रावणैकशतशिरश्छेदनम्
युद्धकाण्डः / रावणैकशतशिरश्छेदनम्
Script
Translation
Previous
रावणध्वजोन्मथनम्
Next
पौलस्त्यवधः
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे रावणैकशतशिरश्छेदनम् नाम दशाधिकशततमः सर्गः ॥६-११०॥
तौ तथा युध्यमानौ तु समरे रामरावणौ ।
ददृशुः सर्वभूतानि विस्मितेनान्तरात्मना ॥६-११०-१॥
अर्दयन्तौ तु समरे तयोस्तौ स्यन्दनोत्तमौ ।
परस्परमभिक्रुद्धौ परस्परमभिद्रुतौ ॥६-११०-२॥
परस्परवधे युक्तौ घोररूपौ बभूवतुः ।
मण्डलानि च वीथीश्च गतप्रत्यागतानि च ॥६-११०-३॥
दर्शयन्तौ बहुविधां सूतौ सारथ्यजां गतिम् ।
अर्दयन् रावणं रामो राघवं चापि रावणः ॥६-११०-४॥
गतिवेगं समापन्नौ प्रवर्तननिवर्तने ।
क्षिपतोः शरजालानि तयोस्तौ स्यन्दनोत्तमौ ॥६-११०-५॥
चेरतुः संयुगमहीं सासारौ जलदाविव ।
दर्शयित्वा तदा तौ तु गतिं बहुविधां रणे ॥६-११०-६॥
परस्परस्याभिमुखौ पुनरेव च तस्थतुः ।
धुरं धुरेण रथयोर्वक्त्रं वक्त्रेण वाजिनाम् ॥६-११०-७॥
पताकाश्च पताकाभिः समीयुः स्थितयोस्तदा ।
रावणस्य ततो रामो धनुर्मुक्तैः शितैः शरैः ॥६-११०-८॥
चतुर्भिश्चतुरो दीप्तान् हयान् प्रत्यपसर्पयत् ।
स क्रोधवशमापन्नो हयानामपसर्पणे ॥६-११०-९॥
मुमोच निशितान् बाणान् राघवाय दशाननः ।
सोऽतिविद्धो बलवता दशग्रीवेण राघवः ॥६-११०-१०॥
जगाम न विकारं च न चापि व्यथितोऽभवत् ।
चिक्षेप च पुनर्बाणान् वज्रसारसमस्वनान् ॥६-११०-११॥
सारथिं वज्रहस्तस्य समुद्दिश्य दशाननः ।
मातलेस्तु महावेगाः शरीरे पतिताः शराः ॥६-११०-१२॥
न सूक्ष्ममपि सम्मोहं व्यथां वा प्रददुर्युधि ।
तया धर्षणया क्रुद्धो मातलेर्न तथाऽऽत्मनः ॥६-११०-१३॥
चकार शरजालेन राघवो विमुखं रिपुम् ।
विंशतिं त्रिंशतिं षष्टिं शतशोऽथ सहस्रशः ॥६-११०-१४॥
मुमोच राघवो वीरः सायकान् स्यन्दने रिपोः ।
रावणोऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः ॥६-११०-१५॥
गदामुसलवर्षेण रामं प्रत्यर्दयद् रणे ।
तत् प्रवृत्तं पुनर्युद्धं तुमुलं रोमहर्षणम् ॥६-११०-१६॥
गदानां मुसलानां च परिघाणां च निःस्वनैः ।
शराणां पुङ्खवातैश्च क्षुभिताः सप्त सागराः ॥६-११०-१७॥
क्षुब्धानां सागराणां च पातालतलवासिनः ।
व्यथिता दानवाः सर्वे पन्नगाश्च सहस्रशः ॥६-११०-१८॥
चकम्पे मेदिनी कृत्स्ना सशैलवनकानना ।
भास्करो निष्प्रभश्चासीन्न ववौ चापि मारुतः ॥६-११०-१९॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
चिन्तामापेदिरे सर्वे सकिंनरमहोरगाः ॥६-११०-२०॥
स्वस्ति गोब्राह्मणेभ्यस्तु लोकास्तिष्ठन्तु शाश्वताः ।
जयतां राघवः संख्ये रावणं राक्षसेश्वरम् ॥६-११०-२१॥
एवं जपन्तोऽपश्यंस्ते देवाः सर्षिगणास्तदा ।
रामरावणयोर्युद्धं सुघोरं रोमहर्षणम् ॥६-११०-२२॥
गन्धर्वाप्सरसां सङ्घा दृष्ट्वा युद्धमनूपमम् ।
गगनं गगनाकारं सागरः सागरोपमः ॥६-११०-२३॥
रामरावणयोर्युद्धं रामरावणयोरिव ।
एवं ब्रुवन्तो ददृशुस्तद् युद्धं रामरावणम् ॥६-११०-२४॥
ततः क्रोधान्महाबाहू रघूणां कीर्तिवर्धनः ।
संधाय धनुषा रामः शरमाशीविषोपमम् ॥६-११०-२५॥
रावणस्य शिरोऽच्छिन्दच्छ्रीमज्ज्वलितकुण्डलम् ।
तच्छिरः पतितं भूमौ दृष्टं लोकैस्त्रिभिस्तदा ॥६-११०-२६॥
तस्यैव सदृशं चान्यद् रावणस्योत्थितं शिरः ।
तत् क्षिप्तं क्षिप्रहस्तेन रामेण क्षिप्रकारिणा ॥६-११०-२७॥
द्वितीयं रावणशिरश्छिन्नं संयति सायकैः ।
छिन्नमात्रं च तच्छीर्षं पुनरेव प्रदृश्यते ॥६-११०-२८॥
तदप्यशनिसंकाशैश्छिन्नं रामस्य सायकैः ।
एवमेव शतं छिन्नं शिरसां तुल्यवर्चसाम् ॥६-११०-२९॥
न चैव रावणस्यान्तो दृश्यते जीवितक्षये ।
ततः सर्वास्त्रविद् वीरः कौसल्यानन्दवर्धनः ॥६-११०-३०॥
मार्गणैर्बहुभिर्युक्तश्चिन्तयामास राघवः ।
मारीचो निहतो यैस्तु खरो यैस्तु सदूषणः ॥६-११०-३१॥
क्रौञ्चावटे विराधस्तु कबन्धो दण्डकावने ।
यैः साला गिरयो भग्ना वाली च क्षुभितोऽम्बुधिः ॥६-११०-३२॥
त इमे सायकाः सर्वे युद्धे प्रात्ययिका मम ।
किं नु तत् कारणं येन रावणे मन्दतेजसः ॥६-११०-३३॥
इति चिन्तापरश्चासीदप्रमत्तश्च संयुगे ।
ववर्ष शरवर्षाणि राघवो रावणोरसि ॥६-११०-३४॥
रावणोऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः ।
गदामुसलवर्षेण रामं प्रत्यर्दयद् रणे ॥६-११०-३५॥
तत् प्रवृत्तं महद् युद्धं तुमुलं रोमहर्षणम् ।
अन्तरिक्षे च भूमौ च पुनश्च गिरिमूर्धनि ॥६-११०-३६॥
देवदानवयक्षाणां पिशाचोरगरक्षसाम् ।
पश्यतां तन्महद् युद्धं सर्वरात्रमवर्तत ॥६-११०-३७॥
नैव रात्रिं न दिवसं न मुहूर्तं न च क्षणम् ।
रामरावणयोर्युद्धं विराममुपगच्छति ॥६-११०-३८॥
दशरथसुतराक्षसेन्द्रयोस्तयोर्जयमनवेक्ष्य रणे स राघवस्य ।
सुरवररथसारथिर्महात्मा रणरतराममुवाच वाक्यमाशु ॥६-११०-३९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे रावणैकशतशिरश्छेदनम् नाम दशाधिकशततमः सर्गः ॥६-११०॥
Previous
रावणध्वजोन्मथनम्
Next
पौलस्त्यवधः