा लोभविवर्जिताः । स्वकर्मसु प्रवर्तन्ते तुष्टाः स्वैरेव कर्मभिः ॥६-१३१-१०४॥
आसन् प्रजा धर्मपरा रामे शासति नानृताः । सर्वे लक्षणसम्पन्नाः सर्वे धर्मपरायणाः ॥६-१३१-१०५॥
दशवर्षसहस्राणि दशवर्षशतानि च । भ्रातृभिः सहितः श्रीमान् रामो राज्यमकारयत् ॥६-१३१-१०६॥
धर्म्यं यशस्यमायुष्यं राज्ञां च विजयावहम् । आदिकाव्यमिदं चार्षं पुरा वाल्मीकिना कृतम् ॥६-१३१-१०७॥
यः शृणोति सदा लोके नरः पापात् प्रमुच्यते । पुत्रकामश्च पुत्रान् वै धनकामो धनानि च ॥६-१३१-१०८॥
लभते मनुजो लोके श्रुत्वा रामाभिषेचनम् । महीं विजयते राजा रिपूंश्चाप्यधितिष्ठति ॥६-१३१-१०९॥
राघवेण यथा माता सुमित्रा लक्ष्मणेन च । भरतेन च कैकेयी जीवपुत्रास्तथा स्त्रियः ॥६-१३१-११०॥
भविष्यन्ति सदानन्दाः पुत्रपौत्रसमन्विताः । श्रुत्वा रामायणमिदं दीर्घमायुश्च विन्दति ॥६-१३१-१११॥
रामस्य विजयं चेमं सर्वमक्लिष्टकर्मणः । शृणोति य इदं काव्यं पुरा वाल्मीकिना कृतम् ॥६-१३१-११२॥
श्रद्दधानो जितक्रोधो दुर्गाण्यतितरत्यसौ । समागम्य प्रवासान्ते रमन्ते सह बान्धवैः ॥६-१३१-११३॥
शृण्वन्ति य इदं काव्यं पुरा वाल्मीकिना कृतम् । ते प्रार्थितान् वरान् सर्वान् प्राप्नुवन्तीह राघवात् ॥६-१३१-११४॥
श्रवणेन सुराः सर्वे प्रीयन्ते सम्प्रशृण्वताम् । विनायकाश्च शाम्यन्ति गृहे तिष्ठन्ति यस्य वै ॥६-१३१-११५॥
विजयेत महीं राजा प्रवासी स्वस्तिमान् भवेत् । स्त्रियो रजस्वलाः श्रुत्वा पुत्रान् सूयुरनुत्तमान् ॥६-१३१-११६॥
पूजयंश्च पठंश्चैनमितिहासं पुरातनम् । सर्वपापैः प्रमुच्येत दीर्घमायुरवाप्नुयात् ॥६-१३१-११७॥
प्रणम्य शिरसा नित्यं श्रोतव्यं क्षत्रियैर्द्विजात् । ऐश्वर्यं पुत्रलाभश्च भविष्यति न संशयः ॥६-१३१-११८॥
रामायणमिदं कृत्स्नं शृण्वतः पठतः सदा । प्रीयते सततं रामः स हि विष्णुः सनातनः ॥६-१३१-११९॥
आदिदेवो महाबाहुर्हरिर्नारायणः प्रभुः । साक्षाद् रामो रघुश्रेष्ठः शेषो लक्ष्मण उच्यते ॥६-१३१-१२०॥
एवमेतत् पुरावृत्तमाख्यानं भद्रमस्तु वः । प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् ॥६-१३१-१२१॥
देवाश्च सर्वे तुष्यन्ति ग्रहणाच्छ्रवणात् तथा । रामायणस्य श्रवणे तृप्यन्ति पितरः सदा ॥६-१३१-१२२॥
भक्त्या रामस्य ये चेमां संहितामृषिणा कृताम् । ये लिखन्तीह च नरास्तेषां वासस्त्रिविष्टपे ॥६-१३१-१२३॥
कुटुम्बवृद्धिं धनधान्यवृद्धिं स्त्रियश्च मुख्याः सुखमुत्तमं च । श्रुत्वा शुभं काव्यमिदं महार्थं प्राप्नोति सर्वां भुवि चार्थसिद्धिम् ॥६-१३१-१२४॥
आयुष्यमारोग्यकरं यशस्यं सौभ्रातृकं बुद्धिकरं शुभं च । श्रोतव्यमेतन्नियमेन सद्भिराख्यानमोजस्करमृद्धिकामैः ॥६-१३१-१२५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे श्रीरामपट्टाभिषेकः नाम एकत्रिंशदधिकशततमः सर्गः ॥६-१३१॥