मैथिलीप्रियनिवेदनम्

युद्धकाण्डः / मैथिलीप्रियनिवेदनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे मैथिलीप्रियनिवेदनम् नाम षोडशाधिकशततमः सर्गः ॥६-११६॥
इति प्रतिसमादिष्टो हनूमान् मारुतात्मजः । प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ॥६-११६-१॥
प्रविश्य च पुरीं लङ्कामनुज्ञाप्य विभीषणम् । ततस्तेनाभ्यनुज्ञातो हनूमान् वृक्षवाटिकाम् ॥६-११६-२॥
सम्प्रविश्य यथान्यायं सीताया विदितो हरिः । ददर्श मृजया हीनां सातङ्कां रोहिणीमिव ॥६-११६-३॥
वृक्षमूले निरानन्दां राक्षसीभिः परीवृताम् । निभृतः प्रणतः प्रह्वः सोऽभिगम्याभिवाद्य च ॥६-११६-४॥
दृष्ट्वा तमागतं देवी हनूमन्तं महाबलम् । तूष्णीमास्त तदा दृष्ट्वा स्मृत्वा हृष्टाभवत् तदा ॥६-११६-५॥
सौम्यं तस्या मुखं दृष्ट्वा हनूमान् प्लवगोत्तमः । रामस्य वचनं सर्वमाख्यातुमुपचक्रमे ॥६-११६-६॥
वैदेहि कुशली रामः सहसुग्रीवलक्ष्मणः । कुशलं चाह सिद्धार्थो हतशत्रुरमित्रजित् ॥६-११६-७॥
विभीषणसहायेन रामेण हरिभिः सह । निहतो रावणो देवि लक्ष्मणेन च वीर्यवान् ॥६-११६-८॥
प्रियमाख्यामि ते देवि भूयश्च त्वां सभाजये । तव प्रभावाद् धर्मज्ञे महान् रामेण संयुगे ॥६-११६-९॥
लब्धोऽयं विजयः सीते स्वस्था भव गतज्वरा । रावणश्च हतः शत्रुर्लङ्का चैव वशीकृता ॥६-११६-१०॥
मया ह्यलब्धनिद्रेण धृतेन तव निर्जये । प्रतिज्ञैषा विनिस्तीर्णा बद्ध्वा सेतुं महोदधौ ॥६-११६-११॥
सम्भ्रमश्च न कर्तव्यो वर्तन्त्या रावणालये । विभीषणविधेयं हि लङ्कैश्वर्यमिदं कृतम् ॥६-११६-१२॥
तदाश्वसिहि विस्रब्धं स्वगृहे परिवर्तसे । अयं चाभ्येति संहृष्टस्त्वद्दर्शनसमुत्सुकः ॥६-११६-१३॥
एवमुक्ता तु सा देवी सीता शशिनिभानना । प्रहर्षेणावरुद्धा सा व्याहर्तुं न शशाक ह ॥६-११६-१४॥
ततोऽब्रवीद्धरिवरः सीतामप्रतिजल्पतीम् । किं त्वं चिन्तयसे देवि किं च मां नाभिभाषसे ॥६-११६-१५॥
एवमुक्ता हनुमता सीता धर्मपथे स्थिता । अब्रवीत् परमप्रीता बाष्पगद्गदया गिरा ॥६-११६-१६॥
प्रियमेतदुपश्रुत्य भर्तुर्विजयसंश्रितम् । प्रहर्षवशमापन्ना निर्वाक्यास्मि क्षणान्तरम् ॥६-११६-१७॥
नहि पश्यामि सदृशं चिन्तयन्ती प्लवंगम । आख्यानकस्य भवतो दातुं प्रत्यभिनन्दनम् ॥६-११६-१८॥
न हि पश्यामि तत् सौम्य पृथिव्यामपि वानर । सदृशं यत्प्रियाख्याने तव दत्त्वा भवेत् सुखम् ॥६-११६-१९॥
हिरण्यं वा सुवर्णं वा रत्नानि विविधानि च । राज्यं वा त्रिषु लोकेषु एतन्नार्हति भाषितम् ॥६-११६-२०॥
एवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवंगमः । प्रगृहीताञ्जलिर्हर्षात् सीतायाः प्रमुखे स्थितः ॥६-११६-२१॥
भर्तुः प्रियहिते युक्ते भर्तुर्विजयकांक्षिणि । स्निग्धमेवंविधं वाक्यं त्वमेवार्हस्यनिन्दिते ॥६-११६-२२॥
तवैतद् वचनं सौम्ये सारवत् स्निग्धमेव च । रत्नौघाद् विविधाच्चापि देवराज्याद् विशिष्यते ॥६-११६-२३॥
अर्थतश्च मया प्राप्ता देवराज्यादयो गुणाः । हतशत्रुं विजयिनं रामं पश्यामि सुस्थितम् ॥६-११६-२४॥
तस्य तद् वचनं श्रुत्वा मैथिली जनकात्मजा । ततः शुभतरं वाक्यमुवाच पवनात्मजम् ॥६-११६-२५॥
अतिलक्षणसम्पन्नं माधुर्यगुणभूषणम् । बुद्ध्या ह्यष्टाङ्गया युक्तं त्वमेवार्हसि भाषितुम् ॥६-११६-२६॥
श्लाघनीयोऽनिलस्य त्वं सुतः परमधार्मिकः । बलं शौर्यं श्रुतं सत्त्वं विक्रमो दाक्ष्यमुत्तमम् ॥६-११६-२७॥
तेजः क्षमा धृतिः स्थैर्यं विनीतत्वं न संशयः । एते चान्ये च बहवो गुणास्त्वय्येव शोभनाः ॥६-११६-२८॥
अथोवाच पुनः सीतामसम्भ्रान्तो विनीतवत् । प्रगृहीताञ्जलिर्हर्षात् सीतायाः प्रमुखे स्थितः ॥६-११६-२९॥
इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे । हन्तुमिच्छामि ताः सर्वा याभिस्त्वं तर्जिता पुरा ॥६-११६-३०॥
क्लिश्यन्तीं पतिदेवां त्वामशोकवनिकां गताम् । घोररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः ॥६-११६-३१॥
इह श्रुता मया देवि राक्षस्यो विकृताननाः । असकृत्परुषैर्वाक्यैर्वदन्त्यो रावणाज्ञया ॥६-११६-३२॥
विकृता विकृताकाराः क्रूराः क्रूरकचेक्षणाः । इच्छामि विविधैर्घातैर्हन्तुमेताः सुदारुणाः ॥६-११६-३३॥
राक्षस्यो दारुणकथा वरमेतत् प्रयच्छ मे । मुष्टिभिः पार्ष्णिघातैश्च विशालैश्चैव बाहुभिः ॥६-११६-३४॥
जङ्घाजानुप्रहारैश्च दन्तानां चैव पीडनैः । कर्तनैः कर्णनासानां केशानां लुञ्चनैस्तथा ॥६-११६-३५॥
निपात्य हन्तुमिच्छामि तव विप्रियकारिणीः । एवं प्रहारैर्बहुभिः सम्प्रहार्य यशस्विनि ॥६-११६-३६॥
घातये तीव्ररूपाभिर्याभिस्त्वं तर्जिता पुरा । इत्युक्ता सा हनुमता कृपणा दीनवत्सला ॥६-११६-३७॥
हनूमन्तमुवाचेदं चिन्तयित्वा विमृश्य च । राजसंश्रयवश्यानां कुर्वतीनां पराज्ञया ॥६-११६-३८॥
विधेयानां च दासीनां कः कुप्येद् वानरोत्तम । भाग्यवैषम्यदोषेण पुरस्ताद्दुष्कृतेन च ॥६-११६-३९॥
मयैतत् प्राप्यते सर्वं स्वकृतं ह्युपभुज्यते । मैवं वद महाबाहो दैवी ह्येषा परा गतिः ॥६-११६-४०॥
प्राप्तव्यं तु दशायोगान्मयैतदिति निश्चितम् । दासीनां रावणस्याहं मर्षयामीह दुर्बला ॥६-११६-४१॥
आज्ञप्ता राक्षसेनेह राक्षस्यस्तर्जयन्ति माम् । हते तस्मिन् न कुर्वन्ति तर्जनं मारुतात्मज ॥६-११६-४२॥
अयं व्याघ्रसमीपे तु पुराणो धर्मसंहितः । ऋक्षेण गीतः श्लोकोऽस्ति तं निबोध प्लवंगम ॥६-११६-४३॥
न परः पापमादत्ते परेषां पापकर्मणाम् । समयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः ॥६-११६-४४॥
पापानां वा शुभानां वा वधार्हाणामथापि वा । कार्यं कारुण्यमार्येण न कश्चिन्नापराध्यति ॥६-११६-४५॥
लोकहिंसाविहाराणां क्रूराणां पापकर्मणाम् । कुर्वतामपि पापानि नैव कार्यमशोभनम् ॥६-११६-४६॥
एवमुक्तस्तु हनुमान् सीतया वाक्यकोविदः । प्रत्युवाच ततः सीतां रामपत्नीमनिन्दिताम् ॥६-११६-४७॥
युक्ता रामस्य भवती धर्मपत्नी गुणान्विता । प्रतिसंदिश मां देवि गमिष्ये यत्र राघवः ॥६-११६-४८॥
एवमुक्ता हनुमता वैदेही जनकात्मजा । साब्रवीद् द्रष्टुमिच्छामि भर्तारं भक्तवत्सलम् ॥६-११६-४९॥
तस्यास्तद् वचनं श्रुत्वा हनूमान् मारुतात्मजः । हर्षयन् मैथिलीं वाक्यमुवाचेदं महामतिः ॥६-११६-५०॥
पूर्णचन्द्रमुखं रामं द्रक्ष्यस्यद्य सलक्ष्मणम् । स्थितमित्रं हतामित्रं शचीवेन्द्रं सुरेश्वरम् ॥६-११६-५१॥
तामेवमुक्त्वा भ्राजन्तीं सीतां साक्षादिव श्रियम् । आजगाम महातेजा हनूमान् यत्र राघवः ॥६-११६-५२॥
सपदि हरिवरस्ततो हनूमान् प्रतिवचनं जनकेश्वरात्मजायाः । कथितमकथयद् यथाक्रमेण त्रिदशवरप्रतिमाय राघवाय ॥६-११६-५३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे मैथिलीप्रियनिवेदनम् नाम षोडशाधिकशततमः सर्गः ॥६-११६॥