कुम्भकर्णमतिः

युद्धकाण्डः / कुम्भकर्णमतिः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे कुम्भकर्णमतिः नाम द्वादशः सर्गः ॥६-१२॥
स तां परिषदं कृत्स्नां समीक्ष्य समितिंजयः । प्रचोदयामास तदा प्रहस्तं वाहिनीपतिम् ॥६-१२-१॥
सेनापते यथा ते स्युः कृतविद्याश्चतुर्विधाः । योधा नगररक्षायां तथा व्यादेष्टुमर्हसि ॥६-१२-२॥
स प्रहस्तः प्रणीतात्मा चिकीर्षन् राजशासनम् । विनिक्षिपद् बलं सर्वं बहिरन्तश्च मन्दिरे ॥६-१२-३॥
ततो विनिक्षिप्य बलं सर्वं नगरगुप्तये । प्रहस्तः प्रमुखे राज्ञो निषसाद जगाद च ॥६-१२-४॥
विहितं बहिरन्तश्च बलं बलवतस्तव । कुरुष्वाविमनाः क्षिप्रं यदभिप्रेतमस्ति ते ॥६-१२-५॥
प्रहस्तस्य वचः श्रुत्वा राजा राज्यहितैषिणः । सुखेप्सुः सुहृदां मध्ये व्याजहार स रावणः ॥६-१२-६॥
प्रियाप्रिये सुखे दुःखे लाभालाभे हिताहिते । धर्मकामार्थकृच्छ्रेषु यूयमर्हथ वेदितुम् ॥६-१२-७॥
सर्वकृत्यानि युष्माभिः समारब्धानि सर्वदा । मन्त्रकर्मनियुक्तानि न जातु विफलानि मे ॥६-१२-८॥
ससोमग्रहनक्षत्रैर्मरुद्भिरिव वासवः । भवद्भिरहमत्यर्थं वृतः श्रियमवाप्नुयाम् ॥६-१२-९॥
अहं तु खलु सर्वान् वः समर्थयितुमुद्यतः । कुम्भकर्णस्य तु स्वप्नान् नेममर्थमचोदयम् ॥६-१२-१०॥
अयं हि सुप्तः षण्मासान् कुम्भकर्णो महाबलः । सर्वशस्त्रभृतां मुख्यः स इदानीं समुत्थितः ॥६-१२-११॥
इयं च दण्डकारण्याद् रामस्य महिषी प्रिया । रक्षोभिश्चरितोद्देशादानीता जनकात्मजा ॥६-१२-१२॥
सा मे न शय्यामारोढुमिच्छत्यलसगामिनी । त्रिषु लोकेषु चान्या मे न सीतासदृशी तथा ॥६-१२-१३॥
तनुमध्या पृथुश्रोणी शरदिन्दुनिभानना । हेमबिम्बनिभा सौम्या मायेव मयनिर्मिता ॥६-१२-१४॥
सुलोहिततलौ श्लक्ष्णौ चरणौ सुप्रतिष्ठितौ । दृष्ट्वा ताम्रनखौ तस्या दीप्यते मे शरीरजः ॥६-१२-१५॥
हुताग्नेरर्चिसंकाशामेनां सौरीमिव प्रभाम् । उन्नसं विमलं वल्गु वदनं चारुलोचनम् ॥६-१२-१६॥
पश्यंस्तदवशस्तस्याः कामस्य वशमेयिवान् । क्रोधहर्षसमानेन दुर्वर्णकरणेन च ॥६-१२-१७॥
शोकसंतापनित्येन कामेन कलुषीकृतः । सा तु संवत्सरं कालं मामयाचत भामिनी ॥६-१२-१८॥
प्रतीक्षमाणा भर्तारं राममायतलोचना । तन्मया चारुनेत्रायाः प्रतिज्ञातं वचः शुभम् ॥६-१२-१९॥
श्रान्तोऽहं सततं कामाद् यातो हय इवाध्वनि । कथं सागरमक्षोभ्यं तरिष्यन्ति वनौकसः ॥६-१२-२०॥
बहुसत्त्वझषाकीर्णं तौ वा दशरथात्मजौ । अथवा कपिनैकेन कृतं नः कदनं महत् ॥६-१२-२१॥
दुर्ज्ञेयाः कार्यगतयो ब्रूत यस्य यथामति । मानुषान्नो भयं नास्ति तथापि तु विमृश्यताम् ॥६-१२-२२॥
तदा देवासुरे युद्धे युष्माभिः सहितोऽजयम् । ते मे भवन्तश्च तथा सुग्रीवप्रमुखान् हरीन् ॥६-१२-२३॥
परे पारे समुद्रस्य पुरस्कृत्य नृपात्मजौ । सीतायाः पदवीं प्राप्य सम्प्राप्तौ वरुणालयम् ॥६-१२-२४॥
अदेया च यथा सीता वध्यौ दशरथात्मजौ । भवद्भिर्मन्त्र्यतां मन्त्रः सुनीतं चाभिधीयताम् ॥६-१२-२५॥
नहि शक्तिं प्रपश्यामि जगत्यन्यस्य कस्यचित् । सागरं वानरैस्तीर्त्वा निश्चयेन जयो मम ॥६-१२-२६॥
तस्य कामपरीतस्य निशम्य परिदेवितम् । कुम्भकर्णः प्रचुक्रोध वचनं चेदमब्रवीत् ॥६-१२-२७॥
यदा तु रामस्य सलक्ष्मणस्य प्रसह्य सीता खलु सा इहाहृता । सकृत् समीक्ष्यैव सुनिश्चितं तदा भजेत चित्तं यमुनेव यामुनम् ॥६-१२-२८॥
सर्वमेतन्महाराज कृतमप्रतिमं तव । विधीयेत सहास्माभिरादावेवास्य कर्मणः ॥६-१२-२९॥
न्यायेन राजकार्याणि यः करोति दशानन । न स संतप्यते पश्चान्निश्चितार्थमतिर्नृपः ॥६-१२-३०॥
अनुपायेन कर्माणि विपरीतानि यानि च । क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ॥६-१२-३१॥
यः पश्चात् पूर्वकार्याणि कर्माण्यभिचिकीर्षति । पूर्वं चापरकार्याणि स न वेद नयानयौ ॥६-१२-३२॥
चपलस्य तु कृत्येषु प्रसमीक्ष्याधिकं बलम् । छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ॥६-१२-३३॥
त्वयेदं महदारब्धं कार्यमप्रतिचिन्तितम् । दिष्ट्या त्वां नावधीद् रामो विषमिश्रमिवामिषम् ॥६-१२-३४॥
तस्मात् त्वया समारब्धं कर्म ह्यप्रतिमं परैः । अहं समीकरिष्यामि हत्वा शत्रूंस्तवानघ ॥६-१२-३५॥
अहमुत्सादयिष्यामि शत्रूंस्तव निशाचर । यदि शक्रविवस्वन्तौ यदि पावकमारुतौ । तावहं योधयिष्यामि कुबेरवरुणावपि ॥६-१२-३६॥
गिरिमात्रशरीरस्य महापरिघयोधिनः । नर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाद् वै पुरंदरः ॥६-१२-३७॥
पुनर्मां स द्वितीयेन शरेण निहनिष्यति । ततोऽहं तस्य पास्यामि रुधिरं काममाश्वस ॥६-१२-३८॥
वधेन वै दाशरथेः सुखावहं जयं तवाहर्तुमहं यतिष्ये । हत्वा च रामं सह लक्ष्मणेन खादामि सर्वान् हरियूथमुख्यान् ॥६-१२-३९॥
रमस्व कामं पिब चाग्र्यवारुणीं कुरुष्व कार्याणि हितानि विज्वरः । मया तु रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति ॥६-१२-४०॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे कुम्भकर्णमतिः नाम द्वादशः सर्गः ॥६-१२॥