मन्दोदरीविलापः
युद्धकाण्डः / मन्दोदरीविलापः
Script
Translation
Previous
रावाणान्तःपुरपरिदेवनम्
Next
विभीषणाभिषेकः
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे मन्दोदरीविलापः नाम चतुर्दशाधिकशततमः सर्गः ॥६-११४॥
तासां विलपमानानां तदा राक्षसयोषिताम् ।
ज्येष्ठपत्नी प्रिया दीना भर्तारं समुदैक्षत ॥६-११४-१॥
दशग्रीवं हतं दृष्ट्वा रामेणाचिन्त्यकर्मणा ।
पतिं मन्दोदरी तत्र कृपणा पर्यदेवयत् ॥६-११४-२॥
ननु नाम महाबाहो तव वैश्रवणानुज ।
क्रुद्धस्य प्रमुखे स्थातुं त्रस्यत्यपि पुरंदरः ॥६-११४-३॥
ऋषयश्च महान्तोऽपि गन्धर्वाश्च यशस्विनः ।
ननु नाम तवोद्वेगाच्चारणाश्च दिशो गताः ॥६-११४-४॥
स त्वं मानुषमात्रेण रामेण युधि निर्जितः ।
न व्यपत्रपसे राजन् किमिदं राक्षसेश्वर ॥६-११४-५॥
कथं त्रैलोक्यमाक्रम्य श्रिया वीर्येण चान्वितम् ।
अविषह्यं जघान त्वां मानुषो वनगोचरः ॥६-११४-६॥
मानुषाणामविषये चरतः कामरूपिणः ।
विनाशस्तव रामेण संयुगे नोपपद्यते ॥६-११४-७॥
न चैतत् कर्म रामस्य श्रद्दधामि चमूमुखे ।
सर्वतः समुपेतस्य तव तेनाभिमर्षणम् ॥६-११४-८॥
अथवा रामरूपेण कृतान्तः स्वयमागतः ।
मायां तव विनाशाय विधायाप्रतितर्किताम् ॥६-११४-९॥
अथवा वासवेन त्वं धर्षितोऽसि महाबल ।
वासवस्य तु का शक्तिस्त्वां द्रष्टुमपि संयुगे ॥६-११४-१०॥
महाबलं महावीर्यं देवशत्रुं महौजसम् ।
व्यक्तमेष महायोगी परमात्मा सनातनः ॥६-११४-११॥
अनादिमध्यनिधनो महतः परमो महान् ।
तमसः परमो धाता शङ्खचक्रगदाधरः ॥६-११४-१२॥
श्रीवत्सवक्षा नित्यश्रीरजय्यः शाश्वतो ध्रुवः ।
मानुषं रूपमास्थाय विष्णुः सत्यपराक्रमः ॥६-११४-१३॥
सर्वैः परिवृतो देवैर्वानरत्वमुपागतैः ।
सर्वलोकेश्वरः श्रीमाँल्लोकानां हितकाम्यया ॥६-११४-१४॥
स राक्षसपरीवारं देवशत्रुं भयावहम् ।
इन्द्रियाणि पुरा जित्वा जितं त्रिभुवनं त्वया ॥६-११४-१५॥
स्मरद्भिरिव तद् वैरमिन्द्रियैरेव निर्जितः ।
यदैव हि जनस्थाने राक्षसैर्बहुभिर्वृतः ॥६-११४-१६॥
खरस्तु निहतो भ्राता तदा रामो न मानुषः ।
यदैव नगरीं लङ्कां दुष्प्रवेशां सुरैरपि ॥६-११४-१७॥
प्रविष्टो हनुमान् वीर्यात् तदैव व्यथिता वयम् ।
क्रियतामविरोधश्च राघवेणेति यन्मया ॥६-११४-१८॥
उच्यमानो न गृह्णासि तस्येयं व्युष्टिरागता ।
अकस्माच्चाभिकामोऽसि सीतां राक्षसपुङ्गव ॥६-११४-१९॥
ऐश्वर्यस्य विनाशाय देहस्य स्वजनस्य च ।
अरुन्धत्या विशिष्टां तां रोहिण्याश्चापि दुर्मते ॥६-११४-२०॥
सीतां धर्षयता मान्यां त्वया ह्यसदृशं कृतम् ।
वसुधाया हि वसुधां श्रियाः श्रीं भर्तृवत्सलाम् ॥६-११४-२१॥
सीतां सर्वानवद्याङ्गीमरण्ये विजने शुभाम् ।
आनयित्वा तु तां दीनां छद्मनाऽऽत्मस्वदूषणम् ॥६-११४-२२॥
अप्राप्य तं चैव कामं मैथिलीसंगमे कृतम् ।
पतिव्रतायास्तपसा नूनं दग्धोऽसि मे प्रभो ॥६-११४-२३॥
तदैव यन्न दग्धस्त्वं धर्षयंस्तनुमध्यमाम् ।
देवा बिभ्यति ते सर्वे सेन्द्राः साग्निपुरोगमाः ॥६-११४-२४॥
अवश्यमेव लभते फलं पापस्य कर्मणः ।
भर्तः पर्यागते काले कर्ता नास्त्यत्र संशयः ॥६-११४-२५॥
शुभकृच्छुभमाप्नोति पापकृत् पापमश्नुते ।
विभीषणः सुखं प्राप्तस्त्वं प्राप्तः पापमीदृशम् ॥६-११४-२६॥
सन्त्यन्याः प्रमदास्तुभ्यं रूपेणाभ्यधिकास्ततः ।
अनङ्गवशमापन्नस्त्वं तु मोहान्न बुद्ध्यसे ॥६-११४-२७॥
न कुलेन न रूपेण न दाक्षिण्येन मैथिली ।
मयाधिका वा तुल्या वा तत् तु मोहान्न बुद्ध्यसे ॥६-११४-२८॥
सर्वदा सर्वभूतानां नास्ति मृत्युरलक्षणः ।
तव तद्वदयं मृत्युर्मैथिलीकृतलक्षणः ॥६-११४-२९॥
सीतानिमित्तजो मृत्युस्त्वया दूरादुपाहृतः ।
मैथिली सह रामेण विशोका विहरिष्यति ॥६-११४-३०॥
अल्पपुण्या त्वहं घोरे पतिता शोकसागरे ।
कैलासे मन्दरे मेरौ तथा चैत्ररथे वने ॥६-११४-३१॥
देवोद्यानेषु सर्वेषु विहृत्य सहिता त्वया ।
विमानेनानुरूपेण या याम्यतुलया श्रिया ॥६-११४-३२॥
पश्यन्ती विविधान् देशांस्तांस्तांश्चित्रस्रगम्बरा ।
भ्रंशिता कामभोगेभ्यः सास्मि वीर वधात् तव ॥६-११४-३३॥
सैवान्येवास्मि संवृत्ता धिग्राज्ञां चञ्चलां श्रियम् ।
हा राजन् सुकुमारं ते सुभ्रु सुत्वक्समुन्नसम् ॥६-११४-३४॥
कान्तिश्रीद्युतिभिस्तुल्यमिन्दुपद्मदिवाकरैः ।
किरीटकूटोज्ज्वलितं ताम्रास्यं दीप्तकुण्डलम् ॥६-११४-३५॥
मदव्याकुललोलाक्षं भूत्वा यत्पानभूमिषु ।
विविधस्रग्धरं चारु वल्गुस्मितकथं शुभम् ॥६-११४-३६॥
तदेवाद्य तवैवं हि वक्त्रं न भ्राजते प्रभो ।
रामसायकनिर्भिन्नं रक्तं रुधिरविस्रवैः ॥६-११४-३७॥
विशीर्णमेदोमस्तिष्कं रूक्षं स्यन्दनरेणुभिः ।
हा पश्चिमा मे सम्प्राप्ता दशा वैधव्यदायिनी ॥६-११४-३८॥
या मयाऽऽसीन्न सम्बुद्धा कदाचिदपि मन्दया ।
पिता दानवराजो मे भर्ता मे राक्षसेश्वरः ॥६-११४-३९॥
पुत्रो मे शक्रनिर्जेता इत्यहं गर्विता भृशम् ।
दृप्तारिमथनाः क्रूराः प्रख्यातबलपौरुषाः ॥६-११४-४०॥
अकुतश्चिद्भया नाथा ममेत्यासीन्मतिर्ध्रुवा ।
तेषामेवंप्रभावाणां युष्माकं राक्षसर्षभाः ॥६-११४-४१॥
कथं भयमसम्बुद्धं मानुषादिदमागतम् ।
स्निग्धेन्द्रनीलनीलं तु प्रांशुशैलोपमं महत् ॥६-११४-४२॥
केयूराङ्गदवैदूर्यमुक्ताहारस्रगुज्ज्वलम् ।
कान्तं विहारेष्वधिकं दीप्तं संग्रामभूमिषु ॥६-११४-४३॥
भात्याभरणभाभिर्यद् विद्युद्भिरिव तोयदः ।
तदेवाद्य शरीरं ते तीक्ष्णैर्नैकशरैश्चितम् ॥६-११४-४४॥
पुनर्दुर्लभसंस्पर्शं परिष्वक्तुं न शक्यते ।
श्वाविधः शललैर्यद्वद् बाणैर्लग्नैर्निरन्तरम् ॥६-११४-४५॥
स्वर्पितैर्मर्मसु भृशं संछिन्नस्नायुबन्धनम् ।
क्षितौ निपतितं राजन् श्यामं वै रुधिरच्छवि ॥६-११४-४६॥
वज्रप्रहाराभिहतो विकीर्ण इव पर्वतः ।
हा स्वप्नः सत्यमेवेदं त्वं रामेण कथं हतः ॥६-११४-४७॥
त्वं मृत्योरपि मृत्युः स्याः कथं मृत्युवशं गतः ।
त्रैलोक्यवसुभोक्तारं त्रैलोक्योद्वेगदं महत् ॥६-११४-४८॥
जेतारं लोकपालानां क्षेप्तारं शंकरस्य च ।
दृप्तानां निग्रहीतारमाविष्कृतपराक्रमम् ॥६-११४-४९॥
लोकक्षोभयितारं च साधुभूतविदारणम् ।
ओजसा दृप्तवाक्यानां वक्तारं रिपुसंनिधौ ॥६-११४-५०॥
स्वयूथभृत्यगोप्तारं हन्तारं भीमकर्मणाम् ।
हन्तारं दानवेन्द्राणां यक्षाणां च सहस्रशः ॥६-११४-५१॥
निवातकवचानां तु निग्रहीतारमाहवे ।
नैकयज्ञविलोप्तारं त्रातारं स्वजनस्य च ॥६-११४-५२॥
धर्मव्यवस्थाभेत्तारं मायास्रष्टारमाहवे ।
देवासुरनृकन्यानामाहर्तारं ततस्ततः ॥६-११४-५३॥
शत्रुस्त्रीशोकदातारं नेतारं स्वजनस्य च ।
लङ्काद्वीपस्य गोप्तारं कर्तारं भीमकर्मणाम् ॥६-११४-५४॥
अस्माकं कामभोगानां दातारं रथिनां वरम् ।
एवंप्रभावं भर्तारं दृष्ट्वा रामेण पातितम् ॥६-११४-५५॥
स्थिरास्मि या देहमिमं धारयामि हतप्रिया ।
शयनेषु महार्हेषु शयित्वा राक्षसेश्वर ॥६-११४-५६॥
इह कस्मात् प्रसुप्तोऽसि धरण्यां रेणुगुण्ठितः ।
यदा मे तनयः शस्तो लक्ष्मणेनेन्द्रजिद् युधि ॥६-११४-५७॥
तदा त्वभिहता तीव्रमद्य त्वस्मिन् निपातिता ।
साहं बन्धुजनैर्हीना हीना नाथेन च त्वया ॥६-११४-५८॥
विहीना कामभोगैश्च शोचिष्ये शाश्वतीः समाः ।
प्रपन्नो दीर्घमध्वानं राजन्नद्य सुदुर्गमम् ॥६-११४-५९॥
नय मामपि दुःखार्तां न वर्तिष्ये त्वया विना ।
कस्मात् त्वं मां विहायेह कृपणां गन्तुमिच्छसि ॥६-११४-६०॥
दीनां विलपतीं मन्दां किं च मां नाभिभाषसे ।
दृष्ट्वा न खल्वभिक्रुद्धो मामिहानवगुण्ठिताम् ॥६-११४-६१॥
निर्गतां नगरद्वारात् पद्भ्यामेवागतां प्रभो ।
पश्येष्टदार दारांस्ते भ्रष्टलज्जावगुण्ठनान् ॥६-११४-६२॥
बहिर्निष्पतितान् सर्वान् कथं दृष्ट्वा न कुप्यसि ।
अयं क्रीडासहायस्तेऽनाथो लालप्यते जनः ॥६-११४-६३॥
न चैनमाश्वासयसि किं वा न बहुमन्यसे ।
यास्त्वया विधवा राजन् कृता नैकाः कुलस्त्रियः ॥६-११४-६४॥
पतिव्रता धर्मरता गुरुशुश्रूषणे रताः ।
ताभिः शोकाभितप्ताभिः शप्तः परवशं गतः ॥६-११४-६५॥
त्वया विप्रकृताभिश्च तदा शप्तस्तदागतम् ।
प्रवादः सत्यमेवायं त्वां प्रति प्रायशो नृप ॥६-११४-६६॥
पतिव्रतानां नाकस्मात् पतन्त्यश्रूणि भूतले ।
कथं च नाम ते राजँल्लोकानाक्रम्य तेजसा ॥६-११४-६७॥
नारीचौर्यमिदं क्षुद्रं कृतं शौण्डीर्यमानिना ।
अपनीयाश्रमाद् रामं यन्मृगच्छद्मना त्वया ॥६-११४-६८॥
आनीता रामपत्नी सा अपनीय च लक्ष्मणम् ।
कातर्यं च न ते युद्धे कदाचित् संस्मराम्यहम् ॥६-११४-६९॥
तत् तु भाग्यविपर्यासान्नूनं ते पक्वलक्षणम् ।
अतीतानागतार्थज्ञो वर्तमानविचक्षणः ॥६-११४-७०॥
मैथिलीमाहृतां दृष्ट्वा ध्यात्वा निःश्वस्य चायतम् ।
सत्यवाक् स महाबाहो देवरो मे यदब्रवीत् ॥६-११४-७१॥
अयं राक्षसमुख्यानां विनाशः प्रत्युपस्थितः ।
कामक्रोधसमुत्थेन व्यसनेन प्रसङ्गिना ॥६-११४-७२॥
निवृत्तस्त्वत्कृतेनार्थः सोऽयं मूलहरो महान् ।
त्वया कृतमिदं सर्वमनाथं राक्षसं कुलम् ॥६-११४-७३॥
नहि त्वं शोचितव्यो मे प्रख्यातबलपौरुषः ।
स्त्रीस्वभावात् तु मे बुद्धिः कारुण्ये परिवर्तते ॥६-११४-७४॥
सुकृतं दुष्कृतं च त्वं गृहीत्वा स्वां गतिं गतः ।
आत्मानमनुशोचामि त्वद्विनाशेन दुःखिताम् ॥६-११४-७५॥
सुहृदां हितकामानां न श्रुतं वचनं त्वया ।
भ्रातॄणां चैव कात्स्र्न्येन हितमुक्तं दशानन ॥६-११४-७६॥
हेत्वर्थयुक्तं विधिवच्छ्रेयस्करमदारुणम् ।
विभीषणेनाभिहितं न कृतं हेतुमत् त्वया ॥६-११४-७७॥
मारीचकुम्भकर्णाभ्यां वाक्यं मम पितुस्तथा ।
न कृतं वीर्यमत्तेन तस्येदं फलमीदृशम् ॥६-११४-७८॥
नीलजीमूतसंकाश पीताम्बर शुभाङ्गद ।
स्वगात्राणि विनिक्षिप्य किं शेषे रुधिरावृतः ॥६-११४-७९॥
प्रसुप्त इव शोकार्तां किं मां न प्रतिभाषसे ।
महावीर्यस्य दक्षस्य संयुगेष्वपलायिनः ॥६-११४-८०॥
यातुधानस्य दौहित्रीं किं मां न प्रतिभाषसे ।
उत्तिष्ठोत्तिष्ठ किं शेषे नवे परिभवे कृते ॥६-११४-८१॥
अद्य वै निर्भया लङ्कां प्रविष्टाः सूर्यरश्मयः ।
येन सूदयसे शत्रून् समरे सूर्यवर्चसा ॥६-११४-८२॥
वज्रं वज्रधरस्येव सोऽयं ते सततार्चितः ।
रणे बहुप्रहरणो हेमजालपरिष्कृतः ॥६-११४-८३॥
परिघो व्यवकीर्णस्ते बाणैश्छिन्नः सहस्रधा ।
प्रियामिवोपसंगृह्य किं शेषे रणमेदिनीम् ॥६-११४-८४॥
अप्रियामिव कस्माच्च मां नेच्छस्यभिभाषितुम् ।
धिगस्तु हृदयं यस्या ममेदं न सहस्रधा ॥६-११४-८५॥
त्वयि पञ्चत्वमापन्ने फलते शोकपीडितम् ।
इत्येवं विलपन्ती सा बाष्पपर्याकुलेक्षणा ॥६-११४-८६॥
स्नेहोपस्कन्नहृदया तदा मोहमुपागमत् ।
कश्मलाभिहता सन्ना बभौ सा रावणोरसि ॥६-११४-८७॥
संध्यानुरक्ते जलदे दीप्ता विद्युदिवोज्ज्वला ।
तथागतां समुत्थाप्य सपत्न्यस्तां भृशातुराः ॥६-११४-८८॥
पर्यवस्थापयामासू रुदत्यो रुदतीं भृशम् ।
किं ते न विदिता देवि लोकानां स्थितिरध्रुवा ॥६-११४-८९॥
दशाविभागपर्याये राज्ञां वै चञ्चलाः श्रियः ।
इत्येवमुच्यमाना सा सशब्दं प्ररुरोद ह ॥६-११४-९०॥
स्नपयन्ती तदास्रेण स्तनौ वक्त्रं सुनिर्मलम् ।
एतस्मिन्नन्तरे रामो विभीषणमुवाच ह ॥६-११४-९१॥
संस्कारः क्रियतां भ्रातुः स्त्रीगणः परिसान्त्व्यताम् ।
तमुवाच ततो धीमान् विभीषण इदं वचः ॥६-११४-९२॥
विमृश्य बुद्ध्या प्रश्रितं धर्मार्थसहितं हितम् ।
त्यक्तधर्मव्रतं क्रूरं नृशंसमनृतं तथा ॥६-११४-९३॥
नाहमर्हामि संस्कर्तुं परदाराभिमर्शनम् ।
भ्रातृरूपो हि मे शत्रुरेष सर्वाहिते रतः ॥६-११४-९४॥
रावणो नार्हते पूजां पूज्योऽपि गुरुगौरवात् ।
नृशंस इति मां राम वक्ष्यन्ति मनुजा भुवि ॥६-११४-९५॥
श्रुत्वा तस्यागुणान् सर्वे वक्ष्यन्ति सुकृतं पुनः ।
तच्छ्रुत्वा परमप्रीतो रामो धर्मभृतां वरः ॥६-११४-९६॥
विभीषणमुवाचेदं वाक्यज्ञं वाक्यकोविदः ।
तवापि मे प्रियं कार्यं त्वत्प्रभावान्मया जितम् ॥६-११४-९७॥
अवश्यं तु क्षमं वाच्यो मया त्वं राक्षसेश्वर ।
अधर्मानृतसंयुक्तः कामं त्वेष निशाचरः ॥६-११४-९८॥
तेजस्वी बलवाञ्छूरः संग्रामेषु च नित्यशः ।
शतक्रतुमुखैर्देवैः श्रूयते न पराजितः ॥६-११४-९९॥
महात्मा बलसम्पन्नो रावणो लोकरावणः ।
मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् ॥६-११४-१००॥
क्रियतामस्य संस्कारो ममाप्येष यथा तव ।
त्वत्सकाशान्महाबाहो संस्कारं विधिपूर्वकम् ॥६-११४-१०१॥
क्षिप्रमर्हति धर्मेण त्वं यशोभाग् भविष्यसि ।
राघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः ॥६-११४-१०२॥
संस्कारयितुमारेभे भ्रातरं रावणं हतम् ।
स प्रविश्य पुरीं लङ्कां राक्षसेन्द्रो विभीषणः ॥६-११४-१०३॥
रावणस्याग्निहोत्रं तु निर्यापयति सत्वरम् ।
शकटान् दारुरूपाणि अग्नीन् वै याजकांस्तथा ॥६-११४-१०४॥
तथा चन्दनकाष्ठानि काष्ठानि विविधानि च ।
अगरूणि सुगन्धीनि गन्धांश्च सुरभींस्तथा ॥६-११४-१०५॥
मणिमुक्ताप्रवालानि निर्यापयति राक्षसः ।
आजगाम मुहूर्तेन राक्षसैः परिवारितः ॥६-११४-१०६॥
ततो माल्यवता सार्धं क्रियामेव चकार सः ।
सौवर्णीं शिबिकां दिव्यामारोप्य क्षौमवाससम् ॥६-११४-१०७॥
रावणं राक्षसाधीशमश्रुवर्णमुखा द्विजाः ।
तूर्यघोषैश्च विविधैः स्तुवद्भिश्चाभिनन्दितम् ॥६-११४-१०८॥
पताकाभिश्च चित्राभिः सुमनोभिश्च चित्रिताम् ।
उत्क्षिप्य शिबिकां तां तु विभीषणपुरोगमाः ॥६-११४-१०९॥
दक्षिणाभिमुखाः सर्वे गृह्य काष्ठानि भेजिरे ।
अग्नयो दीप्यमानास्ते तदाध्वर्युसमीरिताः ॥६-११४-११०॥
शरणाभिगताः सर्वे पुरस्तात् तस्य ते ययुः ।
अन्तःपुराणि सर्वाणि रुदमानानि सत्वरम् ॥६-११४-१११॥
पृष्ठतोऽनुययुस्तानि प्लवमानानि सर्वतः ।
रावणं प्रयते देशे स्थाप्य ते भृशदुःखिताः ॥६-११४-११२॥
चितां चन्दनकाष्ठैश्च पद्मकोशीरचन्दनैः ।
ब्राह्म्या संवर्तयामासू राङ्कवास्तरणावृताम् ॥६-११४-११३॥
प्रचक्रू राक्षसेन्द्रस्य पितृमेधमनुत्तमम् ।
वेदिं च दक्षिणाप्राचीं यथास्थानं च पावकम् ॥६-११४-११४॥
पृषदाज्येन सम्पूर्णं स्रुवं स्कन्धे प्रचिक्षिपुः ।
पादयोः शकटं प्रापुरूर्वोश्चोलूखलं तदा ॥६-११४-११५॥
दारुपात्राणि सर्वाणि अरणिं चोत्तरारणिम् ।
दत्त्वा तु मुसलं चान्यं यथास्थानं विचक्रमुः ॥६-११४-११६॥
शास्त्रदृष्टेन विधिना महर्षिविहितेन च ।
तत्र मेध्यं पशुं हत्वा राक्षसेन्द्रस्य राक्षसाः ॥६-११४-११७॥
परिस्तरणिकां राज्ञो घृताक्तां समवेशयन् ।
गन्धैर्माल्यैरलंकृत्य रावणं दीनमानसाः ॥६-११४-११८॥
विभीषणसहायास्ते वस्त्रैश्च विविधैरपि ।
लाजैरवकिरन्ति स्म बाष्पपूर्णमुखास्तथा ॥६-११४-११९॥
स ददौ पावकं तस्य विधियुक्तं विभीषणः ।
स्नात्वा चैवार्द्रवस्त्रेण तिलान् दर्भविमिश्रितान् ॥६-११४-१२०॥
उदकेन च सम्मिश्रान् प्रदाय विधिपूर्वकम् ।
ताः स्त्रियोऽनुनयामास सान्त्वयित्वा पुनः पुनः ॥६-११४-१२१॥
गम्यतामिति ताः सर्वा विविशुर्नगरं ततः ।
प्रविष्टासु पुरीं स्त्रीषु राक्षसेन्द्रो विभीषणः ।
रामपार्श्वमुपागम्य समतिष्ठद् विनीतवत् ॥६-११४-१२२॥
रामोऽपि सह सैन्येन ससुग्रीवः सलक्ष्मणः ।
हर्षं लेभे रिपुं हत्वा वृत्रं वज्रधरो यथा ॥६-११४-१२३॥
ततो विमुक्त्वा सशरं शरासनं महेन्द्रदत्तं कवचं स तन्महत् ।
विमुच्य रोषं रिपुनिग्रहात् ततो रामः स सौम्यत्वमुपागतोऽरिहा ॥६-११४-१२४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे मन्दोदरीविलापः नाम चतुर्दशाधिकशततमः सर्गः ॥६-११४॥
Previous
रावाणान्तःपुरपरिदेवनम्
Next
विभीषणाभिषेकः