भरद्वाजामन्त्रणम्

युद्धकाण्डः / भरद्वाजामन्त्रणम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे भरद्वाजामन्त्रणम् नाम सप्तविंशत्यधिकशततमः सर्गः ॥६-१२७॥
पूर्णे चतुर्दशे वर्षे पञ्चम्यां लक्ष्मणाग्रजः । भरद्वाजाश्रमं प्राप्य ववन्दे नियतो मुनिम् ॥६-१२७-१॥
सोऽपृच्छदभिवाद्यैनं भरद्वाजं तपोधनम् । शृणोषि कच्चिद् भगवन् सुभिक्षानामयं पुरे । कच्चित् स युक्तो भरतो जीवन्त्यपि च मातरः ॥६-१२७-२॥
एवमुक्तस्तु रामेण भरद्वाजो महामुनिः । प्रत्युवाच रघुश्रेष्ठं स्मितपूर्वं प्रहृष्टवत् ॥६-१२७-३॥
आज्ञावशत्वे भरतो जटिलस्त्वां प्रतीक्षते । पादुके ते पुरस्कृत्य सर्वं च कुशलं गृहे ॥६-१२७-४॥
त्वां पुरा चीरवसनं प्रविशन्तं महावनम् । स्त्रीतृतीयं च्युतं राज्याद् धर्मकामं च केवलम् ॥६-१२७-५॥
पदातिं त्यक्तसर्वस्वं पितृनिर्देशकारिणम् । सर्वभोगैः परित्यक्तं स्वर्गच्युतमिवामरम् ॥६-१२७-६॥
दृष्ट्वा तु करुणापूर्वं ममासीत् समितिंजय । कैकेयीवचने युक्तं वन्यमूलफलाशिनम् ॥६-१२७-७॥
साम्प्रतं तु समृद्धार्थं समित्रगणबान्धवम् । समीक्ष्य विजितारिं च ममाभूत् प्रीतिरुत्तमा ॥६-१२७-८॥
सर्वं च सुखदुःखं ते विदितं मम राघव । यत् त्वया विपुलं प्राप्तं जनस्थाननिवासिना ॥६-१२७-९॥
ब्राह्मणार्थे नियुक्तस्य रक्षतः सर्वतापसान् । रावणेन हृता भार्या बभूवेयमनिन्दिता ॥६-१२७-१०॥
मारीचदर्शनं चैव सीतोन्मथनमेव च । कबन्धदर्शनं चैव पम्पाभिगमनं तथा ॥६-१२७-११॥
सुग्रीवेण च ते सख्यं यत्र वाली हतस्त्वया । मार्गणं चैव वैदेह्याः कर्म वातात्मजस्य च ॥६-१२७-१२॥
विदितायां च वैदेह्यां नलसेतुर्यथा कृतः । यथा चादीपिता लङ्का प्रहृष्टैर्हरियूथपैः ॥६-१२७-१३॥
सपुत्रबान्धवामात्यः सबलः सहवाहनः । यथा च निहतः संख्ये रावणो बलदर्पितः ॥६-१२७-१४॥
यथा च निहते तस्मिन् रावणे देवकण्टके । समागमश्च त्रिदशैर्यथा दत्तश्च ते वरः ॥६-१२७-१५॥
सर्वं ममैतद् विदितं तपसा धर्मवत्सल । सम्पतन्ति च मे शिष्याः प्रवृत्त्याख्याः पुरीमितः ॥६-१२७-१६॥
अहमप्यत्र ते दद्मि वरं शस्त्रभृतां वर । अर्घ्यं प्रतिगृहाणेदमयोध्यां श्वो गमिष्यसि ॥६-१२७-१७॥
तस्य तच्छिरसा वाक्यं प्रतिगृह्य नृपात्मजः । बाढमित्येव संहृष्टः श्रीमान् वरमयाचत ॥६-१२७-१८॥
अकालफलिनो वृक्षाः सर्वे चापि मधुस्रवाः । फलान्यमृतगन्धीनि बहूनि विविधानि च ॥६-१२७-१९॥
भवन्तु मार्गे भगवन्नयोध्यां प्रति गच्छतः । तथेति च प्रतिज्ञाते वचनात् समनन्तरम् ॥६-१२७-२०॥
अभवन् पादपास्तत्र स्वर्गपादपसंनिभाः । निष्फलाः फलिनश्चासन् विपुष्पाः पुष्पशालिनः ॥६-१२७-२१॥
शुष्काः समग्रपत्रास्ते नगाश्चैव मधुस्रवाः । सर्वतो योजनास्तिस्रो गच्छतामभवंस्तदा ॥६-१२७-२२॥
ततः प्रहृष्टाः प्लवगर्षभास्ते बहूनि दिव्यानि फलानि चैव । कामादुपाश्नन्ति सहस्रशस्ते मुदान्विताः स्वर्गजितो यथैव ॥६-१२७-२३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे भरद्वाजामन्त्रणम् नाम सप्तविंशत्यधिकशततमः सर्गः ॥६-१२७॥