पुष्पकोत्पतनम्
युद्धकाण्डः / पुष्पकोत्पतनम्
Script
Translation
Previous
पुष्पकोपस्थापनम्
Next
प्रत्यवृत्तिपथवर्णनम्
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे पुष्पकोत्पतनम् नाम पञ्चविंशत्यधिकशततमः सर्गः ॥६-१२५॥
उपस्थितं तु तं कृत्वा पुष्पकं पुष्पभूषितम् ।
अविदूरे स्थितो राममित्युवाच विभीषणः ॥६-१२५-१॥
स तु बद्धाञ्जलिपुटो विनीतो राक्षसेश्वरः ।
अब्रवीत् त्वरयोपेतः किं करोमीति राघवम् ॥६-१२५-२॥
तमब्रवीन्महातेजा लक्ष्मणस्योपशृण्वतः ।
विमृश्य राघवो वाक्यमिदं स्नेहपुरस्कृतम् ॥६-१२५-३॥
कृतप्रयत्नकर्माणः सर्व एव वनौकसः ।
रत्नैरर्थैश्च विविधैः सम्पूज्यन्तां विभीषण ॥६-१२५-४॥
सहामीभिस्त्वया लङ्का निर्जिता राक्षसेश्वर ।
हृष्टैः प्राणभयं त्यक्त्वा संग्रामेष्वनिवर्तिभिः ॥६-१२५-५॥
त इमे कृतकर्माणः सर्व एव वनौकसः ।
धनरत्नप्रदानैश्च कर्मैषां सफलं कुरु ॥६-१२५-६॥
एवं सम्मानिताश्चैते नन्द्यमाना यथा त्वया ।
भविष्यन्ति कृतज्ञेन निर्वृता हरियूथपाः ॥६-१२५-७॥
त्यागिनं संग्रहीतारं सानुक्रोशं जितेन्द्रियम् ।
सर्वे त्वामभिगच्छन्ति ततः सम्बोधयामि ते ॥६-१२५-८॥
हीनं रतिगुणैः सर्वैरभिहन्तारमाहवे ।
सेना त्यजति संविग्ना नृपतिं तं नरेश्वर ॥६-१२५-९॥
एवमुक्तस्तु रामेण वानरांस्तान् विभीषणः ।
रत्नार्थसंविभागेन सर्वानेवाभ्यपूजयत् ॥६-१२५-१०॥
ततस्तान् पूजितान् दृष्ट्वा रत्नार्थैर्हरियूथपान् ।
आरुरोह तदा रामस्तद् विमानमनुत्तमम् ॥६-१२५-११॥
अङ्केनादाय वैदेहीं लज्जमानां मनस्विनीम् ।
लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता ॥६-१२५-१२॥
अब्रवीत् स विमानस्थः पूजयन् सर्ववानरान् ।
सुग्रीवं च महावीर्यं काकुत्स्थः सविभीषणम् ॥६-१२५-१३॥
मित्रकार्यं कृतमिदं भवद्भिर्वानरर्षभाः ।
अनुज्ञाता मया सर्वे यथेष्टं प्रतिगच्छत ॥६-१२५-१४॥
यत् तु कार्यं वयस्येन स्निग्धेन च हितेन च ।
कृतं सुग्रीव तत् सर्वं भवताधर्मभीरुणा ॥६-१२५-१५॥
किष्किन्धां प्रति याह्याशु स्वसैन्येनाभिसंवृतः ।
स्वराज्ये वस लङ्कायां मया दत्ते विभीषण ।
न त्वां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः ॥६-१२५-१६॥
अयोध्यां प्रति यास्यामि राजधानीं पितुर्मम ।
अभ्यनुज्ञातुमिच्छामि सर्वानामन्त्रयामि वः ॥६-१२५-१७॥
एवमुक्तास्तु रामेण हरीन्द्रा हरयस्तथा ।
ऊचुः प्राञ्जलयः सर्वे राक्षसश्च विभीषणः ॥६-१२५-१८॥
अयोध्यां गन्तुमिच्छामः सर्वान् नयतु नो भवान् ।
मुद्युक्ता विचरिष्यामो वनान्युपवनानि च ॥६-१२५-१९॥
दृष्ट्वा त्वामभिषेकार्द्रं कौसल्यामभिवाद्य च ।
अचिरादागमिष्यामः स्वगृहान् नृपसत्तम ॥६-१२५-२०॥
एवमुक्तस्तु धर्मात्मा वानरैः सविभीषणैः ।
अब्रवीद् वानरान् रामः ससुग्रीवविभीषणान् ॥६-१२५-२१॥
प्रियात् प्रियतरं लब्धं यदहं ससुहृज्जनः ।
सर्वैर्भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः ॥६-१२५-२२॥
क्षिप्रमारोह सुग्रीव विमानं सह वानरैः ।
त्वमप्यारोह सामात्यो राक्षसेन्द्र विभीषण ॥६-१२५-२३॥
ततः स पुष्पकं दिव्यं सुग्रीवः सह वानरैः ।
आरुरोह मुदा युक्तः सामात्यश्च विभीषणः ॥६-१२५-२४॥
तेष्वारूढेषु सर्वेषु कौबेरं परमासनम् ।
राघवेणाभ्यनुज्ञातमुत्पपात विहायसम् ॥६-१२५-२५॥
खगतेन विमानेन हंसयुक्तेन भास्वता ।
प्रहृष्टश्च प्रतीतश्च बभौ रामः कुबेरवत् ॥६-१२५-२६॥
ते सर्वे वानरर्क्षाश्च राक्षसाश्च महाबलाः ।
यथासुखमसम्बाधं दिव्ये तस्मिन्नुपाविशन् ॥६-१२५-२७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पुष्पकोत्पतनम् नाम पञ्चविंशत्यधिकशततमः सर्गः ॥६-१२५॥
Previous
पुष्पकोपस्थापनम्
Next
प्रत्यवृत्तिपथवर्णनम्