पौलस्त्यवधः
युद्धकाण्डः / पौलस्त्यवधः
Script
Translation
Previous
रावणैकशतशिरश्छेदनम्
Next
विभीषणविलापः
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे पौलस्त्यवधः नाम एकादशाधिकशततमः सर्गः ॥६-१११॥
अथ संस्मारयामास मातली राघवं तदा ।
अजानन्निव किं वीर त्वमेनमनुवर्तसे ॥६-१११-१॥
विसृजास्मै वधाय त्वमस्त्रं पैतामहं प्रभो ।
विनाशकालः कथितो यः सुरैः सोऽद्य वर्तते ॥६-१११-२॥
ततः संस्मारितो रामस्तेन वाक्येन मातलेः ।
जग्राह स शरं दीप्तं निःश्वसन्तमिवोरगम् ॥६-१११-३॥
यं तस्मै प्रथमं प्रादादगस्त्यो भगवानृषिः ।
ब्रह्मदत्तं महद् बाणममोघं युधि वीर्यवान् ॥६-१११-४॥
ब्रह्मणा निर्मितं पूर्वमिन्द्रार्थममितौजसा ।
दत्तं सुरपतेः पूर्वं त्रिलोकजयकांक्षिणः ॥६-१११-५॥
यस्य वाजेषु पवनः फले पावकभास्करौ ।
शरीरमाकाशमयं गौरवे मेरुमन्दरौ ॥६-१११-६॥
जाज्वल्यमानं वपुषा सुपुङ्खं हेमभूषितम् ।
तेजसा सर्वभूतानां कृतं भास्करवर्चसम् ॥६-१११-७॥
सधूममिव कालाग्निं दीप्तमाशीविषोपमम् ।
नरनागाश्ववृन्दानां भेदनं क्षिप्रकारिणम् ॥६-१११-८॥
द्वाराणां परिघाणां च गिरीणां चापि भेदनम् ।
नानारुधिरदिग्धाङ्गं मेदोदिग्धं सुदारुणम् ॥६-१११-९॥
वज्रसारं महानादं नानासमितिदारुणम् ।
सर्ववित्रासनं भीमं श्वसन्तमिव पन्नगम् ॥६-१११-१०॥
कङ्कगृध्रबकानां च गोमायुगणरक्षसाम् ।
नित्यभक्षप्रदं युद्धे यमरूपं भयावहम् ॥६-१११-११॥
नन्दनं वानरेन्द्राणां रक्षसामवसादनम् ।
वाजितं विविधैर्वाजैश्चारुचित्रैर्गरुत्मतः ॥६-१११-१२॥
तमुत्तमेषुं लोकानामिक्ष्वाकुभयनाशनम् ।
द्विषतां कीर्तिहरणं प्रहर्षकरमात्मनः ॥६-१११-१३॥
अभिमन्त्र्य ततो रामस्तं महेषुं महाबलः ।
वेदप्रोक्तेन विधिना संदधे कार्मुके बली ॥६-१११-१४॥
तस्मिन् संधीयमाने तु राघवेण शरोत्तमे ।
सर्वभूतानि संत्रेसुश्चचाल च वसुंधरा ॥६-१११-१५॥
स रावणाय संक्रुद्धो भृशमायम्य कार्मुकम् ।
चिक्षेप परमायत्तः शरं मर्मविदारणम् ॥६-१११-१६॥
स वज्र इव दुर्धर्षो वज्रिबाहुविसर्जितः ।
कृतान्त इव चावार्यो न्यपतद् रावणोरसि ॥६-१११-१७॥
स विसृष्टो महावेगः शरीरान्तकरः परः ।
बिभेद हृदयं तस्य रावणस्य दुरात्मनः ॥६-१११-१८॥
रुधिराक्तः स वेगेन शरीरान्तकरः शरः ।
रावणस्य हरन् प्राणान् विवेश धरणीतलम् ॥६-१११-१९॥
स शरो रावणं हत्वा रुधिरार्द्रकृतच्छविः ।
कृतकर्मा निभृतवत् स तूणीं पुनराविशत् ॥६-१११-२०॥
तस्य हस्ताद्धतस्याशु कार्मुकं तत् ससायकम् ।
निपपात सह प्राणैर्भ्रश्यमानस्य जीवितात् ॥६-१११-२१॥
गतासुर्भीमवेगस्तु नैर्ऋतेन्द्रो महाद्युतिः ।
पपात स्यन्दनाद् भूमौ वृत्रो वज्रहतो यथा ॥६-१११-२२॥
तं दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः ।
हतनाथा भयत्रस्ताः सर्वतः सम्प्रदुद्रुवुः ॥६-१११-२३॥
नर्दन्तश्चाभिपेतुस्तान् वानरा द्रुमयोधिनः ।
दशग्रीववधं दृष्ट्वा वानरा जितकाशिनः ॥६-१११-२४॥
अर्दिता वानरैर्हृष्टैर्लङ्कामभ्यपतन् भयात् ।
हताश्रयत्वात् करुणैर्बाष्पप्रस्रवणैर्मुखैः ॥६-१११-२५॥
ततो विनेदुः संहृष्टा वानरा जितकाशिनः ।
वदन्तो राघवजयं रावणस्य च तद्वधम् ॥६-१११-२६॥
अथान्तरिक्षे व्यनदत् सौम्यस्त्रिदशदुन्दुभिः ।
दिव्यगन्धवहस्तत्र मारुतः सुसुखो ववौ ॥६-१११-२७॥
निपपातान्तरिक्षाच्च पुष्पवृष्टिस्तदा भुवि ।
किरन्ती राघवरथं दुरावापा मनोहरा ॥६-१११-२८॥
राघवस्तवसंयुक्ता गगने च विशुश्रुवे ।
साधुसाध्विति वागग्र्या देवतानां महात्मनाम् ॥६-१११-२९॥
आविवेश महान् हर्षो देवानां चारणैः सह ।
रावणे निहते रौद्रे सर्वलोकभयंकरे ॥६-१११-३०॥
ततः सकामं सुग्रीवमङ्गदं च विभीषणम् ।
चकार राघवः प्रीतो हत्वा राक्षसपुंगवम् ॥६-१११-३१॥
ततः प्रजग्मुः प्रशमं मरुद्गणा दिशः प्रसेदुर्विमलं नभोऽभवत् ।
मही चकम्पे न च मारुतो ववौ स्थिरप्रभश्चाप्यभवद् दिवाकरः ॥६-१११-३२॥
ततस्तु सुग्रीवविभीषणाङ्गदाः सुहृद्विशिष्टाः सहलक्ष्मणस्तदा ।
समेत्य हृष्टा विजयेन राघवं रणेऽभिरामं विधिनाभ्यपूजयन् ॥६-१११-३३॥
स तु निहतरिपुः स्थिरप्रतिज्ञः स्वजनबलाभिवृतो रणे बभूव ।
रघुकुलनृपनन्दनो महौजास्त्रिदशगणैरभिसंवृतो महेन्द्रः ॥६-१११-३४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पौलस्त्यवधः नाम एकादशाधिकशततमः सर्गः ॥६-१११॥
Previous
रावणैकशतशिरश्छेदनम्
Next
विभीषणविलापः