विभीषणाभिषेकः
युद्धकाण्डः / विभीषणाभिषेकः
Script
Translation
Previous
मन्दोदरीविलापः
Next
मैथिलीप्रियनिवेदनम्
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे विभीषणाभिषेकः नाम पञ्चदशाधिकशततमः सर्गः ॥६-११५॥
ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः ।
जग्मुः स्वैः स्वैर्विमानैस्ते कथयन्तः शुभाः कथाः ॥६-११५-१॥
रावणस्य वधं घोरं राघवस्य पराक्रमम् ।
सुयुद्धं वानराणां च सुग्रीवस्य च मन्त्रितम् ॥६-११५-२॥
अनुरागं च वीर्यं च मारुतेर्लक्ष्मणस्य च ।
पतिव्रतात्वं सीताया हनूमति पराक्रमम् ॥६-११५-३॥
कथयन्तो महाभागा जग्मुर्हृष्टा यथागतम् ।
राघवस्तु रथं दिव्यमिन्द्रदत्तं शिखिप्रभम् ॥६-११५-४॥
अनुज्ञाप्य महाबाहुर्मातलिं प्रत्यपूजयत् ।
राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः ॥६-११५-५॥
दिव्यं तं रथमास्थाय दिवमेवोत्पपात ह ।
तस्मिंस्तु दिवमारूढे सरथे रथिनां वरः ॥६-११५-६॥
राघवः परमप्रीतः सुग्रीवं परिषस्वजे ।
परिष्वज्य च सुग्रीवं लक्ष्मणेनाभिवादितः ॥६-११५-७॥
पूज्यमानो हरिगणैराजगाम बलालयम् ।
अथोवाच स काकुत्स्थः समीपपरिवर्तिनम् ॥६-११५-८॥
सौमित्रिं सत्त्वसम्पन्नं लक्ष्मणं दीप्ततेजसम् ।
विभीषणमिमं सौम्य लङ्कायामभिषेचय ॥६-११५-९॥
अनुरक्तं च भक्तं च तथा पूर्वोपकारिणम् ।
एष मे परमः कामो यदिमं रावणानुजम् ॥६-११५-१०॥
लङ्कायां सौम्य पश्येयमभिषिक्तं विभीषणम् ।
एवमुक्तस्तु सौमित्री राघवेण महात्मना ॥६-११५-११॥
तथेत्युक्त्वा सुसंहृष्टः सौवर्णं घटमाददे ।
तं घटं वानरेन्द्राणां हस्ते दत्त्वा मनोजवान् ॥६-११५-१२॥
व्यादिदेश महासत्त्वान् समुद्रसलिलं तदा ।
अतिशीघ्रं ततो गत्वा वानरास्ते मनोजवाः ॥६-११५-१३॥
आगतास्तु जलं गृह्य समुद्राद् वानरोत्तमाः ।
ततस्त्वेकं घटं गृह्य संस्थाप्य परमासने ॥६-११५-१४॥
घटेन तेन सौमित्रिरभ्यषिञ्चद् विभीषणम् ।
लङ्कायां रक्षसां मध्ये राजानं रामशासनात् ॥६-११५-१५॥
विधिना मन्त्रदृष्टेन सुहृद्गणसमावृतम् ।
अभ्यषिञ्चस्तदा सर्वे राक्षसा वानरास्तथा ॥६-११५-१६॥
प्रहर्षमतुलं गत्वा तुष्टुवू राममेव हि ।
तस्यामात्या जहृषिरे भक्ता ये चास्य राक्षसाः ॥६-११५-१७॥
दृष्ट्वाभिषिक्तं लङ्कायां राक्षसेन्द्रं विभीषणम् ।
राघवः परमां प्रीतिं जगाम सहलक्ष्मणः ॥६-११५-१८॥
स तद् राज्यं महत् प्राप्य रामदत्तं विभीषणः ।
सान्त्वयित्वा प्रकृतयस्ततो राममुपागमत् ॥६-११५-१९॥
दध्यक्षतान् मोदकांश्च लाजाः सुमनसस्तथा ।
आजह्रुरथ संहृष्टाः पौरास्तस्मै निशाचराः ॥६-११५-२०॥
स तान् गृहीत्वा दुर्धर्षो राघवाय न्यवेदयत् ।
मङ्गल्यं मङ्गलं सर्वं लक्ष्मणाय च वीर्यवान् ॥६-११५-२१॥
कृतकार्यं समृद्धार्थं दृष्ट्वा रामो विभीषणम् ।
प्रतिजग्राह तत् सर्वं तस्यैव प्रतिकाम्यया ॥६-११५-२२॥
ततः शैलोपमं वीरं प्राञ्जलिं प्रणतं स्थितम् ।
उवाचेदं वचो रामो हनूमन्तं प्लवङ्गमम् ॥६-११५-२३॥
अनुज्ञाप्य महाराजमिमं सौम्य विभीषणम् ।
प्रविश्य नगरीं लङ्कां कौशलं ब्रूहि मैथिलीम् ॥६-११५-२४॥
वैदेह्यै मां च कुशलं सुग्रीवं च सलक्ष्मणम् ।
आचक्ष्व वदतां श्रेष्ठ रावणं च हतं रणे ॥६-११५-२५॥
प्रियमेतदिहाख्याहि वैदेह्यास्त्वं हरीश्वर ।
प्रतिगृह्य तु संदेशमुपावर्तितुमर्हसि ॥६-११५-२६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे विभीषणाभिषेकः नाम पञ्चदशाधिकशततमः सर्गः ॥६-११५॥
Previous
मन्दोदरीविलापः
Next
मैथिलीप्रियनिवेदनम्