शुभाशुभनिमित्तदर्शनम्
युद्धकाण्डः / शुभाशुभनिमित्तदर्शनम्
Script
Translation
Previous
आदित्यहृदयम्
Next
रावणध्वजोन्मथनम्
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे शुभाशुभनिमित्तदर्शनम् नाम अष्टाधिकशततमः सर्गः ॥६-१०८॥
सारथिः स रथं हृष्टः परसैन्यप्रधर्षणम् ।
गन्धर्वनगराकारं समुच्छ्रितपताकिनम् ॥६-१०८-१॥
युक्तं परमसम्पन्नैर्वाजिभिर्हेममालिभिः ।
युद्धोपकरणैः पूर्णं पताकाध्वजमालिनम् ॥६-१०८-२॥
ग्रसन्तमिव चाकाशं नादयन्तं वसुंधराम् ।
प्रणाशं परसैन्यानां स्वसैन्यस्य प्रहर्षणम् ॥६-१०८-३॥
रावणस्य रथं क्षिप्रं चोदयामास सारथिः ।
तमापतन्तं सहसा स्वनवन्तं महाध्वजम् ॥६-१०८-४॥
रथं राक्षसराजस्य नरराजो ददर्श ह ।
कृष्णवाजिसमायुक्तं युक्तं रौद्रेण वर्चसा ॥६-१०८-५॥
दीप्यमानमिवाकाशे विमानं सूर्यवर्चसम् ।
तडित्पताकागहनं दर्शितेन्द्रायुधप्रभम् ॥६-१०८-६॥
शरधारा विमुञ्चन्तं धाराधरमिवाम्बुदम् ।
स दृष्ट्वा मेघसंकाशमापतन्तं रथं रिपोः ॥६-१०८-७॥
गिरेर्वज्राभिमृष्टस्य दीर्यतः सदृशस्वनम् ।
विस्फारयन् वै वेगेन बालचन्द्रानतं धनुः ॥६-१०८-८॥
उवाच मातलिं रामः सहस्राक्षस्य सारथिम् ।
मातले पश्य संरब्धमापतन्तं रथं रिपोः ॥६-१०८-९॥
यथापसव्यं पतता वेगेन महता पुनः ।
समरे हन्तुमात्मानं तथानेन कृता मतिः ॥६-१०८-१०॥
तदप्रमादमातिष्ठ प्रत्युद्गच्छ रथं रिपोः ।
विध्वंसयितुमिच्छामि वायुर्मेघमिवोत्थितम् ॥६-१०८-११॥
अविक्लवमसम्भ्रान्तमव्यग्रहृदयेक्षणम् ।
रश्मिसंचारनियतं प्रचोदय रथं द्रुतम् ॥६-१०८-१२॥
कामं न त्वं समाधेयः पुरंदररथोचितः ।
युयुत्सुरहमेकाग्रः स्मारये त्वां न शिक्षये ॥६-१०८-१३॥
परितुष्टः स रामस्य तेन वाक्येन मातलिः ।
प्रचोदयामास रथं सुरसारथिरुत्तमः ॥६-१०८-१४॥
अपसव्यं ततः कुर्वन् रावणस्य महारथम् ।
चक्रसम्भूतरजसा रावणं व्यवधूनयत् ॥६-१०८-१५॥
ततः क्रुद्धो दशग्रीवस्ताम्रविस्फारितेक्षणः ।
रथप्रतिमुखं रामं सायकैरवधूनयत् ॥६-१०८-१६॥
धर्षणामर्षितो रामो धैर्यं रोषेण लम्भयन् ।
जग्राह सुमहावेगमैन्द्रं युधि शरासनम् ॥६-१०८-१७॥
शरांश्च सुमहावेगान् सूर्यरश्मिसमप्रभान् ।
तदुपोढं महद् युद्धमन्योन्यवधकांक्षिणोः ।
परस्पराभिमुखयोर्दृप्तयोरिव सिंहयोः ॥६-१०८-१८॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
समीयुर्द्वैरथं द्रष्टुं रावणक्षयकांक्षिणः ॥६-१०८-१९॥
समुत्पेतुरथोत्पाता दारुणा रोमहर्षणाः ।
रावणस्य विनाशाय राघवस्योदयाय च ॥६-१०८-२०॥
ववर्ष रुधिरं देवो रावणस्य रथोपरि ।
वाता मण्डलिनस्तीव्रा व्यपसव्यं प्रचक्रमुः ॥६-१०८-२१॥
महद्गृध्रकुलं चास्य भ्रममाणं नभस्थले ।
येन येन रथो याति तेन तेन प्रधावति ॥६-१०८-२२॥
संध्यया चावृता लङ्का जपापुष्पनिकाशया ।
दृश्यते सम्प्रदीप्तेव दिवसेऽपि वसुंधरा ॥६-१०८-२३॥
सनिर्घाता महोल्काश्च सम्प्रपेतुर्महास्वनाः ।
विषादयंस्ते रक्षांसि रावणस्य तदाहिताः ॥६-१०८-२४॥
रावणश्च यतस्तत्र प्रचचाल वसुंधरा ।
रक्षसां च प्रहरतां गृहीता इव बाहवः ॥६-१०८-२५॥
ताम्राः पीताः सिताः श्वेताः पतिताः सूर्यरश्मयः ।
दृश्यन्ते रावणस्याग्रे पर्वतस्येव धातवः ॥६-१०८-२६॥
गृध्रैरनुगताश्चास्य वमन्त्यो ज्वलनं मुखैः ।
प्रणेदुर्मुखमीक्षन्त्यः संरब्धमशिवं शिवाः ॥६-१०८-२७॥
प्रतिकूलं ववौ वायू रणे पांसून् समुत्किरन् ।
तस्य राक्षसराजस्य कुर्वन् दृष्टिविलोपनम् ॥६-१०८-२८॥
निपेतुरिन्द्राशनयः सैन्ये चास्य समन्ततः ।
दुर्विषह्यस्वरा घोरा विना जलधरोदयम् ॥६-१०८-२९॥
दिशश्च प्रदिशः सर्वा बभूवुस्तिमिरावृताः ।
पांसुवर्षेण महता दुर्दर्शं च नभोऽभवत् ॥६-१०८-३०॥
कुर्वन्त्यः कलहं घोरं सारिकास्तद्रथं प्रति ।
निपेतुः शतशस्तत्र दारुणा दारुणारुताः ॥६-१०८-३१॥
जघनेभ्यः स्फुलिङ्गाश्च नेत्रेभ्योऽश्रूणि संततम् ।
मुमुचुस्तस्य तुरगास्तुल्यमग्निं च वारि च ॥६-१०८-३२॥
एवंप्रकारा बहवः समुत्पाता भयावहाः ।
रावणस्य विनाशाय दारुणाः सम्प्रजज्ञिरे ॥६-१०८-३३॥
रामस्यापि निमित्तानि सौम्यानि च शिवानि च ।
बभूवुर्जयशंसीनि प्रादुर्भूतानि सर्वशः ॥६-१०८-३४॥
निमित्तानीह सौम्यानि राघवः स्वजयाय वै ।
दृष्ट्वा परमसंहृष्टो हतं मेने च रावणम् ॥६-१०८-३५॥
ततो निरीक्ष्यात्मगतानि राघवो रणे निमित्तानि निमित्तकोविदः ।
जगाम हर्षं च परां च निर्वृतिं चकार युद्धे ह्यधिकं च विक्रमम् ॥६-१०८-३६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे शुभाशुभनिमित्तदर्शनम् नाम अष्टाधिकशततमः सर्गः ॥६-१०८॥
Previous
आदित्यहृदयम्
Next
रावणध्वजोन्मथनम्