पुष्पकोपस्थापनम्
युद्धकाण्डः / पुष्पकोपस्थापनम्
Script
Translation
Previous
इन्द्रवरदानम्
Next
पुष्पकोत्पतनम्
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे पुष्पकोपस्थापनम् नाम चतुर्विंशत्यधिकशततमः सर्गः ॥६-१२४॥
तां रात्रिमुषितं रामं सुखोदितमरिंदमम् ।
अब्रवीत् प्राञ्जलिर्वाक्यं जयं पृष्ट्वा विभीषणः ॥६-१२४-१॥
स्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च ।
चन्दनानि च माल्यानि दिव्यानि विविधानि च ॥६-१२४-२॥
अलंकारविदश्चैता नार्यः पद्मनिभेक्षणाः ।
उपस्थितास्त्वां विधिवत् स्नापयिष्यन्ति राघव ॥६-१२४-३॥
एवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषणम् ।
हरीन् सुग्रीवमुख्यांस्त्वं स्नानेनोपनिमन्त्रय ॥६-१२४-४॥
स तु ताम्यति धर्मात्मा मम हेतोः सुखोचितः ।
सुकुमारो महाबाहुर्भरतः सत्यसंश्रयः ॥६-१२४-५॥
तं विना कैकयीपुत्रं भरतं धर्मचारिणम् ।
न मे स्नानं बहु मतं वस्त्राण्याभरणानि च ॥६-१२४-६॥
एतत् पश्य यथा क्षिप्रं प्रतिगच्छाम तां पुरीम् ।
अयोध्यां गच्छतो ह्येष पन्थाः परमदुर्गमः ॥६-१२४-७॥
एवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः ।
अह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज ॥६-१२४-८॥
पुष्पकं नाम भद्रं ते विमानं सूर्यसंनिभम् ।
मम भ्रातुः कुबेरस्य रावणेन बलीयसा ॥६-१२४-९॥
हृतं निर्जित्य संग्रामे कामगं दिव्यमुत्तमम् ।
त्वदर्थं पालितं चेदं तिष्ठत्यतुलविक्रम ॥६-१२४-१०॥
तदिदं मेघसंकाशं विमानमिह तिष्ठति ।
येन यास्यसि यानेन त्वमयोध्यां गतज्वरः ॥६-१२४-११॥
अहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान् ।
वस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदम् ॥६-१२४-१२॥
लक्ष्मणेन सह भ्रात्रा वैदेह्या भार्यया सह ।
अर्चितः सर्वकामैस्त्वं ततो राम गमिष्यसि ॥६-१२४-१३॥
प्रीतियुक्तस्य विहितां ससैन्यः ससुहृद्गणः ।
सत्क्रियां राम मे तावद् गृहाण त्वं मयोद्यताम् ॥६-१२४-१४॥
प्रणयाद् बहुमानाच्च सौहार्देन च राघव ।
प्रसादयामि प्रेष्योऽहं न खल्वाज्ञापयामि ते ॥६-१२४-१५॥
एवमुक्तस्ततो रामः प्रत्युवाच विभीषणम् ।
रक्षसां वानराणां च सर्वेषामेव शृण्वताम् ॥६-१२४-१६॥
पूजितोऽस्मि त्वया वीर साचिव्येन परेण च ।
सर्वात्मना च चेष्टाभिः सौहार्देन परेण च ॥६-१२४-१७॥
न खल्वेतन्न कुर्यां ते वचनं राक्षसेश्वर ।
तं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः ॥६-१२४-१८॥
मां निवर्तयितुं योऽसौ चित्रकूटमुपागतः ।
शिरसा याचतो यस्य वचनं न कृतं मया ॥६-१२४-१९॥
कौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम् ।
गुहं च सुहृदं चैव पौराञ्जानपदैः सह ॥६-१२४-२०॥
अनुजानीहि मां सौम्य पूजितोऽस्मि विभीषण ।
मन्युर्न खलु कर्तव्यः सखे त्वां चानुमानये ॥६-१२४-२१॥
उपस्थापय मे शीघ्रं विमानं राक्षसेश्वर ।
कृतकार्यस्य मे वासः कथं स्यादिह सम्मतः ॥६-१२४-२२॥
एवमुक्तस्तु रामेण राक्षसेन्द्रो विभीषणः ।
विमानं सूर्यसंकाशमाजुहाव त्वरान्वितः ॥६-१२४-२३॥
ततः काञ्चनचित्राङ्गं वैदूर्यमणिवेदिकम् ।
कूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम् ॥६-१२४-२४॥
पाण्डुराभिः पताकाभिर्ध्वजैश्च समलंकृतम् ।
शोभितं काञ्चनैर्हर्म्यैर्हेमपद्मविभूषितैः ॥६-१२४-२५॥
प्रकीर्णं किङ्किणीजालैर्मुक्तामणिगवाक्षकम् ।
घण्टाजालैः परिक्षिप्तं सर्वतो मधुरस्वनम् ॥६-१२४-२६॥
तं मेरुशिखराकारं निर्मितं विश्वकर्मणा ।
बृहद्भिर्भूषितं हर्म्यैर्मुक्तारजतशोभितैः ॥६-१२४-२७॥
तलैः स्फटिकचित्राङ्गैर्वैदूर्यैश्च वरासनैः ।
महार्हास्तरणोपेतैरुपपन्नं महाधनैः ॥६-१२४-२८॥
उपस्थितमनाधृष्यं तद् विमानं मनोजवम् ।
निवेदयित्वा रामाय तस्थौ तत्र विभीषणः ॥६-१२४-२९॥
तत् पुष्पकं कामगमं विमानमुपस्थितं भूधरसंनिकाशम् ।
दृष्ट्वा तदा विस्मयमाजगाम रामः ससौमित्रिरुदारसत्त्वः ॥६-१२४-३०॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पुष्पकोपस्थापनम् नाम चतुर्विंशत्यधिकशततमः सर्गः ॥६-१२४॥
Previous
इन्द्रवरदानम्
Next
पुष्पकोत्पतनम्