हनूमद्भरतसंभाषणम्

युद्धकाण्डः / हनूमद्भरतसंभाषणम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे हनूमद्भरतसंभाषणम् नाम नवविंशत्यधिकशततमः सर्गः ॥६-१२९॥
बहूनि नाम वर्षाणि गतस्य सुमहद्वनम् । शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम् ॥६-१२९-१॥
कल्याणी बत गाथेयं लौकिकी प्रतिभाति माम् । एति जीवन्तमानन्दो नरं वर्षशतादपि ॥६-१२९-२॥
राघवस्य हरीणां च कथमासीत् समागमः । कस्मिन् देशे किमाश्रित्य तत्त्वमाख्याहि पृच्छतः ॥६-१२९-३॥
स पृष्टो राजपुत्रेण बृस्यां समुपवेशितः । आचचक्षे ततः सर्वं रामस्य चरितं वने ॥६-१२९-४॥
यथा प्रव्राजितो रामो मातुर्दत्तौ वरौ तव । यथा च पुत्रशोकेन राजा दशरथो मृतः ॥६-१२९-५॥
यथा दूतैस्त्वमानीतस्तूर्णं राजगृहात् प्रभो । त्वयायोध्यां प्रविष्टेन यथा राज्यं न चेप्सितम् ॥६-१२९-६॥
चित्रकूटगिरिं गत्वा राज्येनामित्रकर्शनः । निमन्त्रितस्त्वया भ्राता धर्ममाचरता सताम् ॥६-१२९-७॥
स्थितेन राज्ञो वचने यथा राज्यं विसर्जितम् । आर्यस्य पादुके गृह्य यथासि पुनरागतः ॥६-१२९-८॥
सर्वमेतन्महाबाहो यथावद् विदितं तव । त्वयि प्रतिप्रयाते तु यद् वृत्तं तन्निबोध मे ॥६-१२९-९॥
अपयाते त्वयि तदा समुद्भ्रान्तमृगद्विजम् । परिद्यूनमिवात्यर्थं तद् वनं समपद्यत ॥६-१२९-१०॥
तद्धस्तिमृदितं घोरं सिंहव्याघ्रमृगाकुलम् । प्रविवेशाथ विजनं स महद् दण्डकावनम् ॥६-१२९-११॥
तेषां पुरस्ताद् बलवान् गच्छतां गहने वने । विनदन् सुमहानादं विराधः प्रत्यदृश्यत ॥६-१२९-१२॥
तमुत्क्षिप्य महानादमूर्ध्वबाहुमधोमुखम् । निखाते प्रक्षिपन्ति स्म नदन्तमिव कुञ्जरम् ॥६-१२९-१३॥
तत् कृत्वा दुष्करं कर्म भ्रातरौ रामलक्ष्मणौ । सायाह्ने शरभङ्गस्य रम्यमाश्रममीयतुः ॥६-१२९-१४॥
शरभङ्गे दिवं प्राप्ते रामः सत्यपराक्रमः । अभिवाद्य मुनीन् सर्वाञ्जनस्थानमुपागमत् ॥६-१२९-१५॥
पश्चाच्छूर्पणखा नाम रामपार्श्वमुपागता । ततो रामेण संदिष्टो लक्ष्मणः सहसोत्थितः ॥६-१२९-१६॥
प्रगृह्य खड्गं चिच्छेद कर्णनासं महाबलः । चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ॥६-१२९-१७॥
हतानि वसता तत्र राघवेण महात्मना । एकेन सह संगम्य रामेण रणमूर्धनि ॥६-१२९-१८॥
अह्नश्चतुर्थभागेन निःशेषा राक्षसाः कृताः । महाबला महावीर्यास्तपसो विघ्नकारिणः ॥६-१२९-१९॥
निहता राघवेणाजौ दण्डकारण्यवासिनः । राक्षसाश्च विनिष्पिष्टाः खरश्च निहतो रणे ॥६-१२९-२०॥
दूषणं चाग्रतो हत्वा त्रिशिरास्तदनन्तरम् । ततस्तेनार्दिता बाला रावणं समुपागता ॥६-१२९-२१॥
रावणानुचरो घोरो मारीचो नाम राक्षसः । लोभयामास वैदेहीं भूत्वा रत्नमयो मृगः ॥६-१२९-२२॥
सा राममब्रवीद् दृष्ट्वा वैदेही गृह्यतामिति । अयं मनोहरः कान्त आश्रमो नो भविष्यति ॥६-१२९-२३॥
ततो रामो धनुष्पाणिर्मृगं तमनुधावति । स तं जघान धावन्तं शरेणानतपर्वणा ॥६-१२९-२४॥
अथ सौम्य दशग्रीवो मृगं याति तु राघवे । लक्ष्मणे चापि निष्क्रान्ते प्रविवेशाश्रमं तदा ॥६-१२९-२५॥
जग्राह तरसा सीतां ग्रहः खे रोहिणीमिव । त्रातुकामं ततो युद्धे हत्वा गृध्रं जटायुषम् ॥६-१२९-२६॥
प्रगृह्य सहसा सीतां जगामाशु स राक्षसः । ततस्त्वद्भुतसंकाशाः स्थिताः पर्वतमूर्धनि ॥६-१२९-२७॥
सीतां गृहीत्वा गच्छन्तं वानराः पर्वतोपमाः । ददृशुर्विस्मिताकारा रावणं राक्षसाधिपम् ॥६-१२९-२८॥
ततः शीघ्रतरं गत्वा तद् विमानं मनोजवम् । आरुह्य सह वैदेह्या पुष्पकं स महाबलः ॥६-१२९-२९॥
प्रविवेश तदा लङ्कां रावणो राक्षसेश्वरः । तां सुवर्णपरिष्कारे शुभे महति वेश्मनि ॥६-१२९-३०॥
प्रवेश्य मैथिलीं वाक्यैः सान्त्वयामास रावणः । तृणवद् भाषितं तस्य तं च नैर्ऋतपुङ्गवम् ॥६-१२९-३१॥
अचिन्तयन्ती वैदेही ह्यशोकवनिकां गता । न्यवर्तत तदा रामो मृगं हत्वा तदा वने ॥६-१२९-३२॥
निवर्तमानः काकुत्स्थो दृष्ट्वा गृध्रं स विव्यथे । गृध्रं हतं तदा दृष्ट्वा रामः प्रियतरं पितुः ॥६-१२९-३३॥
मार्गमाणस्तु वैदेहीं राघवः सहलक्ष्मणः । गोदावरीमनुचरन् वनोद्देशांश्च पुष्पितान् ॥६-१२९-३४॥
आसेदतुर्महारण्ये कबन्धं नाम राक्षसम् । ततः कबन्धवचनाद् रामः सत्यपराक्रमः ॥६-१२९-३५॥
ऋष्यमूकगिरिं गत्वा सुग्रीवेण समागतः । तयोः समागमः पूर्वं प्रीत्या हार्दो व्यजायत ॥६-१२९-३६॥
भ्रात्रा निरस्तः क्रुद्धेन सुग्रीवो वालिना पुरा । इतरेतरसंवादात् प्रगाढः प्रणयस्तयोः ॥६-१२९-३७॥
रामः स्वबाहुवीर्येण स्वराज्यं प्रत्यपादयत् । वालिनं समरे हत्वा महाकायं महाबलम् ॥६-१२९-३८॥
सुग्रीवः स्थापितो राज्ये सहितः सर्ववानरैः । रामाय प्रतिजानीते राजपुत्र्यास्तु मार्गणम् ॥६-१२९-३९॥
आदिष्टा वानरेन्द्रेण सुग्रीवेण महात्मना । दश कोट्यः प्लवङ्गानां सर्वाः प्रस्थापिता दिशः ॥६-१२९-४०॥
तेषां नो विप्रकृष्टानां विन्ध्ये पर्वतसत्तमे । भृशं शोकाभितप्तानां महान् कालोऽत्यवर्तत ॥६-१२९-४१॥
भ्राता तु गृध्रराजस्य सम्पातिर्नाम वीर्यवान् । समाख्याति स्म वसतीं सीतां रावणमन्दिरे ॥६-१२९-४२॥
सोऽहं दुःखपरीतानां दुःखं तज्ज्ञातिनां नुदन् । आत्मवीर्यं समास्थाय योजनानां शतं प्लुतः । तत्राहमेकामद्राक्षमशोकवनिकां गताम् ॥६-१२९-४३॥
कौशेयवस्त्रां मलिनां निरानन्दां दृढव्रताम् । तया समेत्य विधिवत् पृष्ट्वा सर्वमनिन्दिताम् ॥६-१२९-४४॥
अभिज्ञानं मया दत्तं रामनामाङ्गुलीयकम् । अभिज्ञानं मणिं लब्ध्वा चरितार्थोऽहमागतः ॥६-१२९-४५॥
मया च पुनरागम्य रामस्याक्लिष्टकर्मणः । अभिज्ञानं मया दत्तमर्चिष्मान् स महामणिः ॥६-१२९-४६॥
श्रुत्वा तां मैथिलीं रामस्त्वाशशंसे च जीवितम् । जीवितान्तमनुप्राप्तः पीत्वामृतमिवातुरः ॥६-१२९-४७॥
उद्योजयिष्यन्नुद्योगं दध्रे लङ्कावधे मनः । जिघांसुरिव लोकान्ते सर्वाँल्लोकान् विभावसुः ॥६-१२९-४८॥
ततः समुद्रमासाद्य नलं सेतुमकारयत् । अतरत् कपिवीराणां वाहिनी तेन सेतुना ॥६-१२९-४९॥
प्रहस्तमवधीन्नीलः कुम्भकर्णं तु राघवः । लक्ष्मणो रावणसुतं स्वयं रामस्तु रावणम् ॥६-१२९-५०॥
स शक्रेण समागम्य यमेन वरुणेन च । महेश्वरस्वयंभूभ्यां तथा दशरथेन च ॥६-१२९-५१॥
तैश्च दत्तवरः श्रीमानृषिभिश्च समागतैः । सुरर्षिभिश्च काकुत्स्थो वराँल्लेभे परंतपः ॥६-१२९-५२॥
स तु दत्तवरः प्रीत्या वानरैश्च समागतैः । पुष्पकेण विमानेन किष्किन्धामभ्युपागमत् ॥६-१२९-५३॥
तां गङ्गां पुनरासाद्य वसन्तं मुनिसंनिधौ । अविघ्नं पुष्ययोगेन श्वो रामं द्रष्टुमर्हसि ॥६-१२९-५४॥
ततः स वाक्यैर्मधुरैर्हनूमतो निशम्य हृष्टो भरतः कृताञ्जलिः । उवाच वाणीं मनसः प्रहर्षिणीं चिरस्य पूर्णः खलु मे मनोरथः ॥६-१२९-५५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे हनूमद्भरतसंभाषणम् नाम नवविंशत्यधिकशततमः सर्गः ॥६-१२९॥