द्वितीयमन्त्राधिवेषः

युद्धकाण्डः / द्वितीयमन्त्राधिवेषः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे द्वितीयमन्त्राधिवेषः नाम एकादशः सर्गः ॥६-११॥
स बभूव कृशो राजा मैथिलीकाममोहितः । असन्मानाच्च सुहृदां पापः पापेन कर्मणा ॥६-११-१॥
अतीव कामसम्पन्नो वैदेहीमनुचिन्तयन् । अतीतसमये काले तस्मिन् वै युधि रावणः । अमात्यैश्च सुहृद्भिश्च प्राप्तकालममन्यत ॥६-११-२॥
स हेमजालविततं मणिविद्रुमभूषितम् । उपगम्य विनीताश्वमारुरोह महारथम् ॥६-११-३॥
तमास्थाय रथश्रेष्ठं महामेघसमस्वनम् । प्रययौ रक्षसां श्रेष्ठो दशग्रीवः सभां प्रति ॥६-११-४॥
असिचर्मधरा योधाः सर्वायुधधरास्ततः । राक्षसा राक्षसेन्द्रस्य पुरस्तात् सम्प्रतस्थिरे ॥६-११-५॥
नानाविकृतवेषाश्च नानाभूषणभूषिताः । पार्श्वतः पृष्ठतश्चैनं परिवार्य ययुस्तदा ॥६-११-६॥
रथैश्चातिरथाः शीघ्रं मत्तैश्च वरवारणैः । अनूत्पेतुर्दशग्रीवमाक्रीडद्भिश्च वाजिभिः ॥६-११-७॥
गदापरिघहस्ताश्च शक्तितोमरपाणयः । परश्वधधराश्चान्ये तथान्ये शूलपाणयः । ततस्तूर्यसहस्राणं संजज्ञे निःस्वनो महान् ॥६-११-८॥
तुमुलः शङ्खशब्दश्च सभां गच्छति रावणे । स नेमिघोषेण महान् सहसाभिनिनादयन् ॥६-११-९॥
राजमार्गं श्रिया जुष्टं प्रतिपेदे महारथः । विमलं चातपत्रं च प्रगृहीतमशोभत ॥६-११-१०॥
पाण्डुरं राक्षसेन्द्रस्य पूर्णस्ताराधिपो यथा । हेममञ्जरिगर्भे च शुद्धस्फटिकविग्रहे ॥६-११-११॥
चामरव्यजने तस्य रेजतुः सव्यदक्षिणे । ते कृताञ्जलयः सर्वे रथस्थं पृथिवीस्थिताः ॥६-११-१२॥
राक्षसा राक्षसश्रेष्ठं शिरोभिस्तं ववन्दिरे । राक्षसैः स्तूयमानः सञ्जयाशीर्भिररिंदमः ॥६-११-१३॥
आससाद महातेजाः सभां विरचितां तदा । सुवर्णरजतास्तीर्णां विशुद्धस्फटिकान्तराम् ॥६-११-१४॥
विराजमानो वपुषा रुक्मपट्टोत्तरच्छदाम् । तां पिशाचशतैः षड्भिरभिगुप्तां सदाप्रभाम् ॥६-११-१५॥
प्रविवेश महातेजाः सुकृतां विश्वकर्मणा । तस्यां तु वैदूर्यमयं प्रियकाजिनसंवृतम् ॥६-११-१६॥
महत्सोपाश्रयं भेजे रावणः परमासनम् । ततः शशासेश्वरवद्दूताँल्लघुपराक्रमान् ॥६-११-१७॥
समानयत मे क्षिप्रमिहैतान् राक्षसानिति । कृत्यमस्ति महज्जाने कर्तव्यमिति शत्रुभिः ॥६-११-१८॥
राक्षसास्तद्वचः श्रुत्वा लङ्कायां परिचक्रमुः । अनुगेहमवस्थाय विहारशयनेषु च । उद्यानेषु च रक्षांसि चोदयन्तो ह्यभीतवत् ॥६-११-१९॥
ते रथान्तचरा एके दृप्तानेके दृढान् हयान् । नागानेकेऽधिरुरुहुर्जग्मुश्चैके पदातयः ॥६-११-२०॥
सा पुरी परमाकीर्णा रथकुञ्जरवाजिभिः । सम्पतद्भिर्विरुरुचे गरुत्मद्भिरिवाम्बरम् ॥६-११-२१॥
ते वाहनान्यवस्थाय यानानि विविधानि च । सभां पद्भिः प्रविविशुः सिंहा गिरिगुहामिव ॥६-११-२२॥
राज्ञः पादौ गृहीत्वा तु राज्ञा ते प्रतिपूजिताः । पीठेष्वन्ये बृसीष्वन्ये भूमौ केचिदुपाविशन् ॥६-११-२३॥
ते समेत्य सभायां वै राक्षसा राजशासनात् । यथार्हमुपतस्थुस्ते रावणं राक्षसाधिपम् ॥६-११-२४॥
मन्त्रिणश्च यथामुख्या निश्चितार्थेषु पण्डिताः । अमात्याश्च गुणोपेताः सर्वज्ञा बुद्धिदर्शनाः ॥६-११-२५॥
समीयुस्तत्र शतशः शूराश्च बहवस्तथा । सभायां हेमवर्णायां सर्वार्थस्य सुखाय वै ॥६-११-२६॥
ततो महात्मा विपुलं सुयुग्यं रथं वरं हेमविचित्रिताङ्गम् । शुभं समास्थाय ययौ यशस्वी विभीषणः संसदमग्रजस्य ॥६-११-२७॥
स पूर्वजायावरजः शशंस नामाथ पश्चाच्चरणौ ववन्दे । शुकः प्रहस्तश्च तथैव तेभ्यो ददौ यथार्हं पृथगासनानि ॥६-११-२८॥
सुवर्णनानामणिभूषणानां सुवाससां संसदि राक्षसानाम् । तेषां परार्घ्यागुरुचन्दनानां स्रजां च गन्धाः प्रववुः समन्तात् ॥६-११-२९॥
न चुक्रुशुर्नानृतमाह कश्चित् सभासदो नापि जजल्पुरुच्चैः । संसिद्धार्थाः सर्व एवोग्रवीर्या भर्तुः सर्वे ददृशुश्चाननं ते ॥६-११-३०॥
स रावणः शस्त्रभृतां मनस्विनां महाबलानां समितौ मनस्वी । तस्यां सभायां प्रभया चकाशे मध्ये वसूनामिव वज्रहस्तः ॥६-११-३१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वितीयमन्त्राधिवेषः नाम एकादशः सर्गः ॥६-११॥