इन्द्रवरदानम्

युद्धकाण्डः / इन्द्रवरदानम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे इन्द्रवरदानम् नाम त्रयोविंशत्यधिकशततमः सर्गः ॥६-१२३॥
प्रतिप्रयाते काकुत्स्थे महेन्द्रः पाकशासनः । अब्रवीत् परमप्रीतो राघवं प्राञ्जलिं स्थितम् ॥६-१२३-१॥
अमोघं दर्शनं राम तवास्माकं नरर्षभ । प्रीतियुक्ताः स्म तेन त्वं ब्रूहि यन्मनसेप्सितम् ॥६-१२३-२॥
एवमुक्तो महेन्द्रेण प्रसन्नेन महात्मना । सुप्रसन्नमना हृष्टो वचनं प्राह राघवः ॥६-१२३-३॥
यदि प्रीतिः समुत्पन्ना मयि ते विबुधेश्वर । वक्ष्यामि कुरु मे सत्यं वचनं वदतां वर ॥६-१२३-४॥
मम हेतोः पराक्रान्ता ये गता यमसादनम् । ते सर्वे जीवितं प्राप्य समुत्तिष्ठन्तु वानराः ॥६-१२३-५॥
मत्कृते विप्रयुक्ता ये पुत्रैर्दारैश्च वानराः । तान् प्रीतमनसः सर्वान् द्रष्टुमिच्छामि मानद ॥६-१२३-६॥
विक्रान्ताश्चापि शूराश्च न मृत्युं गणयन्ति च । कृतयत्ना विपन्नाश्च जीवयैतान् पुरंदर ॥६-१२३-७॥
मत्प्रियेष्वभिरक्ताश्च न मृत्युं गणयन्ति ये । त्वत्प्रसादात् समेयुस्ते वरमेतमहं वृणे ॥६-१२३-८॥
नीरुजो निर्व्रणांश्चैव सम्पन्नबलपौरुषान् । गोलाङ्गूलांस्तथर्क्षांश्च द्रष्टुमिच्छामि मानद ॥६-१२३-९॥
अकाले चापि पुष्पाणि मूलानि च फलानि च । नद्यश्च विमलास्तत्र तिष्ठेयुर्यत्र वानराः ॥६-१२३-१०॥
श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः । महेन्द्रः प्रत्युवाचेदं वचनं प्रीतिसंयुतम् ॥६-१२३-११॥
महानयं वरस्तात यस्त्वयोक्तो रघूत्तम । द्विर्मया नोक्तपूर्वं च तस्मादेतद् भविष्यति ॥६-१२३-१२॥
समुत्तिष्ठन्तु ते सर्वे हता ये युधि राक्षसैः । ऋक्षाश्च सह गोपुच्छैर्निकृत्ताननबाहवः ॥६-१२३-१३॥
नीरुजो निर्व्रणाश्चैव सम्पन्नबलपौरुषाः । समुत्थास्यन्ति हरयः सुप्ता निद्राक्षये यथा ॥६-१२३-१४॥
सुहृद्भिर्बान्धवैश्चैव ज्ञातिभिः स्वजनेन च । सर्व एव समेष्यन्ति संयुक्ताः परया मुदा ॥६-१२३-१५॥
अकाले पुष्पशबलाः फलवन्तश्च पादपाः । भविष्यन्ति महेष्वास नद्यश्च सलिलायुताः ॥६-१२३-१६॥
सव्रणैः प्रथमं गात्रैरिदानीं निर्व्रणैः समैः । ततः समुत्थिताः सर्वे सुप्त्वेव हरिसत्तमाः ॥६-१२३-१७॥
बभूवुर्वानराः सर्वे किं त्वेतदिति विस्मिताः । काकुत्स्थं परिपूर्णार्थं दृष्ट्वा सर्वे सुरोत्तमाः ॥६-१२३-१८॥
अब्रुवन् परमप्रीताः स्तुत्वा रामं सलक्ष्मणम् । गच्छायोध्यामितो राजन् विसर्जय च वानरान् ॥६-१२३-१९॥
मैथिलीं सान्त्वयस्वैनामनुरक्तां यशस्विनीम् । भ्रातरं भरतं पश्य त्वच्छोकाद् व्रतचारिणम् ॥६-१२३-२०॥
शत्रुघ्नं च महात्मानं मातॄः सर्वाः परंतप । अभिषेचय चात्मानं पौरान् गत्वा प्रहर्षय ॥६-१२३-२१॥
एवमुक्त्वा सहस्राक्षो रामं सौमित्रिणा सह । विमानैः सूर्यसंकाशैर्ययौ हृष्टः सुरैः सह ॥६-१२३-२२॥
अभिवाद्य च काकुत्स्थः सर्वांस्तांस्त्रिदशोत्तमान् । लक्ष्मणेन सह भ्रात्रा वासमाज्ञापयत् तदा ॥६-१२३-२३॥
ततस्तु सा लक्ष्मणरामपालिता महाचमूर्हृष्टजना यशस्विनी । श्रिया ज्वलन्ती विरराज सर्वतो निशा प्रणीतेव हि शीतरश्मिना ॥६-१२३-२४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे इन्द्रवरदानम् नाम त्रयोविंशत्यधिकशततमः सर्गः ॥६-१२३॥