दशरथप्रतिसमादेशः
युद्धकाण्डः / दशरथप्रतिसमादेशः
Script
Translation
Previous
सीताप्रतिग्रहः
Next
इन्द्रवरदानम्
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे दशरथप्रतिसमादेशः नाम द्वाविंशत्यधिकशततमः सर्गः ॥६-१२२॥
एतच्छ्रुत्वा शुभं वाक्यं राघवेणानुभाषितम् ।
ततः शुभतरं वाक्यं व्याजहार महेश्वरः ॥६-१२२-१॥
पुष्कराक्ष महाबाहो महावक्षः परंतप ।
दिष्ट्या कृतमिदं कर्म त्वया धर्मभृतां वर ॥६-१२२-२॥
दिष्ट्या सर्वस्य लोकस्य प्रवृद्धं दारुणं तमः ।
अपवृत्तं त्वया संख्ये राम रावणजं भयम् ॥६-१२२-३॥
आश्वास्य भरतं दीनं कौसल्यां च यशस्विनीम् ।
कैकेयीं च सुमित्रां च दृष्ट्वा लक्ष्मणमातरम् ॥६-१२२-४॥
प्राप्य राज्यमयोध्यायां नन्दयित्वा सुहृज्जनम् ।
इक्ष्वाकूणां कुले वंशं स्थापयित्वा महाबल ॥६-१२२-५॥
इष्ट्वा तुरगमेधेन प्राप्य चानुत्तमं यशः ।
ब्राह्मणेभ्यो धनं दत्त्वा त्रिदिवं गन्तुमर्हसि ॥६-१२२-६॥
एष राजा दशरथो विमानस्थः पिता तव ।
काकुत्स्थ मानुषे लोके गुरुस्तव महायशाः ॥६-१२२-७॥
इन्द्रलोकं गतः श्रीमांस्त्वया पुत्रेण तारितः ।
लक्ष्मणेन सह भ्रात्रा त्वमेनमभिवादय ॥६-१२२-८॥
महादेववचः श्रुत्वा राघवः सहलक्ष्मणः ।
विमानशिखरस्थस्य प्रणाममकरोत् पितुः ॥६-१२२-९॥
दीप्यमानं स्वया लक्ष्म्या विरजोऽम्बरधारिणम् ।
लक्ष्मणेन सह भ्रात्रा ददर्श पितरं प्रभुः ॥६-१२२-१०॥
हर्षेण महताऽऽविष्टो विमानस्थो महीपतिः ।
प्राणैः प्रियतरं दृष्ट्वा पुत्रं दशरथस्तदा ॥६-१२२-११॥
आरोप्याङ्के महाबाहुर्वरासनगतः प्रभुः ।
बाहुभ्यां सम्परिष्वज्य ततो वाक्यं समाददे ॥६-१२२-१२॥
न मे स्वर्गो बहु मतः सम्मानश्च सुरर्षभैः ।
त्वया राम विहीनस्य सत्यं प्रतिशृणोमि ते ॥६-१२२-१३॥
अद्य त्वां निहतामित्रं दृष्ट्वा सम्पूर्णमानसम् ।
निस्तीर्णवनवासं च प्रीतिरासीत् परा मम ॥६-१२२-१४॥
कैकेय्या यानि चोक्तानि वाक्यानि वदतां वर ।
तव प्रव्राजनार्थानि स्थितानि हृदये मम ॥६-१२२-१५॥
त्वां तु दृष्ट्वा कुशलिनं परिष्वज्य सलक्ष्मणम् ।
अद्य दुःखाद् विमुक्तोऽस्मि नीहारादिव भास्करः ॥६-१२२-१६॥
तारितोऽहं त्वया पुत्र सुपुत्रेण महात्मना ।
अष्टावक्रेण धर्मात्मा कहोलो ब्राह्मणो यथा ॥६-१२२-१७॥
इदानीं च विजानामि यथा सौम्य सुरेश्वरैः ।
वधार्थं रावणस्येह विहितं पुरुषोत्तमम् ॥६-१२२-१८॥
सिद्धार्था खलु कौसल्या या त्वां राम गृहं गतम् ।
वनान्निवृत्तं संहृष्टा द्रक्ष्यते शत्रुसूदनम् ॥६-१२२-१९॥
सिद्धार्थाः खलु ते राम नरा ये त्वां पुरीं गतम् ।
राज्ये चैवाभिषिक्तं च द्रक्ष्यन्ते वसुधाधिपम् ॥६-१२२-२०॥
अनुरक्तेन बलिना शुचिना धर्मचारिणा ।
इच्छेयं त्वामहं द्रष्टुं भरतेन समागतम् ॥६-१२२-२१॥
चतुर्दश समाः सौम्य वने निर्यातितास्त्वया ।
वसता सीतया सार्धं मत्प्रीत्या लक्ष्मणेन च ॥६-१२२-२२॥
निवृत्तवनवासोऽसि प्रतिज्ञा पूरिता त्वया ।
रावणं च रणे हत्वा देवताः परितोषिताः ॥६-१२२-२३॥
कृतं कर्म यशः श्लाघ्यं प्राप्तं ते शत्रुसूदन ।
भ्रातृभिः सह राज्यस्थो दीर्घमायुरवाप्नुहि ॥६-१२२-२४॥
इति ब्रुवाणं राजानं रामः प्राञ्जलिरब्रवीत् ।
कुरु प्रसादं धर्मज्ञ कैकय्या भरतस्य च ॥६-१२२-२५॥
सपुत्रां त्वां त्यजामीति यदुक्ता कैकयी त्वया ।
स शापः कैकयीं घोरः सपुत्रां न स्पृशेत् प्रभो ॥६-१२२-२६॥
तथेति स महाराजो राममुक्त्वा कृताञ्जलिम् ।
लक्ष्मणं च परिष्वज्य पुनर्वाक्यमुवाच ह ॥६-१२२-२७॥
रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया ।
कृता मम महाप्रीतिः प्राप्तं धर्मफलं च ते ॥६-१२२-२८॥
धर्मं प्राप्स्यसि धर्मज्ञ यशश्च विपुलं भुवि ।
रामे प्रसन्ने स्वर्गं च महिमानं तथोत्तमम् ॥६-१२२-२९॥
रामं शुश्रूष भद्रं ते सुमित्रानन्दवर्धन ।
रामः सर्वस्य लोकस्य हितेष्वभिरतः सदा ॥६-१२२-३०॥
एते सेन्द्रास्त्रयो लोकाः सिद्धाश्च परमर्षयः ।
अभिवाद्य महात्मानमर्चन्ति पुरुषोत्तमम् ॥६-१२२-३१॥
एतत् तदुक्तमव्यक्तमक्षरं ब्रह्मसम्मितम् ।
देवानां हृदयं सौम्य गुह्यं रामः परंतपः ॥६-१२२-३२॥
अवाप्तधर्माचरणं यशश्च विपुलं त्वया ।
एवं शुश्रूषताव्यग्रं वैदेह्या सह सीतया ॥६-१२२-३३॥
इत्युक्त्वा लक्ष्मणं राजा स्नुषां बद्धाञ्जलिं स्थिताम् ।
पुत्रीत्याभाष्य मधुरं शनैरेनामुवाच ह ॥६-१२२-३४॥
कर्तव्यो न तु वैदेहि मन्युस्त्यागमिमं प्रति ।
रामेणेदं विशुद्ध्यर्थं कृतं वै त्वद्धितैषिणा ॥६-१२२-३५॥
सुदुष्करमिदं पुत्रि तव चारित्रलक्षणम् ।
कृतं यत् तेऽन्यनारीणां यशो ह्यभिभविष्यति ॥६-१२२-३६॥
न त्वं कामं समाधेया भर्तृशुश्रूषणं प्रति ।
अवश्यं तु मया वाच्यमेष ते दैवतं परम् ॥६-१२२-३७॥
इति प्रतिसमादिश्य पुत्रौ सीतां च राघवः ।
इन्द्रलोकं विमानेन ययौ दशरथो नृपः ॥६-१२२-३८॥
विमानमास्थाय महानुभावः श्रिया च संहृष्टतनुर्नृपोत्तमः ।
आमन्त्र्य पुत्रौ सह सीतया च जगाम देवप्रवरस्य लोकम् ॥६-१२२-३९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे दशरथप्रतिसमादेशः नाम द्वाविंशत्यधिकशततमः सर्गः ॥६-१२२॥
Previous
सीताप्रतिग्रहः
Next
इन्द्रवरदानम्