भरतप्रियाख्यानम्

युद्धकाण्डः / भरतप्रियाख्यानम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे भरतप्रियाख्यानम् नाम अष्टाविंशत्यधिकशततमः सर्गः ॥६-१२८॥
अयोध्यां तु समालोक्य चिन्तयामास राघवः । प्रियकामः प्रियं रामस्ततस्त्वरितविक्रमः ॥६-१२८-१॥
चिन्तयित्वा ततो दृष्टिं वानरेषु न्यपातयत् । उवाच धीमांस्तेजस्वी हनूमन्तं प्लवंगमम् ॥६-१२८-२॥
अयोध्यां त्वरितो गत्वा शीघ्रं प्लवगसत्तम । जानीहि कच्चित् कुशली जनो नृपतिमन्दिरे ॥६-१२८-३॥
शृङ्गवेरपुरं प्राप्य गुहं गहनगोचरम् । निषादाधिपतिं ब्रूहि कुशलं वचनान्मम ॥६-१२८-४॥
श्रुत्वा तु मां कुशलिनमरोगं विगतज्वरम् । भविष्यति गुहः प्रीतः स ममात्मसमः सखा ॥६-१२८-५॥
अयोध्यायाश्च ते मार्गं प्रवृत्तिं भरतस्य च । निवेदयिष्यति प्रीतो निषादाधिपतिर्गुहः ॥६-१२८-६॥
भरतस्तु त्वया वाच्यः कुशलं वचनान्मम । सिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम् ॥६-१२८-७॥
हरणं चापि वैदेह्या रावणेन बलीयसा । सुग्रीवेण च संवादं वालिनश्च वधं रणे ॥६-१२८-८॥
मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया । लङ्घयित्वा महातोयमापगापतिमव्ययम् ॥६-१२८-९॥
उपयानं समुद्रस्य सागरस्य च दर्शनम् । यथा च कारितः सेतू रावणश्च यथा हतः ॥६-१२८-१०॥
वरदानं महेन्द्रेण ब्रह्मणा वरुणेन च । महादेवप्रसादाच्च पित्रा मम समागमम् ॥६-१२८-११॥
उपयातं च मां सौम्य भरताय निवेदय । सह राक्षसराजेन हरीणामीश्वरेण च ॥६-१२८-१२॥
जित्वा शत्रुगणान् रामः प्राप्य चानुत्तमं यशः । उपायाति समृद्धार्थः सह मित्रैर्महाबलैः ॥६-१२८-१३॥
एतच्छ्रुत्वा यमाकारं भजते भरतस्ततः । स च ते वेदितव्यः स्यात् सर्वं यच्चापि मां प्रति ॥६-१२८-१४॥
ज्ञेयाः सर्वे च वृत्तान्ता भरतस्येङ्गितानि च । तत्त्वेन मुखवर्णेन दृष्ट्या व्याभाषितेन च ॥६-१२८-१५॥
सर्वकामसमृद्धं हि हस्त्यश्वरथसंकुलम् । पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः ॥६-१२८-१६॥
संगत्या भरतः श्रीमान् राज्येनार्थी स्वयं भवेत् । प्रशास्तु वसुधां सर्वामखिलां रघुनन्दनः ॥६-१२८-१७॥
तस्य बुद्धिं च विज्ञाय व्यवसायं च वानर । यावन्न दूरं याताः स्मः क्षिप्रमागन्तुमर्हसि ॥६-१२८-१८॥
इति प्रतिसमादिष्टो हनूमान् मारुतात्मजः । मानुषं धारयन् रूपमयोध्यां त्वरितो ययौ ॥६-१२८-१९॥
अथोत्पपात वेगेन हनूमान् मारुतात्मजः । गरुत्मानिव वेगेन जिघृक्षन्नुरगोत्तमम् ॥६-१२८-२०॥
लङ्घयित्वा पितृपथं विहगेन्द्रालयं शुभम् । गङ्गायमुनयोर्भीमं समतीत्य समागमम् ॥६-१२८-२१॥
शृङ्गवेरपुरं प्राप्य गुहमासाद्य वीर्यवान् । स वाचा शुभया हृष्टो हनूमानिदमब्रवीत् ॥६-१२८-२२॥
सखा तु तव काकुत्स्थो रामः सत्यपराक्रमः । ससीतः सह सौमित्रिः स त्वां कुशलमब्रवीत् ॥६-१२८-२३॥
पञ्चमीमद्य रजनीमुषित्वा वचनान्मुनेः । भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्यत्रैव राघवम् ॥६-१२८-२४॥
एवमुक्त्वा महातेजाः सम्प्रहृष्टतनूरुहः । उत्पपात महावेगाद् वेगवानविचारयन् ॥६-१२८-२५॥
सोऽपश्यद् रामतीर्थं च नदीं वालुकिनीं तथा । वरूथीं गोमतीं चैव भीमं शालवनं तथा ॥६-१२८-२६॥
प्रजाश्च बहुसाहस्रीः स्फीताञ्जनपदानपि । स गत्वा दूरमध्वानं त्वरितः कपिकुञ्जरः ॥६-१२८-२७॥
आससाद द्रुमान् फुल्लान् नन्दिग्रामसमीपगान् । सुराधिपस्योपवने यथा चैत्ररथे द्रुमान् ॥६-१२८-२८॥
स्त्रीभिः सपुत्रैः पौत्रैश्च रममाणैः स्वलंकृतैः । क्रोशमात्रे त्वयोध्यायाश्चीरकृष्णाजिनाम्बरम् ॥६-१२८-२९॥
ददर्श भरतं दीनं कृशमाश्रमवासिनम् । जटिलं मलदिग्धाङ्गं भ्रातृव्यसनकर्शितम् ॥६-१२८-३०॥
फलमूलाशिनं दान्तं तापसं धर्मचारिणम् । समुन्नतजटाभारं वल्कलाजिनवाससम् ॥६-१२८-३१॥
नियतं भावितात्मानं ब्रह्मर्षिसमतेजसम् । पादुके ते पुरस्कृत्य प्रशासन्तं वसुंधराम् ॥६-१२८-३२॥
चातुर्वर्ण्यस्य लोकस्य त्रातारं सर्वतो भयात् । उपस्थितममात्यैश्च शुचिभिश्च पुरोहितैः ॥६-१२८-३३॥
बलमुख्यैश्च युक्तैश्च काषायाम्बरधारिभिः । नहि ते राजपुत्रं तं चीरकृष्णाजिनाम्बरम् ॥६-१२८-३४॥
परिभोक्तुं व्यवस्यन्ति पौरा वै धर्मवत्सलाः । तं धर्ममिव धर्मज्ञं देहबन्धमिवापरम् ॥६-१२८-३५॥
उवाच प्राञ्जलिर्वाक्यं हनूमान् मारुतात्मजः । वसन्तं दण्डकारण्ये यं त्वं चीरजटाधरम् ॥६-१२८-३६॥
अनुशोचसि काकुत्स्थं स त्वां कौशलमब्रवीत् । प्रियमाख्यामि ते देव शोकं त्यज सुदारुणम् ॥६-१२८-३७॥
अस्मिन् मुहूर्ते भ्रात्रा त्वं रामेण सह संगतः । निहत्य रावणं रामः प्रतिलभ्य च मैथिलीम् ॥६-१२८-३८॥
उपयाति समृद्धार्थः सह मित्रैर्महाबलैः । लक्ष्मणश्च महातेजा वैदेही च यशस्विनी । सीता समग्रा रामेण महेन्द्रेण शची यथा ॥६-१२८-३९॥
एवमुक्तो हनुमता भरतः कैकयीसुतः । पपात सहसा हृष्टो हर्षान्मोहमुपागमत् ॥६-१२८-४०॥
ततो मुहूर्तादुत्थाय प्रत्याश्वस्य च राघवः । हनूमन्तमुवाचेदं भरतः प्रियवादिनम् ॥६-१२८-४१॥
अशोकजैः प्रीतिमयैः कपिमालिङ्ग्य सम्भ्रमात् । सिषेच भरतः श्रीमान् विपुलैरश्रुबिन्दुभिः ॥६-१२८-४२॥
देवो वा मानुषो वा त्वमनुक्रोशादिहागतः । प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम् ॥६-१२८-४३॥
गवां शतसहस्रं च ग्रामाणां च शतं परम् । सकुण्डलाः शुभाचारा भार्याः कन्यास्तु षोडश ॥६-१२८-४४॥
हेमवर्णाः सुनासोरूः शशिसौम्याननाः स्त्रियः । सर्वाभरणसम्पन्नाः सम्पन्नाः कुलजातिभिः ॥६-१२८-४५॥
निशम्य रामागमनं नृपात्मजः कपिप्रवीरस्य तदाद्भुतोपमम् । प्रहर्षितो रामदिदृक्षयाभवत् पुनश्च हर्षादिदमब्रवीद् वचः ॥६-१२८-४६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे भरतप्रियाख्यानम् नाम अष्टाविंशत्यधिकशततमः सर्गः ॥६-१२८॥