सीताभर्तृमुखोदीक्षणम्

युद्धकाण्डः / सीताभर्तृमुखोदीक्षणम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे सीताभर्तृमुखोदीक्षणम् नाम सप्तदशाधिकशततमः सर्गः ॥६-११७॥
तमुवाच महाप्राज्ञः सोऽभिवाद्य प्लवङ्गमः । रामं कमलपत्राक्षं वरं सर्वधनुष्मताम् ॥६-११७-१॥
यन्निमित्तोऽयमारम्भः कर्मणां यः फलोदयः । तां देवीं शोकसंतप्तां द्रष्टुमर्हसि मैथिलीम् ॥६-११७-२॥
सा हि शोकसमाविष्टा बाष्पपर्याकुलेक्षणा । मैथिली विजयं श्रुत्वा द्रष्टुं त्वामभिकांक्षति ॥६-११७-३॥
पूर्वकात् प्रत्ययाच्चाहमुक्तो विश्वस्तया तया । द्रष्टुमिच्छामि भर्तारमिति पर्याकुलेक्षणा ॥६-११७-४॥
एवमुक्तो हनुमता रामो धर्मभृतां वरः । आगच्छत् सहसा ध्यानमीषद्बाष्पपरिप्लुतः ॥६-११७-५॥
स दीर्घमभिनिःश्वस्य जगतीमवलोकयन् । उवाच मेघसंकाशं विभीषणमुपस्थितम् ॥६-११७-६॥
दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम् । इह सीतां शिरःस्नातामुपस्थापय मा चिरम् ॥६-११७-७॥
एवमुक्तस्तु रामेण त्वरमाणो विभीषणः । प्रविश्यान्तःपुरं सीतां स्त्रीभिः स्वाभिरचोदयत् ॥६-११७-८॥
ततः सीतां महाभागां दृष्ट्वोवाच विभीषणः । मूर्ध्नि बद्धाञ्जलिः श्रीमान् विनीतो राक्षसेश्वरः ॥६-११७-९॥
दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता । यानमारोह भद्रं ते भर्ता त्वां द्रष्टुमिच्छति ॥६-११७-१०॥
एवमुक्ता तु वैदेही प्रत्युवाच विभीषणम् । अस्नात्वा द्रष्टुमिच्छामि भर्तारं राक्षसेश्वर ॥६-११७-११॥
तस्यास्तद् वचनं श्रुत्वा प्रत्युवाच विभीषणः । यथाऽऽह रामो भर्ता ते तत् तथा कर्तुमर्हसि ॥६-११७-१२॥
तस्य तद् वचनं श्रुत्वा मैथिली पतिदेवता । भर्तृभक्त्यावृता साध्वी तथेति प्रत्यभाषत ॥६-११७-१३॥
ततः सीतां शिरःस्नातां संयुक्तां प्रतिकर्मणा । महार्हाभरणोपेतां महार्हाम्बरधारिणीम् ॥६-११७-१४॥
आरोप्य शिबिकां दीप्तां परार्घ्याम्बरसंवृताम् । रक्षोभिर्बहुभिर्गुप्तामाजहार विभीषणः ॥६-११७-१५॥
सोऽभिगम्य महात्मानं ज्ञात्वापि ध्यानमास्थितम् । प्रणतश्च प्रहृष्टश्च प्राप्तां सीतां न्यवेदयत् ॥६-११७-१६॥
तामागतामुपश्रुत्य रक्षोगृहचिरोषिताम् । रोषं हर्षं च दैन्यं च राघवः प्राप शत्रुहा ॥६-११७-१७॥
ततो यानगतां सीतां सविमर्शं विचारयन् । विभीषणमिदं वाक्यमहृष्टो राघवोऽब्रवीत् ॥६-११७-१८॥
राक्षसाधिपते सौम्य नित्यं मद्विजये रत । वैदेही संनिकर्षं मे क्षिप्रं समभिगच्छतु ॥६-११७-१९॥
तस्य तद् वचनं श्रुत्वा राघवस्य विभीषणः । तूर्णमुत्सारणं तत्र कारयामास धर्मवित् ॥६-११७-२०॥
कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झरपाणयः । उत्सारयन्तस्तान् योधान् समन्तात् परिचक्रमुः ॥६-११७-२१॥
ऋक्षाणां वानराणां च राक्षसानां च सर्वशः । वृन्दान्युत्सार्यमाणानि दूरमुत्तस्थुरन्ततः ॥६-११७-२२॥
तेषामुत्सार्यमाणानां निःस्वनः सुमहानभूत् । वायुनोद्धूयमानस्य सागरस्येव निःस्वनः ॥६-११७-२३॥
उत्सार्यमाणांस्तान् दृष्ट्वा समन्ताज्जातसम्भ्रमान् । दाक्षिण्यात्तदमर्षाच्च वारयामास राघवः ॥६-११७-२४॥
संरम्भाच्चाब्रवीद् रामश्चक्षुषा प्रदहन्निव । विभीषणं महाप्राज्ञं सोपालम्भमिदं वचः ॥६-११७-२५॥
किमर्थं मामनादृत्य क्लिश्यतेऽयं त्वया जनः । निवर्तयैनमुद्वेगं जनोऽयं स्वजनो मम ॥६-११७-२६॥
न गृहाणि न वस्त्राणि न प्राकारस्तिरस्क्रिया । नेदृशा राजसत्कारा वृत्तमावरणं स्त्रियाः ॥६-११७-२७॥
व्यसनेषु न कृच्छ्रेषु न युद्धेषु स्वयंवरे । न क्रतौ नो विवाहे वा दर्शनं दूष्यते स्त्रियाः ॥६-११७-२८॥
सैषा विपद्गता चैव कृच्छ्रेण च समन्विता । दर्शने नास्ति दोषोऽस्या मत्समीपे विशेषतः ॥६-११७-२९॥
विसृज्य शिबिकां तस्मात् पद्भ्यामेवापसर्पतु । समीपे मम वैदेहीं पश्यन्त्वेते वनौकसः ॥६-११७-३०॥
एवमुक्तस्तु रामेण सविमर्शो विभीषणः । रामस्योपानयत् सीतां संनिकर्षं विनीतवत् ॥६-११७-३१॥
ततो लक्ष्मणसुग्रीवौ हनूमांश्च प्लवङ्गमः । निशम्य वाक्यं रामस्य बभूवुर्व्यथिता भृशम् ॥६-११७-३२॥
कलत्रनिरपेक्षैश्च इङ्गितैरस्य दारुणैः । अप्रीतमिव सीतायां तर्कयन्ति स्म राघवम् ॥६-११७-३३॥
लज्जया त्ववलीयन्ती स्वेषु गात्रेषु मैथिली । विभीषणेनानुगता भर्तारं साभ्यवर्तत ॥६-११७-३४॥
विस्मयाच्च प्रहर्षाच्च स्नेहाच्च पतिदेवता । उदैक्षत मुखं भर्तुः सौम्यं सौम्यतरानना ॥६-११७-३५॥
अथ समपनुदन्मनःक्लमं सा सुचिरमदृष्टमुदीक्ष्य वै प्रियस्य । वदनमुदितपूर्णचन्द्रकान्तं विमलशशाङ्कनिभानना तदाऽऽसीत् ॥६-११७-३६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सीताभर्तृमुखोदीक्षणम् नाम सप्तदशाधिकशततमः सर्गः ॥६-११७॥