रावणध्वजोन्मथनम्

युद्धकाण्डः / रावणध्वजोन्मथनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे रावणध्वजोन्मथनम् नाम नवाधिकशततमः सर्गः ॥६-१०९॥
ततः प्रवृत्तं सुक्रूरं रामरावणयोस्तदा । सुमहद् द्वैरथं युद्धं सर्वलोकभयावहम् ॥६-१०९-१॥
ततो राक्षससैन्यं च हरीणां च महद्बलम् । प्रगृहीतप्रहरणं निश्चेष्टं समवर्तत ॥६-१०९-२॥
सम्प्रयुद्धौ तु तौ दृष्ट्वा बलवन्नरराक्षसौ । व्याक्षिप्तहृदयाः सर्वे परं विस्मयमागताः ॥६-१०९-३॥
नानाप्रहरणैर्व्यग्रैर्भुजैर्विस्मितबुद्धयः । तस्थुः प्रेक्ष्य च संग्रामं नाभिजग्मुः परस्परम् ॥६-१०९-४॥
रक्षसां रावणं चापि वानराणां च राघवम् । पश्यतां विस्मिताक्षाणां सैन्यं चित्रमिवाबभौ ॥६-१०९-५॥
तौ तु तत्र निमित्तानि दृष्ट्वा राघवरावणौ । कृतबुद्धी स्थिरामर्षौ युयुधाते ह्यभीतवत् ॥६-१०९-६॥
जेतव्यमिति काकुत्स्थो मर्तव्यमिति रावणः । धृतौ स्ववीर्यसर्वस्वं युद्धेऽदर्शयतां तदा ॥६-१०९-७॥
ततः क्रोधाद् दशग्रीवः शरान् संधाय वीर्यवान् । मुमोच ध्वजमुद्दिश्य राघवस्य रथे स्थितम् ॥६-१०९-८॥
ते शरास्तमनासाद्य पुरंदररथध्वजम् । रथशक्तिं परामृश्य निपेतुर्धरणीतले ॥६-१०९-९॥
ततो रामोऽपि संक्रुद्धश्चापमाकृष्य वीर्यवान् । कृतप्रतिकृतं कर्तुं मनसा सम्प्रचक्रमे ॥६-१०९-१०॥
रावणध्वजमुद्दिश्य मुमोच निशितं शरम् । महासर्पमिवासह्यं ज्वलन्तं स्वेन तेजसा ॥६-१०९-११॥
रामश्चिक्षेप तेजस्वी केतुमुद्दिश्य सायकम् । जगाम स महीं छित्त्वा दशग्रीवध्वजं शरः ॥६-१०९-१२॥
स निकृत्तोऽपतद् भूमौ रावणस्यन्दनध्वजः । ध्वजस्योन्मथनं दृष्ट्वा रावणः स महाबलः ॥६-१०९-१३॥
सम्प्रदीप्तोऽभवत् क्रोधादमर्षात् प्रदहन्निव । स रोषवशमापन्नः शरवर्षं ववर्ष ह ॥६-१०९-१४॥
रामस्य तुरगान् दीप्तैः शरैर्विव्याध रावणः । ते दिव्या हरयस्तत्र नास्खलन्नापि बभ्रमुः ॥६-१०९-१५॥
बभूवुः स्वस्थहृदयाः पद्मनालैरिवाहताः । तेषामसम्भ्रमं दृष्ट्वा वाजिनां रावणस्तदा ॥६-१०९-१६॥
भूय एव सुसंक्रुद्धः शरवर्षं मुमोच ह । गदाश्च परिघांश्चैव चक्राणि मुसलानि च ॥६-१०९-१७॥
गिरिशृङ्गाणि वृक्षांश्च तथा शूलपरश्वधान् । मायाविहितमेतत् तु शस्त्रवर्षमपातयत् । सहस्रशस्तदा बाणानश्रान्तहृदयोद्यमः ॥६-१०९-१८॥
तुमुलं त्रासजननं भीमं भीमप्रतिस्वनम् । तद् वर्षमभवद् युद्धे नैकशस्त्रमयं महत् ॥६-१०९-१९॥
विमुच्य राघवरथं समन्ताद् वानरे बले । सायकैरन्तरिक्षं च चकार सुनिरन्तरम् ॥६-१०९-२०॥
मुमोच च दशग्रीवो निःसङ्गेनान्तरात्मना । व्यायच्छमानं तं दृष्ट्वा तत्परं रावणं रणे ॥६-१०९-२१॥
प्रहसन्निव काकुत्स्थः संदधे निशितान् शरान् । स मुमोच ततो बाणान् शतशोऽथ सहस्रशः ॥६-१०९-२२॥
तान् दृष्ट्वा रावणश्चक्रे स्वशरैः खं निरन्तरम् । ताभ्यां नियुक्तेन तदा शरवर्षेण भास्वता ॥६-१०९-२३॥
शरबद्धमिवाभाति द्वितीयं भास्वदम्बरम् । नानिमित्तोऽभवद् बाणो नानिर्भेत्ता न निष्फलः ॥६-१०९-२४॥
अन्योन्यमभिसंहत्य निपेतुर्धरणीतले । तथा विसृजतोर्बाणान् रामरावणयोर्मृधे ॥६-१०९-२५॥
प्रायुध्येतामविच्छिन्नमस्यन्तौ सव्यदक्षिणम् । चक्रतुश्च शरैर्घोरैर्निरुच्छ्वासमिवाम्बरम् ॥६-१०९-२६॥
रावणस्य हयान् रामो हयान् रामस्य रावणः । जघ्नतुस्तौ तदान्योन्यं कृतानुकृतकारिणौ ॥६-१०९-२७॥
एवं तु तौ सुसंक्रुद्धौ चक्रतुर्युद्धमुत्तमम् । मुहूर्तमभवद् युद्धं तुमुलं रोमहर्षणम् ॥६-१०९-२८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे रावणध्वजोन्मथनम् नाम नवाधिकशततमः सर्गः ॥६-१०९॥