प्रत्यवृत्तिपथवर्णनम्
युद्धकाण्डः / प्रत्यवृत्तिपथवर्णनम्
Script
Translation
Previous
पुष्पकोत्पतनम्
Next
भरद्वाजामन्त्रणम्
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे प्रत्यवृत्तिपथवर्णनम् नाम षड्विंशत्यधिकशततमः सर्गः ॥६-१२६॥
अनुज्ञातं तु रामेण तद् विमानमनुत्तमम् ।
हंसयुक्तं महानादमुत्पपात विहायसम् ॥६-१२६-१॥
पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः ।
अब्रवीन्मैथिलीं सीतां रामः शशिनिभाननाम् ॥६-१२६-२॥
कैलासशिखराकारे त्रिकूटशिखरे स्थिताम् ।
लङ्कामीक्षस्व वैदेहि निर्मितां विश्वकर्मणा ॥६-१२६-३॥
एतदायोधनं पश्य मांसशोणितकर्दमम् ।
हरीणां राक्षसानां च सीते विशसनं महत् ॥६-१२६-४॥
एष दत्तवरः शेते प्रमाथी राक्षसेश्वरः ।
तव हेतोर्विशालाक्षि निहतो रावणो मया ॥६-१२६-५॥
कुम्भकर्णोऽत्र निहतः प्रहस्तश्च निशाचरः ।
धूम्राक्षश्चात्र निहतो वानरेण हनूमता ॥६-१२६-६॥
विद्युन्माली हतश्चात्र सुषेणेन महात्मना ।
लक्ष्मणेनेन्द्रजिच्चात्र रावणिर्निहतो रणे ॥६-१२६-७॥
अङ्गदेनात्र निहतो विकटो नाम राक्षसः ।
विरूपाक्षश्च दुष्प्रेक्षो महापार्श्वमहोदरौ ॥६-१२६-८॥
अकम्पनश्च निहतो बलिनोऽन्ये च राक्षसाः ।
त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ ॥६-१२६-९॥
युद्धोन्मत्तश्च मत्तश्च राक्षसप्रवरावुभौ ।
निकुम्भश्चैव कुम्भश्च कुम्भकर्णात्मजौ बली ॥६-१२६-१०॥
वज्रदंष्ट्रश्च दंष्ट्रश्च बहवो राक्षसा हताः ।
मकराक्षश्च दुर्धर्षो मया युधि निपातितः ॥६-१२६-११॥
अकम्पनश्च निहतः शोणिताक्षश्च वीर्यवान् ।
यूपाक्षश्च प्रजङ्घश्च निहतौ तु महाहवे ॥६-१२६-१२॥
विद्युज्जिह्वोऽत्र निहतो राक्षसो भीमदर्शनः ।
यज्ञशत्रुश्च निहतः सुप्तघ्नश्च महाबलः ॥६-१२६-१३॥
सूर्यशत्रुश्च निहतो ब्रह्मशत्रुस्तथापरः ।
अत्र मन्दोदरी नाम भार्या तं पर्यदेवयत् ॥६-१२६-१४॥
सपत्नीनां सहस्रेण साग्रेण परिवारिता ।
एतत् तु दृश्यते तीर्थं समुद्रस्य वरानने ॥६-१२६-१५॥
यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम् ।
एष सेतुर्मया बद्धः सागरे लवणार्णवे ॥६-१२६-१६॥
तव हेतोर्विशालाक्षि नलसेतुः सुदुष्करः ।
पश्य सागरमक्षोभ्यं वैदेहि वरुणालयम् ॥६-१२६-१७॥
अपारमिव गर्जन्तं शङ्खशुक्तिसमाकुलम् ।
हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि ॥६-१२६-१८॥
विश्रमार्थं हनुमतो भित्त्वा सागरमुत्थितम् ।
एतत् कुक्षौ समुद्रस्य स्कन्धावारनिवेशनम् ॥६-१२६-१९॥
अत्र पूर्वं महादेवः प्रसादमकरोद् विभुः ।
एतत् तु दृश्यते तीर्थं सागरस्य महात्मनः ॥६-१२६-२०॥
सेतुबन्ध इति ख्यातं त्रैलोक्येन च पूजितम् ।
एतत् पवित्रं परमं महापातकनाशनम् ॥६-१२६-२१॥
अत्र राक्षसराजोऽयमाजगाम विभीषणः ।
एषा सा दृश्यते सीते किष्किन्धा चित्रकानना ॥६-१२६-२२॥
सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः ।
अथ दृष्ट्वा पुरीं सीता किष्किन्धां वालिपालिताम् ॥६-१२६-२३॥
अब्रवीत् प्रश्रितं वाक्यं रामं प्रणयसाध्वसा ।
सुग्रीवप्रियभार्याभिस्ताराप्रमुखतो नृप ॥६-१२६-२४॥
अन्येषां वानरेन्द्राणां स्त्रीभिः परिवृता ह्यहम् ।
गन्तुमिच्छे सहायोध्यां राजधानीं त्वया सह ॥६-१२६-२५॥
एवमुक्तोऽथ वैदेह्या राघवः प्रत्युवाच ताम् ।
एवमस्त्विति किष्किन्धां प्राप्य संस्थाप्य राघवः ॥६-१२६-२६॥
विमानं प्रेक्ष्य सुग्रीवं वाक्यमेतदुवाच ह ।
ब्रूहि वानरशार्दूल सर्वान् वानरपुङ्गवान् ॥६-१२६-२७॥
स्त्रीभिः परिवृताः सर्वे ह्ययोध्यां यान्तु सीतया ।
तथा त्वमपि सर्वाभिः स्त्रीभिः सह महाबल ॥६-१२६-२८॥
अभित्वरय सुग्रीव गच्छामः प्लवगाधिप ।
एवमुक्तस्तु सुग्रीवो रामेणामिततेजसा ॥६-१२६-२९॥
वानराधिपतिः श्रीमांस्तैश्च सर्वैः समावृतः ।
प्रविश्यान्तःपुरं शीघ्रं तारामुद्वीक्ष्य सोऽब्रवीत् ॥६-१२६-३०॥
प्रिये त्वं सह नारीभिर्वानराणां महात्मनाम् ।
राघवेणाभ्यनुज्ञाता मैथिलीप्रियकाम्यया ॥६-१२६-३१॥
त्वर त्वमभिगच्छामो गृह्य वानरयोषितः ।
अयोध्यां दर्शयिष्यामः सर्वा दशरथस्त्रियः ॥६-१२६-३२॥
सुग्रीवस्य वचः श्रुत्वा तारा सर्वाङ्गशोभना ।
आहूय चाब्रवीत् सर्वा वानराणां तु योषितः ॥६-१२६-३३॥
सुग्रीवेणाभ्यनुज्ञाता गन्तुं सर्वैश्च वानरैः ।
मम चापि प्रियं कार्यमयोध्यादर्शनेन च ॥६-१२६-३४॥
प्रवेशं चैव रामस्य पौरजानपदैः सह ।
विभूतिं चैव सर्वासां स्त्रीणां दशरथस्य च ॥६-१२६-३५॥
तारया चाभ्यनुज्ञाताः सर्वा वानरयोषितः ।
नेपथ्यविधिपूर्वं तु कृत्वा चापि प्रदक्षिणम् ॥६-१२६-३६॥
अध्यारोहन् विमानं तत् सीतादर्शनकाङ्क्षया ।
ताभिः सहोत्थितं शीघ्रं विमानं प्रेक्ष्य राघवः ॥६-१२६-३७॥
ऋष्यमूकसमीपे तु वैदेहीं पुनरब्रवीत् ।
दृश्यतेऽसौ महान् सीते सविद्युदिव तोयदः ॥६-१२६-३८॥
ऋष्यमूको गिरिवरः काञ्चनैर्धातुभिर्वृतः ।
अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः ॥६-१२६-३९॥
समयश्च कृतः सीते वधार्थं वालिनो मया ।
एषा सा दृश्यते पम्पा नलिनी चित्रकानना ॥६-१२६-४०॥
त्वया विहीनो यत्राहं विललाप सुदुःखितः ।
अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी ॥६-१२६-४१॥
अत्र योजनबाहुश्च कबन्धो निहतो मया ।
दृश्यतेऽसौ जनस्थाने श्रीमान् सीते वनस्पतिः ॥६-१२६-४२॥
जटायुश्च महातेजास्तव हेतोर्विलासिनि ।
रावणेन हतो यत्र पक्षिणां प्रवरो बली ॥६-१२६-४३॥
खरश्च निहतो यत्र दूषणश्च निपातितः ।
त्रिशिराश्च महावीर्यो मया बाणैरजिह्मगैः ॥६-१२६-४४॥
एतत् तदाश्रमपदमस्माकं वरवर्णिनि ।
पर्णशाला तथा चित्रा दृश्यते शुभदर्शने ॥६-१२६-४५॥
यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात् ।
एषा गोदावरी रम्या प्रसन्नसलिला शुभा ॥६-१२६-४६॥
अगस्त्यस्याश्रमश्चैव दृश्यते कदलीवृतः ।
दीप्तश्चैवाश्रमे ह्येष सुतीक्ष्णस्य महात्मनः ॥६-१२६-४७॥
दृश्यते चैव वैदेहि शरभङ्गाश्रमो महान् ।
उपयातः सहस्राक्षो यत्र शक्रः पुरंदरः ॥६-१२६-४८॥
अस्मिन् देशे महाकायो विराधो निहतो मया ।
एते ते तापसा देवि दृश्यन्ते तनुमध्यमे ॥६-१२६-४९॥
अत्रिः कुलपतिर्यत्र सूर्यवैश्वानरोपमः ।
अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी ॥६-१२६-५०॥
असौ सुतनु शैलेन्द्रश्चित्रकूटः प्रकाशते ।
अत्र मां कैकयीपुत्रः प्रसादयितुमागतः ॥६-१२६-५१॥
एषा सा यमुना रम्या दृश्यते चित्रकानना ।
भरद्वाजाश्रमः श्रीमान् दृश्यते चैष मैथिलि ॥६-१२६-५२॥
इयं च दृश्यते गङ्गा पुण्या त्रिपथगा नदी ।
नानाद्विजगणाकीर्णा सम्प्रपुष्पितकानना ॥६-१२६-५३॥
शृङ्गवेरपुरं चैतद् गुहो यत्र सखा मम ।
एषा सा दृश्यते सीते सरयूर्यूपमालिनी ॥६-१२६-५४॥
एषा सा दृश्यते सीते राजधानी पितुर्मम ।
अयोध्यां कुरु वैदेहि प्रणामं पुनरागता ॥६-१२६-५५॥
ततस्ते वानराः सर्वे राक्षसाः सविभीषणाः ।
उत्पत्योत्पत्य संहृष्टास्तां पुरीं ददृशुस्तदा ॥६-१२६-५६॥
ततस्तु तां पाण्डुरहर्म्यमालिनीं विशालकक्ष्यां गजवाजिभिर्वृताम् ।
पुरीमपश्यन् प्लवगाः सराक्षसाः पुरीं महेन्द्रस्य यथामरावतीम् ॥६-१२६-५७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे प्रत्यवृत्तिपथवर्णनम् नाम षड्विंशत्यधिकशततमः सर्गः ॥६-१२६॥
Previous
पुष्पकोत्पतनम्
Next
भरद्वाजामन्त्रणम्