महापार्श्ववचोऽभिनन्दनम्
युद्धकाण्डः / महापार्श्ववचोऽभिनन्दनम्
Script
Translation
Previous
कुम्भकर्णमतिः
Next
प्रहस्तविभीषणविवादः
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे महापार्श्ववचोऽभिनन्दनम् नाम त्रयोदशः सर्गः ॥६-१३॥
रावणं क्रुद्धमाज्ञाय महापार्श्वो महाबलः ।
मुहूर्तमनुसंचिन्त्य प्राञ्जलिर्वाक्यमब्रवीत् ॥६-१३-१॥
यः खल्वपि वनं प्राप्य मृगव्यालनिषेवितम् ।
न पिबेन्मधु सम्प्राप्य स नरो बालिशो भवेत् ॥६-१३-२॥
ईश्वरस्येश्वरः कोऽस्ति तव शत्रुनिबर्हण ।
रमस्व सह वैदेह्या शत्रूनाक्रम्य मूर्धसु ॥६-१३-३॥
बलात् कुक्कुटवृत्तेन प्रवर्तस्व महाबल ।
आक्रम्याक्रम्य सीतां वै तां भुङ्क्ष्व च रमस्व च ॥६-१३-४॥
लब्धकामस्य ते पश्चादागमिष्यति किं भयम् ।
प्राप्तमप्राप्तकालं वा सर्वं प्रतिविधास्यसे ॥६-१३-५॥
कुम्भकर्णः सहास्माभिरिन्द्रजिच्च महाबलः ।
प्रतिषेधयितुं शक्तौ सवज्रमपि वज्रिणम् ॥६-१३-६॥
उपप्रदानं सान्त्वं वा भेदं वा कुशलैः कृतम् ।
समतिक्रम्य दण्डेन सिद्धिमर्थेषु रोचये ॥६-१३-७॥
इह प्राप्तान् वयं सर्वाञ्छत्रूंस्तव महाबल ।
वशे शस्त्रप्रतापेन करिष्यामो न संशयः ॥६-१३-८॥
एवमुक्तस्तदा राजा महापार्श्वेन रावणः ।
तस्य सम्पूजयन् वाक्यमिदं वचनमब्रवीत् ॥६-१३-९॥
महापार्श्व निबोध त्वं रहस्यं किंचिदात्मनः ।
चिरवृत्तं तदाख्यास्ये यदवाप्तं पुरा मया ॥६-१३-१०॥
पितामहस्य भवनं गच्छन्तीं पुञ्जिकस्थलाम् ।
चञ्चूर्यमाणामद्राक्षमाकाशेऽग्निशिखामिव ॥६-१३-११॥
सा प्रसह्य मया भुक्ता कृता विवसना ततः ।
स्वयम्भूभवनं प्राप्ता लोलिता नलिनी यथा ॥६-१३-१२॥
तच्च तस्य तथा मन्ये ज्ञातमासीन्महात्मनः ।
अथ संकुपितो वेधा मामिदं वाक्यमब्रवीत् ॥६-१३-१३॥
अद्यप्रभृति यामन्यां बलान्नारीं गमिष्यसि ।
तदा ते शतधा मूर्धा फलिष्यति न संशयः ॥६-१३-१४॥
इत्यहं तस्य शापस्य भीतः प्रसभमेव ताम् ।
नारोहये बलात् सीतां वैदेहीं शयने शुभे ॥६-१३-१५॥
सागरस्येव मे वेगो मारुतस्येव मे गतिः ।
नैतद् दाशरथिर्वेद ह्यासादयति तेन माम् ॥६-१३-१६॥
को हि सिंहमिवासीनं सुप्तं गिरिगुहाशये ।
क्रुद्धं मृत्युमिवासीनं प्रबोधयितुमिच्छति ॥६-१३-१७॥
न मत्तो निर्गतान् बाणान् द्विजिह्वान् पन्नगानिव ।
रामः पश्यति संग्रामे तेन मामभिगच्छति ॥६-१३-१८॥
क्षिप्रं वज्रसमैर्बाणैः शतधा कार्मुकच्युतैः ।
राममादीपयिष्यामि उल्काभिरिव कुञ्जरम् ॥६-१३-१९॥
तच्चास्य बलमादास्ये बलेन महता वृतः ।
उदितः सविता काले नक्षत्राणां प्रभामिव ॥६-१३-२०॥
न वासवेनापि सहस्रचक्षुषा युधास्मि शक्यो वरुणेन वा पुनः ।
मया त्वियं बाहुबलेन निर्जिता पुरा पुरी वैश्रवणेन पालिता ॥६-१३-२१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे महापार्श्ववचोऽभिनन्दनम् नाम त्रयोदशः सर्गः ॥६-१३॥
Previous
कुम्भकर्णमतिः
Next
प्रहस्तविभीषणविवादः