विभीषणविलापः
युद्धकाण्डः / विभीषणविलापः
Script
Translation
Previous
पौलस्त्यवधः
Next
रावाणान्तःपुरपरिदेवनम्
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे विभीषणविलापः नाम द्वादशाधिकशततमः सर्गः ॥६-११२॥
भ्रातरं निहतं दृष्ट्वा शयानं निर्जितं रणे ।
शोकवेगपरीतात्मा विललाप विभीषणः ॥६-११२-१॥
वीरविक्रान्त विख्यात प्रवीण नयकोविद ।
महार्हशयनोपेत किं शेषे निहतो भुवि ॥६-११२-२॥
निक्षिप्य दीर्घौ निश्चेष्टौ भुजावङ्गदभूषितौ ।
मुकुटेनापवृत्तेन भास्कराकारवर्चसा ॥६-११२-३॥
तदिदं वीर सम्प्राप्तं यन्मया पूर्वमीरितम् ।
काममोहपरीतस्य यत् तन्न रुचितं तव ॥६-११२-४॥
यन्न दर्पात् प्रहस्तो वा नेन्द्रजिन्नापरे जनाः ।
न कुम्भकर्णोऽतिरथो नातिकायो नरान्तकः ।
न स्वयं बहु मन्येथास्तस्योदर्कोऽयमागतः ॥६-११२-५॥
गतः सेतुः सुनीतानां गतो धर्मस्य विग्रहः ।
गतः सत्त्वस्य संक्षेपः सुहस्तानां गतिर्गता ॥६-११२-६॥
आदित्यः पतितो भूमौ मग्नस्तमसि चन्द्रमाः ।
चित्रभानुः प्रशान्तार्चिर्व्यवसायो निरुद्यमः ।
अस्मिन् निपतिते वीरे भूमौ शस्त्रभृतां वरे ॥६-११२-७॥
किं शेषमिहलोकस्य गतसत्त्वस्य सम्प्रति ।
रणे राक्षसशार्दूले प्रसुप्त इव पांसुषु ॥६-११२-८॥
धृतिप्रवालः प्रसभाग्र्यपुष्पस्तपोबलः शौर्यनिबद्धमूलः ।
रणे महान् राक्षसराजवृक्षः सम्मर्दितो राघवमारुतेन ॥६-११२-९॥
तेजोविषाणः कुलवंशवंशः कोपप्रसादापरगात्रहस्तः ।
इक्ष्वाकुसिंहावगृहीतदेहः सुप्तः क्षितौ रावणगन्धहस्ती ॥६-११२-१०॥
पराक्रमोत्साहविजृम्भितार्चिर्निःश्वासधूमः स्वबलप्रतापः ।
प्रतापवान् संयति राक्षसाग्निर्निर्वापितो रामपयोधरेण ॥६-११२-११॥
सिंहर्क्षलाङ्गूलककुद्विषाणः पराभिजिद्गन्धनगन्धवाहः ।
रक्षोवृषश्चापलकर्णचक्षुः क्षितीश्वरव्याघ्रहतोऽवसन्नः ॥६-११२-१२॥
वदन्तं हेतुमद्वाक्यं परिदृष्टार्थनिश्चयम् ।
रामः शोकसमाविष्टमित्युवाच विभीषणम् ॥६-११२-१३॥
नायं विनष्टो निश्चेष्टः समरे चण्डविक्रमः ।
अत्युन्नतमहोत्साहः पतितोऽयमशङ्कितः ॥६-११२-१४॥
नैवं विनष्टाः शोचन्ते क्षत्रधर्मव्यवस्थिताः ।
वृद्धिमाशंसमाना ये निपतन्ति रणाजिरे ॥६-११२-१५॥
येन सेन्द्रास्त्रयो लोकास्त्रासिता युधि धीमता ।
तस्मिन् कालसमायुक्ते न कालः परिशोचितुम् ॥६-११२-१६॥
नैकान्तविजयो युद्धे भूतपूर्वः कदाचन ।
परैर्वा हन्यते वीरः परान् वा हन्ति संयुगे ॥६-११२-१७॥
इयं हि पूर्वैः संदिष्टा गतिः क्षत्रियसम्मता ।
क्षत्रियो निहतः संख्ये न शोच्य इति निश्चयः ॥६-११२-१८॥
तदेवं निश्चयं दृष्ट्वा तत्त्वमास्थाय विज्वरः ।
यदिहानन्तरं कार्यं कल्प्यं तदनुचिन्तय ॥६-११२-१९॥
तमुक्तवाक्यं विक्रान्तं राजपुत्रं विभीषणः ।
उवाच शोकसंतप्तो भ्रातुर्हितमनन्तरम् ॥६-११२-२०॥
योऽयं विमर्देष्वविभग्नपूर्वः सुरैः समस्तैरपि वासवेन ।
भवन्तमासाद्य रणे विभग्नो वेलामिवासाद्य यथा समुद्रः ॥६-११२-२१॥
अनेन दत्तानि वनीपकेषु भुक्ताश्च भोगा निभृताश्च भृत्याः ।
धनानि मित्रेषु समर्पितानि वैराण्यमित्रेषु च यापितानि ॥६-११२-२२॥
एषोऽहिताग्निश्च महातपाश्च वेदान्तगः कर्मसु चाग्र्यशूरः ।
एतस्य यत् प्रेतगतस्य कृत्यं तत् कर्तुमिच्छामि तव प्रसादात् ॥६-११२-२३॥
स तस्य वाक्यैः करुणैर्महात्मा सम्बोधितः साधु विभीषणेन ।
आज्ञापयामास नरेन्द्रसूनुः स्वर्गीयमाधानमदीनसत्त्वः ॥६-११२-२४॥
मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् ।
क्रियतामस्य संस्कारो ममाप्येष यथा तव ॥६-११२-२५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे विभीषणविलापः नाम द्वादशाधिकशततमः सर्गः ॥६-११२॥
Previous
पौलस्त्यवधः
Next
रावाणान्तःपुरपरिदेवनम्