रावाणान्तःपुरपरिदेवनम्

युद्धकाण्डः / रावाणान्तःपुरपरिदेवनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे रावाणान्तःपुरपरिदेवनम् नाम त्रयोदशाधिकशततमः सर्गः ॥६-११३॥
रावणं निहतं श्रुत्वा राघवेण महात्मना । अन्तःपुराद् विनिष्पेतू राक्षस्यः शोककर्शिताः ॥६-११३-१॥
वार्यमाणाः सुबहुशो वेष्टन्त्यः क्षितिपांसुषु । विमुक्तकेश्यः शोकार्ता गावो वत्सहता इव ॥६-११३-२॥
उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः । प्रविश्यायोधनं घोरं विचिन्वन्त्यो हतं पतिम् ॥६-११३-३॥
आर्यपुत्रेति वादिन्यो हा नाथेति च सर्वशः । परिपेतुः कबन्धाङ्कां महीं शोणितकर्दमाम् ॥६-११३-४॥
ता बाष्पपरिपूर्णाक्ष्यो भर्तृशोकपराजिताः । करिण्य इव नर्दन्त्यः करेण्वो हतयूथपाः ॥६-११३-५॥
ददृशुस्ता महाकायं महावीर्यं महाद्युतिम् । रावणं निहतं भूमौ नीलाञ्जनचयोपमम् ॥६-११३-६॥
ताः पतिं सहसा दृष्ट्वा शयानं रणपांसुषु । निपेतुस्तस्य गात्रेषु च्छिन्ना वनलता इव ॥६-११३-७॥
बहुमानात् परिष्वज्य काचिदेनं रुरोद ह । चरणौ काचिदालम्ब्य काचित् कण्ठेऽवलम्ब्य च ॥६-११३-८॥
उत्क्षिप्य च भुजौ काचिद् भूमौ सुपरिवर्तते । हतस्य वदनं दृष्ट्वा काचिन्मोहमुपागमत् ॥६-११३-९॥
काचिदङ्के शिरः कृत्वा रुरोद मुखमीक्षती । स्नापयन्ती मुखं बाष्पैस्तुषारैरिव पङ्कजम् ॥६-११३-१०॥
एवमार्ताः पतिं दृष्ट्वा रावणं निहतं भुवि । चुक्रुशुर्बहुधा शोकाद् भूयस्ताः पर्यदेवयन् ॥६-११३-११॥
येन वित्रासितः शक्रो येन वित्रासितो यमः । येन वैश्रवणो राजा पुष्पकेण वियोजितः ॥६-११३-१२॥
गन्धर्वाणामृषीणां च सुराणां च महात्मनाम् । भयं येन रणे दत्तं सोऽयं शेते रणे हतः ॥६-११३-१३॥
असुरेभ्यः सुरेभ्यो वा पन्नगेभ्योऽपि वा तथा । भयं यो न विजानाति तस्येदं मानुषाद् भयम् ॥६-११३-१४॥
अवध्यो देवतानां यस्तथा दानवरक्षसाम् । हतः सोऽयं रणे शेते मानुषेण पदातिना ॥६-११३-१५॥
यो न शक्यः सुरैर्हन्तुं न यक्षैर्नासुरैस्तथा । सोऽयं कश्चिदिवासत्त्वो मृत्युं मर्त्येन लम्भितः ॥६-११३-१६॥
एवं वदन्त्यो रुरुदुस्तस्य ता दुःखिताः स्त्रियः । भूय एव च दुःखार्ता विलेपुश्च पुनः पुनः ॥६-११३-१७॥
अशृण्वता तु सुहृदां सततं हितवादिनाम् । मरणायाहृता सीता राक्षसाश्च निपातिताः । एताः सममिदानीं ते वयमात्मा च पातितः ॥६-११३-१८॥
ब्रुवाणोऽपि हितं वाक्यमिष्टो भ्राता विभीषणः । दृष्टं परुषितो मोहात् त्वयाऽऽत्मवधकांक्षिणा ॥६-११३-१९॥
यदि निर्यातिता ते स्यात् सीता रामाय मैथिली । न नः स्याद् व्यसनं घोरमिदं मूलहरं महत् ॥६-११३-२०॥
वृत्तकामो भवेद् भ्राता रामो मित्रकुलं भवेत् । वयं चाविधवाः सर्वाः सकामा न च शत्रवः ॥६-११३-२१॥
त्वया पुनर्नृशंसेन सीतां संरुन्धता बलात् । राक्षसा वयमात्मा च त्रयं तुल्यं निपातितम् ॥६-११३-२२॥
न कामकारः कामं वा तव राक्षसपुंगव । दैवं चेष्टयते सर्वं हतं दैवेन हन्यते ॥६-११३-२३॥
वानराणां विनाशोऽयं राक्षसानां च ते रणे । तव चैव महाबाहो दैवयोगादुपागतः ॥६-११३-२४॥
नैवार्थेन च कामेन विक्रमेण न चाज्ञया । शक्या दैवगतिर्लोके निवर्तयितुमुद्यता ॥६-११३-२५॥
विलेपुरेवं दीनास्ता राक्षसाधिपयोषितः । कुरर्य इव दुःखार्ता बाष्पपर्याकुलेक्षणाः ॥६-११३-२६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे रावाणान्तःपुरपरिदेवनम् नाम त्रयोदशाधिकशततमः सर्गः ॥६-११३॥